"मीमांसादर्शनम्" इत्यस्य संस्करणे भेदः

(लघु) gen fixes using AWB
No edit summary
पङ्क्तिः १:
मीमांसाशास्त्रम् :-
एकं दर्शनं अस्ति।
यद्यपि कतिपये विचारका मीमांसादर्शनं दर्शनरुपेण स्वीकर्तुं विवदन्ति तथापि वेदानां कर्मपरकां व्याख्यां धर्मस्वरुपविचारं च दृष्ट्वाऽमुष्य दर्शनस्वरुपे आपत्तिर्नास्ति । इतरदर्शनेष्विव मीमांसादर्शनेऽपि आत्मतत्त्वस्य विचारो विहितः । अतो यथा उत्तरमीमांसायां अर्थात् वेदान्ते आत्मेशरयोः प्रतिपादनात् दार्शनिकता स्थिरीक्रियते तथा पूर्वमीमांसायामपि तादृशविवेचनात् दार्शनिकताऽवश्यमेव स्वीकार्या ।
{{हिन्दू धर्म}}
 
''मन्'' धातोर्निष्पन्नो “मीमांसा” शब्दः पूज्यविचार-यथार्थवस्तुरुप अनुसन्धानादिश्वर्थेषु गृह्यते । वेदस्य कर्मसिद्धानतानुगत व्याख्या मीमांसादर्शनस्य प्रधानलक्ष्यमस्ति । दर्शनशास्त्रे देवस्य रुपद्वयं प्रसिद्धमस्ति –कर्मकाण्डः ज्ञानकाण्डश्चेति । ज्ञानकाण्डश्चेति । ज्ञानकाण्डः उत्तरमीमांसाया विषयोऽस्ति, यत्र वेदस्य ज्ञानपरकम् विश्लेषणं कृतम् किन्तु कर्मकाण्डः पूर्वमीमांसायाः विषयो वर्तते, अतः पूर्वमीमांसा एव कर्ममीमांसा इत्यपि कथ्यते ।
मीमांसादर्शनमेव पूर्वमीमांसा इति कथ्यते । कर्मकाण्डपरं भवति इदं दर्शनम् । ‘मानेर्जिज्ञासायाम’ इत्यनेन वार्तिकेन मीमांसा शब्दः निष्पाद्यते । अस्य प्राचीनं नाम् न्यायः इत्येव । जैमिनिः अत्र प्रामाणिकः आचार्यः, जैमिनीयसूत्रं प्रामाणिकग्रन्थश्च् । अस्य ग्रन्थस्य शबरस्वामिकृतं भाष्यं प्रसिद्धम् प्रभाकरगुरुः कुमारिलभट्टः च स्वस्वपन्थानं कृतवन्तौ । अतः गुरुमतं भाट्टमतं चेति मीमांसायां द्वैविध्यं दृश्यते । अनश्वरः आत्मा कर्मफलानि भुनक्ति, अदृष्टं नाम कुञ्चित् अस्ति, जगत् सत्यम् अस्ति न च जीवनं कर्म च स्वप्नमात्रं, यज्ञ एव सर्वोत्तमं कर्म इत्यादयः एतेषां मतम् । भाट्टमते प्रत्यक्षम् अनुमानम् उपमानं शब्दः अर्थापत्तिः अनुपलब्धिः चेति षटप्रमाणानि सन्ति । प्रभाकरमते अनुपलब्धेः स्थानं नास्ति ॥
 
मीमांसदर्शने वेदविहितं कर्म एव धर्मरुपेण प्रतिपादितम् । तदेव इहलौकिकानां पारलौकिकानां च सुखानां साधनमस्ति । यदा कर्म एव सुखदुःखयोः मूलकारणं भवति तदा तस्य सूक्ष्मविश्लेषणकारकं शास्त्रं कर्ममीमांसैव उपयुक्तं प्रतियते । मीमांसादर्शनम् अतिप्राचीनम् अस्ति । ब्राह्मणग्रन्थैः उपनिषदग्रन्थैश्च सूचितं भवति यत् प्राक्तनैः ऋषिभिः अनेकेषु अस्पष्टविषयेषु युक्तियुक्ताः विचाराः प्रस्तुताः । ते कर्ममीमांसाया आधारतत्वरुपाः सन्ति ।
[[वर्गः:हिन्दू धर्म|मीमांसा]]
 
मीमांसादर्शनस्य सर्वाधिकं महत्त्वपूर्णं तत्त्वं धर्मविचारोऽस्ति । धर्मस्य आधारशिला कर्मकाण्डम् आधारीकृत्य तिष्ठति । उत्तरमीमांसाम् अतिरिच्य चार्वाकजैनबौद्धैः वैदिककर्मकाण्डस्य पर्याप्तां निन्दा कृता । आत्मनो नित्यता इतरवैदिकदर्शने यथा स्वीक्रियते तथैवात्रापि अभीष्टा वर्तते । मीमांसादर्शनस्य मतानुसारं मृत्योरुपरान्तमपि आत्मा स्वकीयानां शुभाशुभकर्मणां फलानि प्राप्नोति । मीमांसायां `स्वर्ग’ नामकस्य स्वतन्त्रतत्त्वस्य परिकल्पना कृताऽस्ति । यतो हि वैदिककर्मकाण्डेषु प्रवृत्तेर्मूलाधारः स्वर्ग एवास्ति । मृत्योरनन्तरं स्वर्ग्प्राप्तिर्भवति । एतत्कृते `अपूर्व’ स्य कल्पनाऽपि मीमांसकैः कृता यतो हि कर्मणि तु जीवितावस्थायामेव क्रियन्ते, किन्तु स्वर्गदीनां प्राप्तिर्मृत्योरनन्तरं भवति । कर्मसम्पन्ने सति तदुत्पन्नम् अपूर्वम् आत्मनि अवतिष्ठति तदेव च मृत्योरनन्तरं स्वर्गादि प्रापयति ।
 
