"अक्कमहादेवी" इत्यस्य संस्करणे भेदः

(लघु) r2.7.1) (Robot: Modifying en:Akka Mahadevi
No edit summary
पङ्क्तिः १:
==जन्म बाल्यं च==
[[कर्णाटक]]स्य वीरशैवजङ्गमभक्ताः शरणाः इति कथ्यन्ते । तादृशेषु शिवशरणेषु सती महादेवी एव अक्कमहदेवी इति प्रसिद्धा । द्वादशे शतके निर्मलशेट्टीसुमत्योः पुत्री , कर्णाटकराज्यस्य [[बनवासी]]प्रदेशस्य बळ्ळीगावे समीपस्थे “उडुतडी”ग्रामे'''उडुतडी'''ग्रामे जन्म प्राप्तवती । महादेव्याः मातापितरौ जैनमतावलम्बिनौ अनन्तरं शिवशरणौ जातौ आस्ताम् । एतयोः अपत्यानि न आसन् , मरुळसिद्धेश्वरशरणस्य अनुग्रहेण एका शिशुः जाता । तस्याः नाम एव ”’महादेवी”’।'''महादेवी'''। मरुळसिद्धेश्वरशरणस्य कृपकटाक्षतः एतस्याः कुटुम्बीयाः श्रीशैलचेन्नमल्लिकार्जुनस्य भक्ताः अभवन् । महदेव्याः विषये अधिकाः विषयाः न प्राप्ताः चेदपि मरुळसिद्धेश्वरशरणस्य प्रभावतः लिङगपूजायाम् आसक्तिः उत्पन्ना इति ज्ञायते । किन्तु गुरुलिङगदेवः इति कश्चित् शरणः काले काले गुरुस्थाने स्थित्वा मार्गदर्शनं कृतवान् ।
==वैराग्यम् ==
गुरुलिङगदेवस्य कारणेन महादेवी विरागिणी जाता । आचारमती, शीलवती,शीलवती ,विचारवती महादेवी कथं संस्कारेण विना विरागिण्याः प्रतिमा विरागिणी, शिवस्य भक्ता च जाता इत्येव आश्चर्यकरम् । एषः दैवयोगः इति वक्तुं शक्यः ।
[[बसवेश्वरः|बसवेश्वरेण]] कृताः धार्मिककार्यक्रमाः महादेव्याः तारुण्ये बहु प्रभावम् अजनयन् । अतः बसवण्णेन सह तस्याः भ्रातृत्वं ,गौरवः प्रीतिश्च आसीत् । शिवशरणानां मर्गदर्शनेन वचनसाहित्यं सृष्ट्वा आन्तरङ्गिकाः भावनाः प्रकटीकरोति स्म । समाजस्य प्रगतिविषये , धर्मप्रचारः, गुरुलिङगजङगमतत्त्वं ,वेदानां विरुद्धं धर्मस्य प्रचारः , धार्मिकक्रान्तिकारिणां पुरुषाणां सहवासः एतादृशविषयान् विहाय मातापितॄणां विषये तस्याः अवधानं न असीत् । तस्याः इष्टदेवः श्रीशैलमल्लिकार्जुनस्य दर्शनं करणीयम् एव इति तस्याः लक्ष्यम् । प्रापञ्चिकविषयेषु तस्याः आसक्तिः न आसीत् । अतः शरणसती बिरुदः तस्याः कृते युज्यते स्म । परमसौन्दर्यवती महादेवी स्वस्य सौन्दर्यस्य विषये अवधानं न ददाति स्म । प्रापञ्चिकव्यसनानि त्यक्त्वा सर्वदा चेन्नमल्लिकार्जुनेन सह प्रेम -भावेन भवति स्म । सा विशिष्टस्वभावस्य महाव्यक्तिः ।
रतिस्वरूपिणी महादेवी स्वव्यक्तित्वेन बहूनां जनानां मार्गदर्शिणी , प्रतिवेशिनीनां कृते ज्येष्टा अग्रजा(कन्नडभाषया अक्क=अग्रजा) इव आसीत्।
पङ्क्तिः १३:
बहुकालं शिवानुभावमण्डपे स्थित्वा अक्कमहादेवी परिपूर्णज्ञानं प्राप्य उन्नतस्तरीया साधकी भूत्वा गुरूणाम् अनुग्रहार्थं निरीक्षां कृतवती । प्रभूणाम् अनुग्रहेण श्रीशैलस्य कदलीक्षेत्रं प्रति गतवती । गिरेः उपरितनकदली क्षेत्रे तस्याः जीवने दिव्यज्योतिरूपेन परिणामः अभवत् । सा ज्योतिः प्रज्वलिता अभवत्। अक्कमहादेव्याः तत्र कर्पूरम् इव ज्वलनं भूत्वा दिव्यज्योत्या सह संयुज्य शिवसायुज्यं प्राप्तवती । तस्याः दिव्यस्वरूपम् अनन्ते आकाशे सम्मिल्य स्त्रीकुलस्य मार्गदर्शनम् अकरोत् ।
अक्कमहादेव्याः भक्तिभावः “शरणसती लिङगपतिः” इव जातः । सा स्वरचितेषु वचनेषु लोकानुभावं दृष्टान्तैः सह अत्यन्तं सरलरीत्या विवृतवती अस्ति ।
 
[[वर्गः:कर्णाटकस्य दार्शनिकस्त्रियः]]
[[वर्गः:कर्णाटकस्य कवयत्र्यः]]
[[वर्गः:भक्तिमार्गानुयायिनः]]
[[वर्गः:शैवमतप्रचारकाः]]
 
 
[[en:Akka Mahadevi]]
"https://sa.wikipedia.org/wiki/अक्कमहादेवी" इत्यस्माद् प्रतिप्राप्तम्