"तत्र सत्त्वं निर्मलत्वात्..." इत्यस्य संस्करणे भेदः

thumb|right|300px|गीतोपदेशः :'''तत्र सत्त्वं निर्... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

०६:१६, २१ अक्टोबर् २०११ इत्यस्य संस्करणं

गीतोपदेशः
तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम् ।
सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ ॥ ५ ॥

पदच्छेदः

तत्र सत्त्वं निर्मलत्वात् प्रकाशकम् अनामयम् सुखसङ्गेन बध्नाति ज्ञानसङ्गेन च अनघ ॥ ५ ॥

अन्वयः

अनघ ! तत्र निर्मलत्वात् प्रकाशकम् अनामयं सत्त्वं सुखसेन ज्ञानसेन च बध्नाति ।

पदार्थः

अनघ = पापरहित
निर्मलत्वात् = स्वच्छत्वात्
प्रकाशकम् = भासकम्
अनामयम् = निरुपद्रवम्
सुखसेन = सुखयोगेन
ज्ञानसेन = ज्ञानयोगेन ।

तात्पर्यम्

हे पापरहित (अर्जुन) ! तेषु त्रिषु गुणेषु स्वच्छत्वात् भासकं निरुपद्रवं सत्त्वं सुखं जनयति ज्ञानं च ।

सम्बद्धसम्पर्कतन्तुः