जीवनस्वर्गयोरन्तराले कर्मकाण्डजन्यम् अपूर्वमेव सेतुरुपमस्ति । अपूर्वमेव पापपुण्ययोराशयः वर्तते । वेदः कर्मविधानं करोति । वेदा ईशरकृताः सन्ति अतः वेदविहित कर्म एव धर्मः । अयमेव मीमांसायाः मान्यः सिद्धान्तोऽस्ति । मीमांसा स्वीकरोति यत् इदं जगत् पूर्णसत्यम् अस्ति । अस्य मिथ्यात्वं निराधारकल्पना वर्तते ।
मीमांसाशास्त्रम् प्रवर्तकः महर्षिः जैमिनिः । अस्मिन् शास्त्रे धर्मानुष्ठानेनैव अभिमतफलसिद्धिर्भविष्यतीति मतम् । तदनुष्ठानं तु श्रुतिस्मृतिपुराणद्यनेकधर्मग्रन्थेषु प्रसिद्धमस्ति । धर्मस्य लक्षणं किम् ? धर्मे प्रमाणं किम् । इत्यादिशङ्कानां समाधानम् पूर्वमीमांसाशास्त्रादेव सिद्धं भवति । एतद् शास्त्रं द्वादशाध्यायेषु विभक्त भवति भगवता जैमिनिना । प्रत्येकस्मिन् अध्याये तृर्भ्योऽधिकाः पादाः विलसन्ति ।
 
==मीमांसाशास्त्रपरिचयः==
द्वादशाध्यायेषु प्रथमाध्यायस्य प्रथमे पादे प्रमाणविचारः कृतः । द्वैतीये मन्त्राणामर्थवादविचारः प्रस्तुतः । तृतीये मन्वादिस्मृतीनामेव माचारभूतविषयाणां प्रामाण्यविवेचन कृतम् । चतुर्थे उद्भिद- चित्रादि नामधेयानां प्रामाण्यविचारः सम्पादितः । द्वितीयाध्यायस्य प्रथमे पादे कर्मभेदचिन्तानामुपयुक्तः उपोदघातः, द्वितीये घातुभेदाः एवं पुनरुक्त्या दिकर्मभेदानां वर्णनम् तृतीये कर्मभेदप्रामाण्याऽपवादानां प्रस्तुतीकरणम्, चतुर्थे नित्यकाम्यकर्मणां प्रयोगे भेदनिरुपणमिति द्वितीयाध्याये विचारिताः । तृतीयाध्याये अष्टौ पादाः सन्ति । प्रथमपादे अङ्ग्त्वबोधकेषु षट् प्रमाणेषु श्रुतेः विचारः कृतः । द्वियीये लिङ्गविचारः, तृतीये वाक्यप्रकरण्स्थानसमाख्यानां विचारः, चतुर्थे निवीतोपवीतत्वादिषु अर्थवादत्वविधित्वादीनां निर्णयहेतुभूतानां श्रुत्यादीनां विरोधपरिहारात्मकौ विचारः , पञ्चमे प्रतिपत्तिकर्मविचारः प्रतिपत्त्यर्थः भवति-उपयुक्तद्रव्यस्य विनियोगः इति । षष्ठे –अनारभ्याधीतविचारः, सप्तमे- बहुप्रधानोपकारकप्रयाजादिकर्मणां विचारः अष्टमे पादे यजमानेन क्रियमाणस्य कर्मणः विचारः इति एते अष्टौ विचाराः तृतीयाध्याये विचारिताः दृश्यन्ते । चतुर्थाध्यायस्य् प्रथमे पादे –प्रधानभूतस्य दध्यानयनस्य आमिक्षाप्रयोजनमित्यादि प्रधानस्य प्रयोक्तृत्वादिविचारः द्वितीये –अप्रधानभूतानि यानि, यथा –वत्सापाकरणम् अनेन शाखाच्छेदे उपयोगः इत्यादि तेषां कर्मणां प्रयोकतृत्वेन प्रदर्शनात्मकौ विचारः तृतीये –‘जुहू पर्णमयी ’ इत्यादि अपापश्लोकश्रवणादीनां कर्मणां भावाभाव विचारः चतुर्थे राजसूययागगतत्वेन अक्षद्यूतादिगौणाङ्गानां विचारः प्रस्तुतः । पञ्चमाध्यायस्य प्रथमे पादे –श्रुतेः क्रमः, श्रुत्यादिषु कर्मविचारस्यावश्यकत्वमपि संक्षेपेण प्रतिपादितम् । द्वितीते –क्रमविशेषाणां एवं अनेकेषु पशुषु एकैकधर्मसमापनमित्यादिविचाराः प्रस्तुताः । तृतीये –वृध्यवृद्द्विविचारः साधितः । चतुर्थे –श्रुत्यादि ष्टप्रमाणानां पूर्वपूर्वप्राबल्यात्मको विचारः सम्पादितः । षष्ठाध्यायस्य् कृए अष्टौ पादाः विलसन्ति । तत्र प्रथमे पादे –कर्मणः अधिकार विषयिकी चर्चा प्रस्तुता । अर्थात् अन्धत्वादि इन्द्रियरहितानां पुरुषाणां यागादिषु नाधिकारः, किन्तु चक्षष्मान् इत्यादि इन्द्रिययुक्तानां पुरुषाणां यागादिषु नाधिकारः, किन्तु चक्षुष्मान् इत्यादि इन्द्रिययुक्तानां जनानामेव कर्मष्वधिकारः इति विस्तृतः विचारः कृतः । द्वितीये –अधिकारिणः कृते धर्मविचारः तृतीये –मुख्यस्य प्रतिनिधिभूतस्यान्यस्य ग्रहणं कदा कुत्र स्वीकर्तव्यमित्यादयः विषयाः, चतुर्थे –कर्मणः अनुष्ठानविषये कस्य लोपः भवितुं शक्यते ? इति विचारः, पञ्चमे षष्ठे च कालादिवैगुण्ये सति प्रायश्चत्तविचारः, सप्तमे-अदेयविषयस्य प्रस्तावः, अष्टमे लौकिकाग्नौ कदा इन्धनस्य् सम्पादनं कर्तव्यम् इत्येते विषयाः उपन्यस्ताः । सप्तमाध्यायस्य प्रथमे –समानमित्यादि प्रत्यक्षवचनात् अतिदेशविचारः, द्वितीये –अतिदेशशेषवाक्यानां विवेचनम्, तृतीये अग्निहोत्रनाम्ना अतिदेशस्य निर्णयः , चतुर्थे –लिङ्गदीनामतिदेशविचारः इति सप्तमाध्यायः प्रस्तुतः । अष्टमाध्यायस्य प्रथमे पादे प्रत्यक्ष वचनानामभावेऽपि स्पष्टलिङ्गैः अतिदेशविचारः , तथा द्वितीये अस्पष्टलिङ्गेः अतिदेशस्य विचारः तृतीये –प्रबललिङ्गैभ्यः अतिदेशस्य विचारः एवं चतुर्थे अतिदेशवाक्यानामपवादस्य वर्णनं प्रस्तुतम् । नवमस्य प्रथमे ऊहस्य विचारः, मन्त्रस्थितानां देवतालिङ्गसंख्यादिवाचकशब्दानां मध्ये तत्तद्देवतालिङ्गदिपरिवर्तनसम्पादनात्मकः ऊहः उच्यते । द्वितीये साममन्त्रस्य ऊहविचारः, तृतीये –मन्त्रादिनामूहविचारः, चतुर्थे मन्त्राणामूहप्रसङ्गकाले आगतानामन्येषां विषयाणां विचारः प्रस्तुतः । दशमाध्यायस्य प्रथमे पादे- बाधस्य हेतुभूताः ये लोपाः तेषां विधानं विहितम् । द्वारलोपस्तु अयं भवति यत् यत्र वेदिनिष्पादनार्थं द्वारत्वेन विहितमुत्खननमित्यादि कर्मणः अभावः तत्र उत्खननात्मकं कर्म् बाधितं भवति, एवमेव यत्र् धान्यवितुषीकरणात्मकं कर्म न सम्पाद्यते तत्र् अवधातः, एवमन्यत्रापि द्रष्टव्यः । द्वितीये पादे –तस्यौव द्वारलोपस्य विचारः अनेकैः उदाहरणैः विस्तारेण कृतः । तृतीये तु बाधस्य कार्यकारणत्वं प्रदर्शितम् । यथा प्रकृतिभूतयागे ऋत्विजः परिग्रहत्वेन गवाऽश्वादीनां दक्षिणा कार्यत्वेन विहिता, विकृऐभूतयागे तु यागस्य दक्षिणारुपेण् केवलं धेनुर्विहिता । अस्मिन यागे प्रकृतिवत् प्राप्तायाः अश्वादिदक्षिणायाः कार्यरुपायाः तस्याः बाधः विहितः इत्यादि । चतुर्थे यत्र बाधः कारणत्वेन न तिष्ठति तत्र समुच्चयानुष्ठानस्य विचारः पञ्चमे –बाधस्य प्रसङ्गे ग्रहादीनां विचारः षष्ठे –बाधप्रसङ्गे सामविषयाणां विचारः सप्तमे –बाधप्रसङ्गे इतरसामान्यविषयाणां विचारः एवमष्टमे- बाधस्य उपयुक्तानां नञर्थानां विचारः इत्यष्टौ विचाराः अत्र सम्यक् प्रतिपादिताः । एकाडशाध्याये तन्त्रात्मको विचारः प्रस्तुतः । एककालानुष्ठानेन यस्य सिद्धिः तत्तन्त्रमित्युच्यते, अथवा अनेकैः उद्दश्यैः सम्पत्स्यमानस्य एकस्य कर्मणः एकवारानुष्ठानात्मक तन्त्रमित्युज्यते । अध्यायस्यास्य प्रथमे पादे –तन्त्रस्योपोदघातः द्वितीये –तन्त्रमित्युच्यते । अध्यायस्यास्य प्रथमे पादे –तन्त्रस्योपोद्घातः द्वितीये –तन्त्र-आवापयोः विचारः , तृतीये-तन्त्रस्य लक्षणात्मको विचारः चतुर्थे –विस्तृतः आवापविचारः इत्यध्यायः सम्पादितः । द्वादशाध्याये प्रसङ्ग-तन्त्री –निर्णय- समुच्चय –विकल्पानां विचारः प्रस्तुतः । प्रथमे पादे प्रसङ्गस्य विचारः द्वितीये –तन्त्रिनिर्णययोः विचारः । साधारणधर्माः तन्त्रत्वेन कथ्यन्ते, यस्मिन् एते धर्माः सः तन्त्री भवति । तृतीये समुच्च्यविचारः, चतुर्थे-विकल्पस्य विचारः इति प्रस्तुतोऽयमध्यायः । द्वादशलक्षणात्मके अस्मिन् शास्त्रे तृतीय-षष्ठ-दशमाध्यायेषु (३-६-१०) अष्टौ पादाः सन्ति इत्ययं विशेषः दरीदृश्यते । एवं धर्मानुष्ठानविषये प्रमाणभूतस्य् द्वादशलक्षणी इत्याख्यस्य मीमांसाशास्त्रस्य सामान्यः परिचयः । वेदोक्तधर्मानुष्ठानजिज्ञासवः मीमांसात्मकविषयविशेषान् अस्मात् ग्रन्थाद् धारयन्ति इति मे मतिः ।
 
