"यदा सत्त्वे प्रवृद्धे तु..." इत्यस्य संस्करणे भेदः

thumb|right|300px|गीतोपदेशः :'''यदा सत्त्वे प्रवृ... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

०७:१०, २१ अक्टोबर् २०११ इत्यस्य संस्करणं

गीतोपदेशः
यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् ।
तदोत्तमविदां लोकानमलान्प्रतिपद्यते ॥ १४ ॥

पदच्छेदः

यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् तदा उत्तमविदां लोकान् अमलान् प्रतिपद्यते ॥ १४ ॥

अन्वयः

सत्त्वे प्रवृद्धे तु यदा देहभृत् प्रलयं याति तदा उत्तमविदाम् अमलान् लोकान् प्रतिपद्यते ।

पदार्थः

देहभृत् = शरीरधारी
सत्त्वे = सत्त्वगुणे
प्रवृद्धे = विवृद्धे
प्रलयम् = मरणम्
याति = प्राप्नोति
उत्तमविदाम् = तत्त्वज्ञानिनाम्
अमलान् = शुद्धान्
लोकान् = प्रदेशान्
प्रतिपद्यते = अधिगच्छति ।

तात्पर्यम्

सत्त्वगुणे प्रवृद्धे म्रियमाणः पुरुषः निर्मलान् तत्त्वज्ञानिनां लोकान् प्राप्नोति ।

सम्बद्धसम्पर्कतन्तुः