"स्वातन्त्र्यदिनोत्सवः (भारतम्)" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८:
भारतीयाः सैनिकाः १८५७ तमे वर्षे आङ्ग्लान् विरुध्य सेनायाम् आन्दोलनं कृतवन्तः । तस्य सैनिकक्रान्तिः इति कथयन्ति । तस्मिन समये झान्सीराज्ञी लक्ष्मीबायी श्रीनानासाहेबः इत्यादयः आङ्गलान् विरुध्य युद्धमपि कृतवन्तः । एवम् स्वातन्त्र्याज्योतिः सततम् उद्दीपिता आसीत् ।
प्रथमं आङ्गलाः भारतं व्यापारार्थम् आगतवन्तः । भारते लभ्यमानं कार्पासम् एलालवङ्गादि-उपस्करवस्तूनि क्रीत्वा इङ्गलैण्डदेशं नयन्ति स्म । ततः उक्तमवस्त्रं निर्माय अत्र पुनः विक्रयणं कुर्वन्ति स्म । एवम् आङ्गलानाम् अतीवलाभः भवति स्म ।
भारते ५ शताधिकानि संस्थानानि आसन् । ते सस्थानिकाः वैरं साधयन्तिस्म । एतं आन्तरिकं वैरं उपयुज्य आङ्गलाः अत्र प्रशासनम् कर्तुं आरम्भं कृतवन्तः । १८५६ वर्षसमये समग्रे भारते आङ्गलानां प्रबलता आसीत् ।[[File:JRHU - Main Building.jpg|left|thumb|'''सर्वकारीयकार्यालये ध्वजवन्दनम्''']]
[[महाराष्ट्रम्|महाराष्ट्रे]] श्री[[गोपालकृष्णगोखले]] [[बालगङ्गाधरतिलकः]] इत्यादयः जनेषु जागृतिः कृतवन्तः । तिलक महोदयेन केसरी, माराठा, इति पत्रिके अपि प्रकाशिते । सः ‘स्वातन्त्र्यम मम जन्मसिद्धः अधिकारः’ इति घोषितवान् । महाराष्ट्रे गणेशोत्सवं राष्ट्रियपर्वरुपेण वैभवेन आचर्य तत्रैव देशभिमानम् जागरितवान् ।
बङ्गालप्रान्ते आङ्गलानां विरुद्धं अनेकान्दोलनानि आयोजितानि । यतः तत्रैव आङ्गलानां व्यवहाराः इदं प्रथमतया आरब्धाः आसन् ।
"https://sa.wikipedia.org/wiki/स्वातन्त्र्यदिनोत्सवः_(भारतम्)" इत्यस्माद् प्रतिप्राप्तम्