==मीमांसादर्शनस्य आचार्यपरम्परा==
 
मीमांसासूत्राणां रचना महर्षिणा जैमिनिना विहिता । जैमिनेः स्थितिकालः ईस्वीपूर्व ३६० वर्षाणि स्वीक्रियते । मीमांसासूत्राणां रचना षोडशेषु अध्यायेषु विहिता तथापि जैमिनीयमीमांसा `द्वादशलक्षणी’ नाम्ना प्रसिद्धाऽस्ति । अवशिष्टाश्चत्वारोऽध्यायाः `सङ्कर्षणकाण्ड्’ इति नाम्ना प्रसिद्धा वर्तन्ते । कतिपये विद्वांसो वदन्ति यदेते चत्वारोध्यायाः जैमिनेः रचना नास्ति । जैमिनिकृतसूत्राणां संख्या २६४४ मन्यते ।
 
जैमिनीयसूत्रस्य प्रथमाध्याये धर्मलक्षणं प्रमाणनिरुपणं च प्रतिपादितमस्ति । द्वितीयाध्याये धर्मभेदो निरुपितः । तृतीयाध्याये अङ्गत्वं चतुर्थाध्याये प्रयोज्यप्रयोजकभावश्च प्रस्तुतः । पञ्चमाध्याये क्रिमिनिरुपणमस्ति, यज्ञाधिकारिणो वर्णनमपि अस्मिन्नेवाध्याये प्राप्यते । षष्ठाध्यायेऽपि अधिकारिवर्णनमस्ति । सप्ताष्टमयोरध्याययोरतिदेशोवर्तते । नवमाध्याये ऊहनिरुपणमस्ति । एवमेव एकादशाध्याये तन्त्रं, द्वादशाध्याये च प्रसङ्गो निरुपितः ।
यद्यपि आचार्यो जैमिनि मीमांसायाः सूत्रकारो वर्तते तथापि स आदि आचार्यो नास्ति यतोहि तेन स्वकृते मीमांसासूत्रे मीमांसादर्शनस्य अनेकेषां पूर्वाचार्याणां नामानि उल्लिखितानि । तदनुसारेण जैमिनेः पूर्वमीमांसायाः अष्टौ प्रसिद्धाः आचार्याः अभूवन् –
#[[आत्रेयः]]
#[[आश्मरथ्यः]]
#[[कार्ष्णाजिनिः]]
#[[बादरिः]]
#[[ऎतिकायनः]]
#[[कामुकायनः]]
#[[लाबुकायनः]]
#[[आलेखनः]]
 
मीमांसारूत्राणां वृत्तिकारेषु उपवर्षाचार्यः सर्वप्राचीनो मन्यते । अनेन मीमांसासूत्रस्य षोडशाध्यायेषु वृत्तिर्विरचिता । अस्य आचार्यस्य स्थितिकालः ईस्वीपूर्व द्वितीयशताब्दयां मन्यते । अस्य आचार्यस्य समकालिकः कश्चित् भवदासनामकोऽप्याचार्य आसीत् । अनेनापि मीमांसासूत्राणां वृत्तिर्विरचिता ।
 
मीमांसासूत्रेषु आचार्य शबरस्वामिनो भाष्यम् उपलभ्यते । तद् यद्यपि उपलब्धमस्ति । भाषाविषययोः पूर्वं व्याख्यानस्य दृष्ट्या शाबरभाष्यस्य महत्त्वं शाङ्करभाष्यतुल्यं स्वीक्रियते । इदं शाबरभाष्यं द्वाद्वशाध्ययेष्वेव लिखितमस्ति । अस्य स्थितिकालः ईस्वी द्वितीयशताब्दी अस्ति । शबरस्वामिनोऽनन्तरं आचार्यभर्त्तृमित्रस्य `तत्त्वशुद्धि’ रित्याख्या वृत्तिरपि मीमांसासूत्रेषु उपलभ्यते । कालान्तरे कुमारिलभट्टेन अस्य आलोचना विहिता ।
शबरस्वामिनः उपरान्तं मीमांसादर्शने कुमारिलभट्टस्य प्रसिद्धिः श्रूयते । कुमारिलभट्टेन मीमांसासूत्रस्य प्रथमाध्यायम् अधिकृत्य तर्कपादे श्लोकवार्त्तिकस्य रचना विहिता । शेषभागम् अधिकृत्य तन्त्रवार्तिकमप्यनेन विरचितम् । अस्यैव आचार्यस्य दुपटीकाग्रंथोऽपि प्राप्यते । कुमारिलभट्टस्य स्थितिकालः सप्तमशताब्द्या अन्तिमभागे अष्टमशताब्द्याः प्रारम्भे च मन्यते ।
कुमारिलभट्टस्य शिष्यः आचार्यो मण्डनमिश्रोऽपि मीमांसायाः प्रसिद्धो विद्वान् आसीत् । शंकरद्विग्विजयग्रन्थस्य उल्लेखानुसारं शास्त्रार्थे शङ्कराचार्येण पराजितो भूत्वाऽयं सुरेश्वराचार्य नाम्ना शङ्कराचार्यस्य शिष्यतां गृहीतवान् । मण्डनमिश्रस्य अनेका रचनाः सन्ति-विधिविवेकः, भावनाविवेकः विभ्रमविवेकः मीमांसा-सूत्रानुक्रमणी च ।
उम्बेकाचार्योऽपि कुमारिलभट्टस्य शिष्य आसीत् । सः भावनाविवेकस्य टीकां श्लोकवार्तिकस्य तात्पर्यटीकां च रचितवान् । अयमपि कुमारिलमतानुयायी अवर्तत, किन्तु एतदितिरिक्ता पार्थसारथि-मिश्र-माधवाचार्य –खण्डदेवादयः भाट्टमतानुयायिनोऽवर्तन्त । पार्थसारथिविरचिता `शास्त्रदीपिका’ मीमांसादर्शनस्य अद्वितीया कृतिरस्ति । तर्करत्नं, न्यायरत्नाकरः, न्यायरत्नमाला चापि अस्य रचनाः सन्ति । शास्त्रदीपिकायां रामकृष्णभट्टस्य मुक्तिरनेहप्रपूरणी मयुखमालिका चेति टीकाद्वयं प्राप्यते ।
माधवाचार्यः वेदभाष्यकारस्य सायणस्य अग्रज आसीत् । अस्य रचनासु न्यायमालाविस्तरः सेश्वरमीमांसा च प्रसिद्धे स्तः । खण्डदेवमिश्रः भाट्टमते नव्यमतस्य आचार्योऽस्ति । अनेन भाट्टकौस्तुभः भाट्टदीपिका चेति गन्थद्वयं विरचितम् । ‘भाट्टरहस्यम्’ अस्य शाब्दबोधविषयिणी प्रौढा कृतिरस्ति । खण्डदेवस्य स्थितिकालः चतुदर्शशताब्द्यां मन्यते विश्वेश्वरभट्टः अप्पयदीक्षितः आपदेव इत्यादयः आचार्याः खण्डदेवस्य समकालिका आसन् । षोडशशताब्द्यां नारायणभट्टः, लौगाक्षिभास्करः, शङ्करभट्टः, अन्नंभट्टः, रामेश्वरसूरिश्च मीमांसादर्शनस्य उल्लेखनीया आचार्या अभूवन् ।
प्रभाकरमिश्रोऽपि कुमारिलभट्टस्यैव शिष्य आसीत्, किन्तु गुरुमातापेक्षया भिन्नमतमयं प्रतिपादितवान् । अतएव प्रभाकरपतं गुरुमतनाम्ना पृथक् रुपेण प्रसिद्धमस्ति । गुरुपदं प्रभाकराय कुमारिलभट्टेनैव प्रदत्तमासीत् । प्रभाकरेण शाबरभाष्यम् अधिकृत्य स्वतन्त्राः टीका विरचिताः । `बृहती’ टीकाऽस्य प्रकाशिता उपलभ्यते । प्रभाकरमतस्य प्रतिष्ठापकेषु आचार्येषु शालिकनाथः प्रमुखेऽविद्यत । शालिकनाथस्य टीकाद्वयं प्राप्यते ऋजुविमलाटीका, दीपशिखा टीका च । प्रकरणपञ्चिका नाम्नी मौलिकी रचनाऽपि शालिकनाथस्य कृतिः वर्तते ।
गुरुमतस्यैव आचार्यो महोदधि वर्तते स्म । `नयविवेकस्यकर्त्ता भवदासोऽपि प्रभाकरस्यैव मतं समर्थितवान् । अस्य कालो द्शमशती मन्यते । नयविवेकमधिकृत्य कालान्तरे वरचराजेन नयविवेकदीपिका, शङ्करमिश्रेण पञ्चिका, दामोदरेण नयविवेकालङ्कारश्चेति ग्रन्था विरचिताः । प्रभाकरविजयस्य रचयिता नन्दीश्वरोऽपि अस्यैव मतस्य आचार्य आसीत् । अस्य कालः त्रयोदशताब्दी मन्यते । रामानुजाचार्यस्य तन्त्ररहस्यमपि प्रभाकरमतस्य सुप्रसिद्धः ग्रन्थोऽस्ति ।
प्रभाकरस्य पश्चात् मुरारिमिश्रस्य महत्त्वपूर्णं स्थानं वर्तते । अस्य द्वौ ग्रन्थौ उपलभ्येते –त्रिपादीनीतिनयः एकादशाध्यायाधिकरणं च् । मुरारिमिश्रस्य स्थितिकालः द्वादशशताब्दी स्वीक्रियते ।
 
