"रजसि प्रलयं गत्वा..." इत्यस्य संस्करणे भेदः

thumb|right|300px|गीतोपदेशः :'''रजसि प्रलयं गत्वा ... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

०७:३१, २१ अक्टोबर् २०११ इत्यस्य संस्करणं

गीतोपदेशः
रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते ।
तथा प्रलीनस्तमसि मूढयोनिषु जायते ॥ १५ ॥

पदच्छेदः

रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते तथा प्रलीनः तमसि मूढयोनिषु जायते ॥ १५ ॥

अन्वयः

रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते तथा तमसि प्रलीनः मूढयोनिषु जायते ।

पदार्थः

रजसि = रजोगुणे
प्रलयम् = मृत्युम्
कर्मसङ्गिषु = कर्मासक्तेषु
जायते = उद्भवति
तमसि = तमोगुणे
प्रलीनः = मृतः
मूढयोनिषु = निकृष्टयोनिषु ।

तात्पर्यम्

रजोगुणे प्रवृद्धे म्रियमाणः पुरुषः कर्मासक्तेषु मनुष्येषु जायते । तमोगुणे प्रवृद्धे म्रियमाणः तु विवेकरहितेषु पशुप्रभृतिषु जन्म प्राप्नोति ।

सम्बद्धसम्पर्कतन्तुः

"https://sa.wikipedia.org/w/index.php?title=रजसि_प्रलयं_गत्वा...&oldid=139583" इत्यस्माद् प्रतिप्राप्तम्