"केङ्गल् हनुमन्तय्य" इत्यस्य संस्करणे भेदः

(लघु) केङ्गल् हनूमन्तय्यः इति लेखस्य नाम परिवर्तितं कृत्वा केङ्गल् हनुमन्तय्यः इति कृतम् (अनुप्...
No edit summary
पङ्क्तिः २३:
क्रि.श.१९७०तमे वर्षे केन्द्रसर्वकारे समाजकल्याणविभागस्य सचिवः अभवत् । देशविदेशेषु सम्मेलनेषु भागम् ऊढ्वा स्वानुभवं संवर्धितवान् । क्रि.श.१९७१तमे वर्षे सम्भूते मध्यकालीने निर्वाचने बेङ्गळूरुनगरे विजितः पुनः केन्द्रे [[रेल्वेमन्त्री]] अभवत् । रेल्वेविभागे आमूलाग्रं परिवर्तनम् अनीतवान् । अस्य कार्यशैलीं राष्ट्रनायकः [[जयप्रकाशनारायणः]] प्राशंसत् । क्रि.श १९७२तमे वर्षे विनाकारणं त्यागपत्रं दातव्यम् अभवत् । अनन्तरं देशे अनिरीक्षितानि परिवर्तनानि अभवन् । काङ्ग्रेस् पक्षः पुनः विदलितः । आपत्परिस्थितिः (तुर्तुपरिस्थितिः) उद्घुष्टा । देशे विषमा परिस्थितिः सञ्जाता। तथापि केङ्गल् महोदयः मौनी अभवत् इति जनाः एतं निन्दन्ति स्म । क्रि.श. १९७७तमे वर्षे पुनः निर्वाचने काङ्ग्रेस् पक्षस्य अभ्यर्थी भूत्वा बेङ्गलूरुनगरे पराजितः अभवत् । पक्षस्य आन्तरिकनियमैः असम्मतः पक्षात् बहिरागतवान् । जनतापक्षं प्रोत्साहयितुं यतमानस्य तस्य आशाभङ्गः अभवत् । क्रि.श.१९७७तमे वर्षे सेप्टम्बर् मासे अष्टतत्त्वयुकत्तं सुराज्यं इति नूतनं पक्षं रचितवान् । किन्तु कानिचन दिनानि प्रवर्त्य सः पक्षः काङ्ग्रेस् पक्षे विलीनः अभवत् ।
प्रभुत्वेन विहीनः अपि तेन अलसेन न स्थितम् । मण्ड्यमण्डले केङ्गल् महोदयः स्वात्रन्त्रवीराणां स्मारकत्वेन सत्याग्रहसौधं निर्मितवान् । स्वग्रामे केङ्गल् मध्ये हनूमतः मन्दिरं निर्मितवान् । बेङ्गळूरुनगरे हनूमन्नगरे श्रीरामहनूमतोः समालिङ्गनप्रतिमासहितं देवालयं निर्माय तस्य गिरिस्थानस्य आनन्दमिलनाद्रिः इति नाम दत्तवान् । केङ्गल् इति ग्रामतः देहलीति महानगरपर्यन्तं संवृद्धः अभवत् एषः केङ्गल् हनुमन्तय्य महोदयः । दारिद्र्याग्नौ जातः देशस्य महानायकः भूत्वा दुस्साध्यं साधितवान् ।
[[वर्गः:कर्णाटकस्य मुख्यमन्त्रिणः]]
[[वर्गः:कर्णाटकम्]]
[[वर्गः: भारतस्य राज्यानि]]
[[वर्गः:भारतम्]]
"https://sa.wikipedia.org/wiki/केङ्गल्_हनुमन्तय्य" इत्यस्माद् प्रतिप्राप्तम्