==मीमांसाशास्त्रस्य प्रयोजनवत्त्वम्==
“चोदनालक्षणोऽर्थो धर्मः (मी० सू० १-१-२) इत्यस्मात् सूत्रात् “ अन्वाहार्थे च दर्शनात्” (मी० सू० १२-४-४७ ) इत्यन्तं महर्षिणा जैमिनिना प्रणीतं मीमांसाशास्त्रं भवति । एतच्छास्त्रं आरम्भणीयमथवा अनारम्भणीयमित्यस्याः शङ्कायाः उत्थापकत्वेन एतद्वाक्यं भवति यत् “स्वाध्यायोऽध्येतव्यः” इति ।
 
ननु अत्र विहितः अध्ययनविधिः दृष्टार्थः उत अदृष्टार्थः ? यदि अध्ययनविधिः अदृष्टार्थत्वेन मन्यते तर्हि विचारशास्त्रस्यास्य आरम्भणे आवश्यकत्वं नास्ति यतो हि वेदाध्ययने गुरुमुखानूच्चारणात्मकं कर्म अध्ययनमित्युच्यते । वेदमन्त्रोच्चारणेन न कोऽपि दृष्टार्थस्य सिद्धिः भविष्यति, एवं विधिशास्त्रं निरर्थकमित्यपि आपतेत् । तस्मात् विधिशास्त्रस्य स्वर्गादिसाधनवत्त्वं यददृष्टं तत् फलत्वेन उच्यते । एतददृष्ट अनुमानादिप्रमाणेन कल्त्यते । एवं स्वर्गरुपादृष्टफलं, केबलपाठमात्रेणैव सिद्धि चेत् मीमांसाशास्त्रारम्भणे नास्ति कश्चिदुपयोगः । यदि भवति अध्ययनविधेः दृष्टफल, तदानीमर्थज्ञानं न सिध्यति । विधेः अनुकूलत्वेन विचारशास्त्रस्यास्य आवश्यकत्वात् शास्त्रमेतत् आरम्भणीय भवति । यदि अध्ययनविधेः अर्थावबोधात्मकं दृष्टफलं न मुख्यं, स्वर्गादिरुपफलमेव तस्य मख्यमित्युच्यते तर्हि पाठरुपा ध्ययनविधिना एव स्वर्गफलं सिध्यति । अनेनापि हेतुना विचारशास्त्र स्याऽनपेक्षितत्वात् एतन्मीमांसाशास्त्रं न आरम्भणीयमिति आगते पूर्वपक्षे सिद्धान्ती समाधते
 
''स्वाध्यायोऽध्येतव्यः'' इत्यत्र वर्तमानेन तव्यप्रत्ययेन अभिधा भावनायाः बोधो जायते । तव्यप्रत्ययेन विहितं विधानं बिध्यर्थे भवति । विध्यर्थं एव भावना इति गीयते । भावना द्विविधाअभिधाभावना आर्थिभावना चेति कथ्यते । अभिधीयते अर्थः अनेन इति व्युत्पत्त्या शब्दस्यैव अभिधा इति व्ययहारः । अभिधाभावना एव शाब्दीभावना अथवा प्रेरणा इत्युच्यते । उद्देश्यत्वेन यत्र पुरुषप्रवृत्तिः सा आर्थिभावना इति भण्यते । शाब्दीभावना इयं तव्यप्रत्ययस्य वाच्यभूता भवति, यतः “स्वाध्यायोऽध्येतव्यः” इति वाक्यश्रवणेन अध्ययने मम प्रवृत्तिः बोध्यते इति स्वयमेव प्रतीतिरुत्पद्यते । यस्य वाक्यस्य श्रवणं कथं विहितं, तदनु तद्वाक्यस्यार्थः नियमेन प्रतीयते इति हेतोः अध्येतव्यः इति शब्दश्रवणेन तव्यस्य वाच्यभूता प्रवृत्तिः भवति इति सिद्धम् ।
 
