"स्वातन्त्र्योत्सवः" इत्यस्य संस्करणे भेदः

स्वातन्त्र्यदिनम् को अनुप्रेषित
 
(लघु) Robot: Fixing double redirect to स्वातन्त्र्यदिनोत्सवः; अंगराग परिवर्तन
पङ्क्तिः १:
#पुनर्निदेशन [[स्वातन्त्र्यदिनोत्सवः]]
 
#REDIRECT [[स्वातन्त्र्यदिनम्]]
१९४७तमवर्षस्य आगष्टमासस्य १५ तमे दिने भारतदेशः स्वतन्त्रः अभवत् । तत्पूर्वम् आङ्गलाः अत्र प्रशासनं कुर्वन्ति स्म । आगस्टमासस्य चतुर्दशदिनानन्तरं रात्रौ द्वादशवादने आङ्ग्लाः प्रशासनाधिकारं भारतं प्रति हस्तान्तरितं कृतवन्तः । तस्य स्मरणार्थमेव ”’१५ अगस्ट”’ स्वातन्त्र्योत्सवः इति आचर्यते । अस्मिन् दिने सार्वजनिकरुपेण राष्टियपर्व आयोज्यते ।
भारतदेशे पूर्वं महम्मदीयाः विदेशात् आगत्य अत्र स्थित्वा प्रशासनं कृतवन्तः । अनन्तरम् आङ्गलाः(ब्रिटिषाः), फ्रान्सदेशीया(फ्रेञ्चाः) नेदरर्लेण्डदेशीयाः(डच्चाः) पुर्तुगालदेशीयाः(पोर्चगीसाः) च आगतवन्तः । सर्वे अत्र शासनं कृतवन्तः । तेषु प्रबलाः आङ्ग्लाः बहुकालपर्यन्तं प्रशासनाधिकारं प्राप्तवन्तः ।
भारतीयाः स्वातन्त्र्यप्रियाः । [[कर्णाटक]]राज्ये इदं प्रथमतया राज्ञी [[कित्तूरु चेन्नम्मा]] आङ्लानां विरुद्धम् अप्रतिमं युद्धं कृतवती । [[झान्सीराज्ञी लक्ष्मीबायी]] अश्वमारुह्य युद्धं कृत्वा जनानपि प्रचोदितवती । देशे स्वाभिमानिनः राष्ट्रभक्ताः आङ्गलानां विरुद्धम् अनेकरीत्या क्रान्तिकारिमार्गेणापि कार्यं कृतवन्तः ।
[[भगतसिंहः]] [[मदनलालाधिङ्ग्रा]], [[चन्द्रशेखरआजादः]] [[मैलारमहादेवः]] [[सङ्गोळ्ळीरायण्णः]] [[नानासाहेबः]] इत्यादयः आङ्ग्लान् विरुध्य कार्यं कृतवन्तः । केचन स्वप्राणार्पणमपि कृतवन्तः । तेषां अन्तिमसमयेऽपि मनसि वचने च “भारत माता कि जय” ‘वन्दे मातरम्’ ध्वनिः प्रतिध्वनति स्म ।
भारतदेशं स्वतन्त्रं कर्तुम् आन्दोलनं प्रवृत्तम् आसीत् । [[राजगुरुः]] [[सुखदेवः]] [[भगतसिंहः]] इत्येतेषां मरणदण्डनं १९३१ तमे वर्षे अभवत् । यदा १८८५ तमे वर्षे काङ्ग्रेस् संस्था स्थापिता तदा सामूहिकरुपेण आन्दोलनं कर्तुं व्यवस्था अभवत् ।
भारतीयाः सैनिकाः १८५७ तमे वर्षे आङ्ग्लान् विरुध्य सेनायाम् आन्दोलनं कृतवन्तः । तस्य सैनिकक्रान्तिः इति कथयन्ति । तस्मिन समये झान्सीराज्ञी लक्ष्मीबायी श्रीनानासाहेबः इत्यादयः आङ्गलान् विरुध्य युद्धमपि कृतवन्तः । एवम् स्वातन्त्र्याज्योतिः सततम् उद्दीपिता आसीत् ।
प्रथमं आङ्गलाः भारतं व्यापारार्थम् आगतवन्तः । भारते लभ्यमानं कार्पासम् एलालवङ्गादि-उपस्करवस्तूनि क्रीत्वा इङ्गलैण्डदेशं नयन्ति स्म । ततः उक्तमवस्त्रं निर्माय अत्र पुनः विक्रयणं कुर्वन्ति स्म । एवम् आङ्गलानाम् अतीवलाभः भवति स्म ।
भारते ५ शताधिकानि संस्थानानि आसन् । ते सस्थानिकाः वैरं साधयन्तिस्म । एतं आन्तरिकं वैरं उपयुज्य आङ्गलाः अत्र प्रशासनम् कर्तुं आरम्भं कृतवन्तः । १८५६ वर्षसमये समग्रे भारते आङ्गलानां प्रबलता आसीत् ।
महाराष्ट्रे श्रीगोपालकृष्ण गोखले बालगङ्गाधर तिलकः इत्यादयः जनेषु जागृतिः कृतवन्तः । तिलक महोदयेन केसरी, माराठा, इति पत्रिके अपि प्रकटिते । एषः ‘स्वातन्त्र्यम मम जन्मसिद्धः अधिकारः’ इति धोषितवान् । महाराष्ट्रे गणेशोत्सवं राष्ट्रियपर्वरुपेण वैभवेन आचरणं कृत्वा तत्रैव देशभिमानम् जागरितवान् ।
बङ्गालप्रान्ते आङ्गलानां विरुद्धं अनेकान्दोलनानि आयोजितानि । यतः तत्रैव आङ्गलानां व्यवहाराः इदं प्रथमतया आरब्धाः आसन् ।
मोहनदास करमचन्द्रगान्धिः [[दक्षिणआफ्रिका]]देशे वर्णद्वेषं दासतां च विरुध्य अहिंसात्मकं सत्याग्रहं कृत्वा १९१५ तमे वर्षे भारतम् आगतवान् । काङ्ग्रेससंस्थायां प्रविष्टः गान्धिः स्वातन्त्र्यान्दोलने नवीनतां आनीतवान् । ततः यदा आङ्गलाः विधिनियमान् कृत्वा शोषणं कृतवन्तः तदा आन्दोलनेन विरोधः प्रकटितः अभवत् ।
आङ्गलाः लवणोत्यादने निषेधं कृतवन्तः तदा दाण्डी स्थले लवणसत्याग्रहः सञ्चालितः । १९२० तमे वर्षे पञ्जाब प्रदेशे जलियनवालाबाग प्रदेशे सहस्रशः जनाः आङ्गलैः मारिताः भवन् अस्य जालियन् वालाबाग् इत्याकाण्डः इति नाम प्रसिद्धं अभवत् । एतस्य कार्यस्य विरोधेन देशे सर्वत्र आन्दोलनानि चालितानि अभवन् ।
यदा आङ्गलाः भूमिकरवर्धनं कृतवन्तः तदा [[गुजरात्]][[कर्णाटक]]-इत्यादिप्रदेशेषु [[करनिराकरणान्दोलनम्]] अभवत्। गुजरातप्रदेशे [[सरदारवल्लभभायीपटेलः]] कृषिकाणां नेता आसीत् । कर्णाटके [[सदाशिवरावकार्नाडः]] आन्दोलनम् कृतवान् ।
"https://sa.wikipedia.org/wiki/स्वातन्त्र्योत्सवः" इत्यस्माद् प्रतिप्राप्तम्