"ब्रह्मसूत्राणि" इत्यस्य संस्करणे भेदः

(लघु) gen fixes using AWB
No edit summary
पङ्क्तिः १:
भारतीयार्षपरम्परायाम् ऋषीणां योगदानम् अत्यद्भुतम् । ते च साक्षात्कृतधर्माण: ऋषय: ऋतम्भरया प्रज्ञया महत: ज्ञानराशे: आविष्कारं चक्रु: । सा एव च ज्ञानराशि: ’अपौरुषेयं वाक्यं’ इति लक्षणेन लक्षितवेदशब्देन अभिधानं भेजे ।’अनन्ता वै वेदा:’ इति श्रौतेनैव वाक्येन ज्ञायते यत् ते च वेदा: ऋग्-यजु-साम-अथर्वात्मना अपौरुषेया: सन्त: ब्रह्माण्डे व्याप्ता: विद्यन्ते । यद्यप्येक एव वेद: तथापि वेदस्वरूपानुगुण्येन ऋग्वेदादि नामभि: अभिहित: । मोक्षाख्यस्य चरमपुरुषार्थस्य विषये तात्पर्येण बोधयति इति कृत्वा वेदस्य परमप्रामाण्यं प्राप्तम् । एतदवल्बिता: काश्चन स्मृती: (मन्वादय:), तासां का गति:? इत्याकाङ्क्षायां वेदोपबृंहणद्वारा प्रामाण्यं स्थापितम् ।’इतिहासपुराणाभ्यां वेदं समुपबृंहयेत्’ इति मनो: वाक्येन इदं वेदसहकारित्वं स्पष्ठं भवति स्मृतीनाम् ।
बादरायणः रचिता ग्रथः |
 
संस्कृतवाङ्मयं च अतिविस्तृतं, तत्र प्रथमं वेदा:, षडङ्गानि, इतिहास-पुराणानि, धर्मशास्त्रमिति । तदनन्तरत्वे च षडास्तिकदर्शनानि नास्तिकदर्शनानीति प्रसिद्धम् । आस्तिकदर्शनान्तर्गतत्वे यत् वैयासिकदर्शनम् उत्तरमीमांसादर्शनं तत्र ’प्रस्थानत्रयम्’ इति अत्यन्तं प्रसिद्धम् । श्रुतिप्रस्थानम्, स्मृतिप्रस्थानम्, न्यायप्रस्थानमिति अवयवत्रयम् । तत्र तृतीयप्रस्थानन्तर्गतं भवति इदं ब्रह्मसूत्रम् ।’प्रस्थानम्’ इति शब्दस्य मार्ग: इत्यर्थ: । ब्रह्मावगतौ मार्ग: इत्यर्थ: । एवञ्च ब्रह्मसूत्रं नाम ब्रह्मसम्बद्धं सूत्रमित्यर्थ: सिद्धो भवति । अस्य च कर्ता बादरायण: । ग्रन्थस्यास्य अन्यदपि नाम अस्ति यत् वैयासिकसूत्राणि इति । शारीरकमीमांसा इत्यपि व्यवह्रियते । शारीरस्य जीवस्य अद्वैतब्रह्ममार्ग: प्रदर्श्यते इति हेतो: ।
[[वर्गः:संस्कृतसाहित्यम्‌|ब्रह्मसूत्राणि]]
 
दर्शनेषु काश्चन क्रम: आदृत: वर्तते यत् प्रथमं सूत्राणि, अनन्तरं भाष्यम्, वार्तिकम्, व्याख्यानम् इति शास्त्रविचाराणाम् उपस्थापनक्रम: येन च मन्दमतीनां सुलभेन प्रतिपत्ति: भवति । तथैव च ग्रन्थस्यास्य सूत्रकार: श्री बादरायण:, भाष्यकार: श्री आद्य: शङ्कर:, वार्तिककार: श्री सुरेश्वराचार्य:, व्याख्यानकारास्तु अनेके सञ्जाता: श्री गोविन्दानन्द:, श्री वाचस्पतिमिश्र:, श्रीमदानन्दगिरि:, श्री अमलानन्द:, श्रीमदप्पय्यदीक्षित: इत्यादय: । इतोऽपि अनेके स्यु: किन्तु, एते व्याख्यानकारास्तु प्रसिद्धा: प्रधानभूता: शास्त्रप्रपञ्चे । इति ब्रह्मसूत्रग्रन्थस्य आपातत: परिचय: ।
 
==प्राक्कथनम्==
 
बादरायणविरते ब्रह्मसूत्रग्रन्थे तावत् चत्वार: अध्याया: सन्ति । प्रत्येकम् अध्यायस्य एकैकं नाम दत्तं तै: । तानि च समन्वय-अविरोध-साधन-फलानि इति । पुना प्रत्येकम् अध्याये अपि चत्वार: पादा: भवन्ति । संहत्य च १६ पादा: विद्यन्ते । तथैव च ५५५ सूत्राणि, १९१ अधिकरणानि, समग्रे ब्रह्मसूत्रे विराजन्ते । अध्यायान्तर्गतत्वे पाद:, पादान्तर्गतत्वे च अधिकरणम्, अधिकरणान्तर्गतत्वे च सूत्राणीति व्यवस्था । ब्रह्मसूत्रस्थ: सर्वोऽपि विचार: अधिकरणस्वरूपेण बद्धो भवति । एवं पूर्वमीमांसायामपि अधिकरणक्रम: आदृत: सूत्राणाम् अर्थकथनार्थम् । तच्च अधिकरणं पञ्चावयवात्मकं भवति । ते च एकया कारिकया प्रदर्शिता: -
 
