"विश्वेश्वरः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १७:
काश्याः उपरि मतान्धैः म्लेच्छैः नैकवारम् आक्रमणं कृतम् । क्रि.श. १०३३तमे वर्षे [[घज्निमहम्मदः]] काश्यां विद्यमानानि सर्वाणि मन्दिराणि अनाशयत् । ११९४तमे वर्षे [[घोरिमहम्मदः]] [[कुतुबुद्दीन् ऐबकः|कुतुबुद्दीन् ऐबकेन]] सह काश्याः उपरि आक्रमणम् अकरोत् । एतौ मन्दिराणि नाशयित्वा तेषां स्थाने मस्जिद् (यवनानां प्रर्थनामन्दिरम्) निर्मितवन्तौ । तदवसरे स्वर्ण-रजतयोः पर्वतः एव सङ्गृहीतः इव । तौ अत्रत्यां समग्रां सम्पत्तिं १४०० उष्ट्राणाम् उपरि आरोप्य अनयताम् । १४५८तमे वर्षे [[महम्मद शा]] आक्रमणं कृत्वा “पद्मेश्वरमन्दिरं” नाशयित्वा तस्य अवशेषैः एव मस्जिद् निर्मितवान् । तदिदानीं “लालदरवाजामस्जिद्” इति वदन्ति । १४९४ तमे आगतः [[सिकन्दरलोदिः]] समग्रं काशीनगरम् अग्निसात् कृतवान् । विश्वेश्वरमन्दिरम् अपि अनाशयत् सः । न केवलं तावद् अपि तु मूलस्थाने वा अन्यत्र वा विश्वनाथमन्दिरं पुनः न निर्मातव्यम् इति निषेधम् अपि अकरोत् । रामभक्तं कबीरं शिलया सह बद्ध्वा जले निमज्जनम् अकारयत् । तथापि कबीरः ततः सजीवः बहिरागतः । ७० वर्षाणाम् अनन्तरं वेदब्रह्मनारायणभट्टस्य, काश्याः जनानां च महता प्रयत्नेन १५६९तमे वर्षे निषेधाज्ञा अपगता, पुनरपि भव्यं मन्दिरं निर्मितम् । तदनन्तरं १६६९ तमे वर्षे हिन्दुद्वेषी [[औरङ्गजेबः]] विश्वनाथमन्दिरेण सह वेणीमाधवमन्दिरं, बिन्दुमाधवमन्दिरं, राममन्दिरं, आशोकस्मारकम् इत्यादीनि बहूनि मन्दिराणि अनाशयत् । तदा काश्याः प्रतिविस्तरणम् एका संस्कृतपाठशाला आसीत् । सः एकया एव आज्ञया तासां सर्वासां पिधानम् अकारयत् । सः अस्य नगरस्य नाम एव “महम्मदाबाद्” इति परिवर्तितवान् । अत्र आगन्तृणां हिन्दुयात्रिकाणां कृते “जेसिया” नामकं करं विहितवान् ।
 
 
[[वर्गः:द्वादश ज्योतिर्लिङ्गानि]]
[[वर्गः:भारतस्य तीर्थक्षेत्राणि|विश्वेश्वरः]]
[[वर्गः:हिन्दुधर्मः|विश्वेश्वरः]]
"https://sa.wikipedia.org/wiki/विश्वेश्वरः" इत्यस्माद् प्रतिप्राप्तम्