"लोभः प्रवृत्तिरारम्भः..." इत्यस्य संस्करणे भेदः

thumb|right|300px|गीतोपदेशः :'''लोभः प्रवृत्तिरार... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

०६:५९, २१ अक्टोबर् २०११ इत्यस्य संस्करणं

गीतोपदेशः
लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा ।
रजस्येतानि जायन्ते विवृद्धे भरतर्षभ ॥ १२ ॥

पदच्छेदः

लोभः प्रवृत्तिः आरम्भः कर्मणाम् अशमः स्पृहा रजसि एतानि जायन्ते विवृद्धे भरतर्षभ ॥ १२ ॥

अन्वयः

भरतर्षभ ! लोभः प्रवृत्तिः कर्मणाम् आरम्भः अशमः स्पृहा एतानि रजसि विवृद्धे जायन्ते ।

पदार्थः

लोभः = परद्रव्यप्राप्तीच्छा
प्रवृत्तिः = प्रवर्तनम्
कर्मणाम् = कार्याणाम्
आरम्भः = प्रारम्भः
अशमः = अशान्तिः
स्पृहा = तृष्णा
रजसि = रजोगुणे
विवृद्धे = बृंहिते ।

तात्पर्यम्

अर्जुन ! पुरुषस्य यदा लोलुपत्वम्, निरन्तरप्रयत्नः, काम्येषुं निषिद्धेषु च कर्मसु प्रवृत्तिः, अविश्रान्तिः, दृष्टमात्रेषु अपि वस्तुषु परमा आसक्तिः च भवति तदा तस्मिन् रजोगुणः वृद्धिं गतः इति ज्ञातव्यम् ।

सम्बद्धसम्पर्कतन्तुः