:'''विशयो विषयौव पूर्वपक्ष: तथोत्तरम् |'''
:'''सङ्गतिश्चेति पञ्चाङ्गं शास्त्रेऽधिकरणं स्मृतम् ॥'''
 
क्वचित् प्रयोजनमपि अवयत्वेन परिगण्यते । किन्तु, स: पक्ष: गौण: । इदानीम् एकैकोऽपि अवयव: सङ्क्षेपेण विव्रियते । तत्रैते अधिकरणानि -
 
===विशय:===
 
विशय: नाम संशय: इत्यर्थ: । विशयस्तु विषयसम्बद्ध: भवति । विषयवाक्यं तु उपनिषद्भ्य: उद्ध्रियते । विषयवाक्यगतपदेषु संशय: उद्भवति । उदाहरणार्थं वक्ष्यमाणे अव्यक्तम् इति पदं कठोपनिषत्त: उद्धृतम् । तत्र संशय: नाम किं सा”ोक्तं त्रिगुणात्मकं जडं प्रधानं ग्राह्यम् ? उत परमात्मा ग्राह्य:? इति । पुना संशय: कदाचित् पञ्चकोटिक:, चतुष्कोटिक: अपि भवति प्रकरणबलात् ।
 
===विषय:===
 
अवयवोऽयम् अधिकरणेषु सर्वत्र अत्यन्तप्रधानं स्थानमावहति । एतत् केन्द्रीकृत्यैव सर्वे अवयवा: विशयादय: परिभ्रमन्ति । कस्याश्चन उपनिषद: संशयघटितवाक्यम् अथवा पदं विषयत्वेन परिगण्यते अधिकरणेषु ।
 
===पूर्वपक्ष:===
 
पूर्वपक्षस्य अपरं नाम आक्षेप: इति । सामान्येन साङ्ख्यादिदर्शनसम्बद्धा: भवन्ति आक्षेपा: । कदाचित् पूर्वपक्षत्वेन सम्भाव्य उत्थाप्य च ते निराक्रियन्ते । पुर्वपक्ष: सयुक्ति सप्रामणमेव निरूप्यते अधिकरणेषु ।
 
===सिद्धान्त:===
 
आक्षेपस्य समाधानमेव उत्तरपक्ष: अथवा सिद्धान्तपदेन व्यवह्रियते । सिद्धान्त: नाम सिद्ध: निर्णय: इत्यर्थ: । सिद्ध: अन्त: (निर्णय:) यस्मिन् विषये स: सिद्धान्त: इति कथ्यते । सिद्धान्त: पूर्वपक्षम् अनुसृत्यैव सप्रमाणं सयुक्ति उपस्थाप्यते । पुना अयम् अधिकरणस्य सारभूत: भाग: ।
 
===सङ्गति:===
 
सङ्गति: नाम सम्बन्ध: इत्यर्थ: । सङ्गतिरियं त्रिषु अध्याय-पाद-अधिकरणादिषु स्थानेषु सम्भवति । सम्बन्धस्य द्विनिष्ठत्वात् अध्यायादिक्रमेण उत्तरोत्तरस्य पूर्वपूर्वांशेन सङ्गति: अनिवार्या भवति ब्रह्मसूत्रग्रन्थे ।
 
एवं ब्रह्मसूत्रं प्रस्थानत्रयान्तर्गतं सत् प्रधानस्थानं भेजे शास्त्रप्रपञ्चे ।ब्रह्मसूत्राणाम् इदं मुख्यं प्रयोजनम् अस्ति यत् दशसु उपनिषत्सु संशयस्थानं चित्वा सयुक्ति पूर्वपक्षान् अवश्यकस्थलेषु स्वयमुद्भाव्य, स्वयम् उद्भूतस्य च निराकरणेच्छया सिद्धान्तदृढीकरणलाभाय कृतम् इत्यत्र नास्त्यसंशय: |
प्रत्येकं ग्रन्थेऽपि उपोद्घात: मङ्गलं च आरम्भे उच्यते ।किन्तु, ब्रह्मसूत्रग्रन्थे उपोद्घातस्य आदिमं वाक्यमेव मङ्गलबोधकं इत्ययमेव विशेष: ।उपोद्घात: तु उपोद्घात:, अध्यासभाष्यम्, सम्भावनाभाष्यम्, प्रमाणभाष्यमिति चतुर्धा विभक्त: ।तत्र तावत् अनिर्वचनीयख्यादीनाम् अध्यासस्य निरूपणं कृत्वा, निष्कृष्ठलक्षणं च प्रदर्शितम् ।एतत्सहकृतत्वेन केचन विचारा: अध्याससम्बद्धा: सम्भावनाप्रमाणभाष्ययो: निरूपित: ।
 
 
[[वर्गः:संस्कृतसाहित्यम्‌|ब्रह्मसूत्राणि]]
[[वर्गः:प्रस्थानत्रयम्]]
[[वर्गः: हिन्दूधर्मः]]
"https://sa.wikipedia.org/wiki/ब्रह्मसूत्राणि" इत्यस्माद् प्रतिप्राप्तम्