"सत्त्वं सुखे सञ्जयति..." इत्यस्य संस्करणे भेदः

thumb|right|300px|गीतोपदेशः :'''सत्त्वं सुखे सञ्ज... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

०६:२८, २१ अक्टोबर् २०११ इत्यस्य संस्करणं

गीतोपदेशः
सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत ।
ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत ॥ ९ ॥

पदच्छेदः

सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत ज्ञानम् आवृत्य तु तमः प्रमादे सञ्जयत् उत ॥ ९ ॥

अन्वयः

भारत ! सत्त्वं सुखे सञ्जयति । रजः कर्मणि । तमः तु ज्ञानम् आवृत्य प्रमादे सञ्जयति उत ।

पदार्थः

सञ्जयति = संयोजयति
कर्मणि = व्यापारे
ज्ञानम् = बोधम्
आवृत्य = आच्छाद्य
प्रमादे उत = अनवधाने अपि
सञ्जयति = संयोजयति ।

तात्पर्यम्

भारत ! एतेषु त्रिषु गुणेषु सत्त्वं दुःखकारणे सत्यपि आत्मनः सुखं जनयति । रजः सुखकारणे सत्यपि दुःखं जनयति । तमः तु ज्ञानम् आच्छाद्य अनवधानालस्यनिद्रादिकं जनयति ।

सम्बद्धसम्पर्कतन्तुः