अनया शाब्दीभावनया एव अध्ययने स्वर्गादिफलप्रयुक्तेषु यागादिषु पुरुषस्य प्रवृत्तिरुत्पद्यते । अस्याः प्रवृत्तेः नाम आर्थिभावना इति । यतः इयं पुरुषस्य अर्थरुपे प्रयोजने योजयति । इयमार्थिभावना तव्यप्रत्ययस्य वाचकरुपा भवति । उद्देश्यत्वेन यत्र पुरुषप्रवृत्तिः इति वाक्ये वर्तमानोद्देश्यपदेन सुखदुःखादयः नोच्यन्ते, किन्तु साध्यं यत् तदुच्यते । यत्र कियायाः फलमस्ति तदिति विवेकः । वेदः अनादिः नित्यः सिद्धश्च । अतः अयं वेदः साध्यः न भवति, अर्थात् उद्देश्यत्वेन तव्यप्रत्ययः एकः एव । शाब्दीभावनायाः आश्रयः तव्यप्रत्ययः पुरुषाश्रयः आर्थिभावना इति विवेकः ।
 
यस्मिन क्रियाफलं तिष्ठति तत् उद्देश्यत्वेन भण्यते । एतदुद्देश्य चतुर्धा भिद्यते – उत्पत्तिः प्राप्तिः विकारः , संस्कारश्चेति । तत्र उत्पत्तिः –कुलालस्य क्रियानुसारं घटस्योत्पत्तिर्जायते । अगमनक्रियया देशान्तरस्य प्राप्तिः । पाकक्रियया तण्डुले अन्नात्मको विकारः लाक्षारससेचनेन कर्पासबीजे गुणाधानद्वारा एकः संस्कारः उदेति । उद्देश्यत्वेन विहिताः इमे चत्वारः वेदे न सिध्यन्ति । यतः वेदस्य नित्यत्वाभ्युपगमात् अध्ययनप्रवृत्त्या तस्योप्तत्तिर्न भवति । स वेदः विभुः इति हेतोः तस्य प्राप्तिर्नास्ति । वेदे कृताध्ययनेन तस्मिन् न कोऽपि विकारः जायते । अध्ययनेन वेदस्य संस्कारः नोत्पद्यते । तस्मात् एतत् सिद्धं यत् वेदाध्ययनयोः उक्तेषु चतुर्षु कोऽपि आर्थिभावनायाः उद्वेश्यत्वेन भवितुं न शक्यते इति । उद्देश्यं विना भावनायाः व्यर्थत्वमापद्येत्, तदर्थमुद्देश्यत्वेन अर्थावबोधः अवश्य्ं स्वीकर्तब्यो भवति । यद्येवं नाङ्गीक्रयते अध्ययनविधेः व्यर्थता स्यात् । अतः अध्ययनविधिसामर्थ्येन तस्य फलं अर्थज्ञान तु केव्लाध्ययनेन न सिध्यति । अर्थज्ञानसम्पादनाय शात्रस्य अपेक्षा अस्तिं, एकस्मिन्नेव कर्मणि कर्तु मकर्तु मन्यथा वा कर्तु पुरुषस्य सामर्थ्यवत्त्वात्, एतत्कर्म एवमेव सम्पादनीयमिति कर्मानुष्ठाने एकस्य नियमस्य अपेक्षा अस्ति । तादृशीमपेक्षात्मिकामाकांक्षां एतन्मीमांसाशास्त्रं पूरयति । अर्थनिर्धारणे शास्त्रस्यास्य महान् उपयोगः अस्ति । तस्मात् अवश्यमेव एतन्मीमांसाशास्त्रमारम्भणीयमिति ।
 
यद्यप्यध्ययनविधेः विश्वजिन्न्यायानुग्रहेण स्वर्गफलं भवितुं शक्यते, तथापि तस्यार्थेः स्वर्गफलं न भवति । यत्तः स्वर्गफलमदृष्टात्मकं भवति । सम्मवति दृष्टफलकत्वे अदृष्टफलकल्पनाया अन्याय्यत्वम् इति वाक्यानुसारं सति दृष्टफले कुतः अदॄष्टफल कल्पनीयम् ? सूक्ष्मदृष्टया एतदत्र आलोचनीयम् –स्वाध्यायोऽध्येतव्य इत्यत्र अपूर्वनियमविध्योः अपूर्वविधिः न भवतीति कृत्वा नियमविधिः स्वीक्रियते । अयं नियमविधिः गुरुमुखात् अध्ययनं बोधयन् लिखितपाठेन अध्ययनं निवारयन् च दृष्टफलत्वेन तिष्ठति । अस्मात् नियमबलादेव अध्ययनं नियमविधेः दृष्टफल न भवति इति कारणेन अगत्या अवान्तरापूर्वरुप मदृष्टफलमस्य अध्ययनस्य कल्प्यते । तथा च वेदस्य सामान्याध्ययनेन श्रोत्रियत्वसम्पादनात्मकं दृष्टं फलं, तस्यैव वेदस्य अर्थसम्पादनात्मक मीमांसाशास्त्रस्य विषयाध्ययनेन अदृष्टात्मकं विशेषं फल लभ्यते इत्यतः “ स्वाध्यायोऽध्येतव्यः इति वाक्य दृष्टादृष्टफलजनकत्वेन तिष्ठति इति दिक् ।
 
==कुमारिलमतानुसारमधिकरणविवेचनम्==
पूर्वमीमांसायां “अथातो धर्मजिज्ञासा” (जै० सू० १-१-१) इति सूत्रेण प्रथमाधिकाणमारभ्यते । अवान्तरप्रकरणस्य नाम अधिकरणमिति । अधिकरण पञ्चावयवात्मकं भवति । यथा –
:'''विषयो विशयश्चैव पूर्वपक्षस्तथोत्तरः ।'''
:'''सङ्गतिश्चेति पञ्चाङ्गं प्राञ्चोऽधिकरणं विदुः ॥'''
 
इति । विशयः नाम संशयः । यमुद्दिश्य विचारः क्रियते सः विषयः विषये यज्ज्ञानं प्रकारद्वयेन न स्पष्टीक्रियते सः भवति संशयः । प्रकारद्वये एकः भावरुप्ः, अन्यः अभावरुपः । कोटिद्वयेषु वादी यस्मिन् पक्षे स्वमतमुपस्थापयति सः पूर्वपक्षः । प्रतिवादिनः पूवपक्षखण्डनात्मकः सिद्धान्तः नाम उत्तरपक्षः । सङ्गतिः त्रिविधात्मिका भवति –अधिकरणसङगातिः, पादसङ्गतिः, अध्यायसङ्गतिश्चेति । सङ्गतेः स्वरुपमेवं भवति-अयं विचारोऽस्मिन्नधिकरण, अस्मिन् पादे, अस्मिन्नध्याये कर्तव्यत्वेन यद्विहितं तत्समुचितम् इति एवप्रकारात्मकः विचार एव सङ्गतिरित्युच्यते ।
 
भाट्टास्तु –सङ्गतिमधिकरणाङ्गत्वेन मन्यन्ते । ते तु सङ्गतिस्थाने उत्तरमिति अङ्गत्वेन स्वीकरिष्यन्ति । निर्णयोत्तरयोः अयं भेदः यत् उत्तर वादिमतस्य खण्डनमात्रं भवति, न तु सिद्धान्तः । यथा जात्युत्तर तद्वत । निर्णयः एव सिद्धान्तो भवतीति । एतेषां मतानुसारमयं श्लोकः –
:'''विशयो विशयश्चैव पूर्वपक्षस्तथोत्तरः ।'''
:'''निर्णयश्चेति पञ्चाङ्गं शास्त्रेऽधिकरणं स्मृतम् ॥'''
 
इति । एतेषां न्यायानुसार –विषयः, संशयः, पूर्वपक्षः उत्तरपक्षः, निर्णयः इति अधिकरणस्य पञ्चावयवाः । एवं पञ्चावयवात्मकस्य अधिकरणस्य स्वाध्यायोऽध्येतव्यः इत्यादि शृतिपठितं वेदाध्ययनं विचाराङ्गत्वेन विषयः भवति इति आचार्यस्य कुमारिलस्याभिप्रायः । एतन्मतस्यैव भट्टमतमथवा आचार्यमतमिति लोके व्यवहारः ।
 
==गुरुमतपदौचित्यविचारः==
 
एवमेव “गुरुमतम्” इत्युक्ते प्रभाकरस्य । अत्र कारणमेतद् भवति एकवारं प्रभाकरः गुरुणां सकाशे अधीयन्नास्त । समये च तस्मिन् एकस्यां फविककायां वर्तमानायां “ तत्र तु नोक्तम्, अत्रापि नोक्तमतः पौनरुक्तम्,’ इत्यस्मिन् विषये गुरोः संशयः समजनि । तत्र तु इत्यस्य तात्पर्यमेतदस्ति –तस्मिन्नपि प्रकरणे वाक्यमेतद् नोक्तम्, प्रकरणे अस्मिन्नपि वाक्यमेतद् नोक्तम्, तस्मात् पुनः उक्त भवति इति सति पौनरुक्तम् कथमिति प्रभाकरेण पृष्टे विषये
ऽस्मिन् गुरुभिरपि विचारः कृतः । यदि एतद न कुत्रापि भणितं पूर्वापरत्वेन तर्हि तस्य पुनरुक्तत्व्ं कथमागमिष्यति ? पुनरुक्तदोषस्तु अत्र जायते यत्र पूर्वमेकवारं प्रतिपाद्य तदैवान्यत्र प्रतिपाद्यत्वेन स्वीक्रियते इति तु दृष्टः । सत्येवमत्र का गतिः । इति मनः कोटिद्वयमध्यवर्ति अभूत् । ते गुरवः स्थानान्तरं गत्वा चिन्तितुमारभन्त । एताछृत्वा झटिति शिष्यः प्रभाकरः तस्मिन् वाक्ये एव्ं पदपरिच्छेदं कृतवान् । यथा –तत्र तुना –तुशब्देन उक्तम्. अत्र अपिना-अपिशब्देन उक्तम, अतः पौनरुक्तमिति । एवं विकल्पितं वाक्यं दृष्ट्वा गुरोः सन्देहः निवारितः । तदा ते शिश्यानपृच्छन्, -केन एव्ं पदव्यत्यासः कृतः ? इति । तदा प्रभाकरस्य नाम श्रुत्वा गुरुः परमसन्तोषमवाप्य –“त्वमेव गुरुः” इति तं व्यपदिदेश । तदानौमारभ्य सः प्रभाकरः गुरुरिति प्रथां प्राप । तस्य मतं भवति गुरुमतमिति । एवं मीमांसाशास्त्रे मतद्वयम् –एकमाचार्यमतम्, अन्यत गुरुमतमिति इदानीं प्रभाकरमतानुसारमधिकरणं विवेचयामः
 
==प्रभाकरमतानुसारमधिकरणविवेचनम्==
''अष्टवर्षं ब्राह्मणमुपनयीत तमध्यापयीत'' इति श्रुत्यनुसारं विधेय विषयत्वेन अध्यापनं प्रतीयते इति प्रभाकरमतम् । अन्येषां मते तु श्रुतिः अध्यापनस्यैव विधानं भवति इत्यन्यदेतत् । विधेः एव नियोगः इति संज्ञा । यस्मिन् प्रति नियोगः अर्थात् विधानं करिष्यते सः नियोज्यः इत्युच्यते । अतः नियोगः नियोज्यस्यापेक्षां करोति । तर्हि निजोज्य पदार्थः कः ? आचार्यत्वप्राप्यते यः भवति सः एव नियोज्यशब्दार्थः । अत्र कारणं तु उपनयीत इत्यत्र उपपूर्वक –नीधातोः विधिपूर्वकं स्वसमीपे शिष्यस्य नयनमेव अर्थत्वेन उच्यते । यतः उपनयीत इत्यात्मनेपदप्रयोगेण आचार्यस्य कर्मप्रतीतिरेव बोध्यते । आचार्यकर्मकरणे यः इच्छावान् सः नियोज्यः भवितुं शक्यते । उपनयने यः नियोज्यत्वेन नियुक्तो भवति सः एव अध्ययनेऽपि नियोज्यत्वेन तिष्ठति अर्थात् उपनयनपूर्वकाध्ययनकरणॆ एव अध्यापके एकप्रकारस्य संस्कारस्योत्पत्तिः भवति । स एव संस्कारः आचार्यशब्दस्य प्रवृत्तिनिमितो भवति । अनेन निमित्तेन सः आचार्य इति कथने योग्यः इति । “ अष्टवर्षं ब्राह्मणमुपनयीत तमध्यापयीत” इति शृत्यर्थं प्रतिपादयन् नियोगः कः ? नियोज्यः कः ? इत्यादि विषयसम्पादनेन आचार्यः प्रभाकरः अधिकरणमारचयति ।
==श्रुत्यादीनां प्रामाण्यविचारः==
श्रुत्यादयः षट् वेदोक्तार्थनिर्णये प्रमाणानि भविष्यन्ति । तत्र सूत्रम् –“श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाखानां समवाये पारदौर्बल्य मर्थविप्रकर्षात्” (जै० सू०- ३-३-१४) इति मन्त्रदेवताहविरादि द्रव्याणां विनियोगः कुत्र कर्तव्यः ? इतीमामाकाक्षां निर्धारयन् श्रुत्यादिषटप्रमाणानि प्रवर्तन्ते । इमानि षट् एकस्मिन् काले अथवा सर्वदा एकत्र प्रावर्तिष्यन्त् तर्हि अनवस्या स्यात् । अतः पारदौर्बल्य मर्थविप्रकर्षात् इत्युक्तम् । यत्र प्रमाणद्वयस्य सन्निपातः तत्र पूर्वापेक्षया अपरं प्रमाणं दुर्बलमित्युच्यते । एतत् क्रमानुसार सवेषां प्रमाणानां निर्णायकत्वेन मुख्यत्वेन च श्रुतिरेव अन्तिमत्वेन तिष्टति । अस्याः अपेक्षया अन्ये लिङ्गदयः सर्वे दुर्दलाः भविष्यन्ति ।
 
श्रुतिः द्विःप्रकारात्मिका अस्ति –एका साक्षात् पठिता, अन्या अनुमिता । प्रथमस्योदाहरणम् –ऎन्द्रया गार्हपत्यमुपतिष्ठते इति । अत्र देवतासम्बन्धी या ऋक तस्याः गार्हपत्याग्नि उपस्थाने विनियोगः इति पुरोडाशस्य सदनं करोति इति । वाक्यमेतद् श्रुतिसमूहेषु न कुत्रापि मिलति । “श्योनं ते सदनं कृणोति” (तै० ब्रा० ३-६) इति ब्राह्मण वाक्यानुसार मन्त्रार्थ दृष्ट्वा अनेन लिङ्गात्मकज्ञापकबलेन मन्त्रार्थानुसारं मन्त्रविनियोगं कुर्वन्त्याः श्रुतेरस्याः अनुमानं क्रियते ।
 
अर्थप्रकाशन सामर्थ्यत्मकं यत् तल्लिंगमित्युच्यते । लिंगमेतत् श्रुत्यनुसार भवति । लिंगमपि द्विविधम्-साक्षाद्, दृश्यमानम्, अनुमितं चेति । साक्षाद् दृश्यमानं लिंगं नाम श्योनं त इति पुरोडाशस्य सदनं करोति इति भवति । अनुमितलिंगस्योदाहरणम् –“ देवस्य त्वा सवितु प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां जुष्टं निर्वपामि” (ते० स० १-१ ४ ) इति वाक्यम् । आकांक्षायोग्यतादिवशेन परम्परान्वितार्थ पदानां यः समूहः तत् बाक्यमित्युच्यते । देवस्य त्वा इति वाक्ये अग्नये जुष्टं इति भागस्यास्य निर्वापरुपात्मकार्थप्रकाशनसामर्थ्यं प्रत्यक्षत्वेन दृष्टम् तेन एकवाक्येन अवशिष्टभागस्य अनेन वाक्यप्रमाणबलेन अर्थप्रकाशनसामर्थ्यमनुमीयते । तेन समुदितमिंगेन देवस्य त्वेति निर्वपति इति श्रुतेः अनुमान क्रियते इति श्रुतेरपेक्षया लिंगं दुर्बलम् ।
 
लिंगास्यानुमापक वाक्यमपि द्विविधम्-साक्षादनुमितभेदेन वाक्यस्य साक्षादुदाहरणं देवस्य त्वा इति । अन्यस्योदाहरणम् –“समिधो यजति” इत्यस्यां श्रुतौ इष्टविशेषनिर्देशाभावात् यागेनानेन कस्याः भावना करणीया इत्याकांक्षायाम्, एवमेव ‘दर्शपूर्णमासाभ्यां स्वर्ग भावयेत्’ इत्यस्मिन्नपि वाक्य कथं भावयेत् इत्याकांक्षायाम् इमे द्वे आकांक्षे यत्र प्रतिपादिते स्तः तत्प्रकरणम् भवतीति हेतोः तदेवात्र वाक्यद्वययोः प्रमाणं भवति । प्रकरणमेतद् द्वयोस्तयोः एकवाक्यतां सम्पादयति । अर्थात् प्रकारणेन अनुमीयते तयोः एकवाक्यतात्मकः अर्थावबोधः , इति कृत्वा “समिधो यजति” इति वाक्यं लिङ्गापेक्षया दुर्बलम् ।
 
उभयाकांक्षा यत्र तत्प्रकरणमित्युच्यते । एतदपि द्विविधम्-साक्षात् श्रुतम्, अपरमनिमितं चेति । प्रथमस्योदाहरणं पूर्वमेव प्रतिपादितम् । द्वितीयस्य- ‘ऎन्द्राग्नमेकादशकपालं निर्वपेत्’ (तै० स० २-२-११) इत्यादिना इष्टविधानं क्रियते । “इन्द्राग्नी रोचना दिवः (तै० सं ४-२-११)इत्यादि मन्त्रानुसार यथासंख्यपाठानुरोधेन यथाक्रम विनियोगोऽपि उक्तः । एवं तत्तद्वाक्यं तत्तत् स्थानविशेषेण एकवाक्यत्वं भजते इत्यतः स्थानानुमानेन प्रकरणार्थः निश्चीयते । एवं प्रकरणार्थः वाक्ये, वाक्यं लिङ्गे लिंङ्ग श्रुतौ इति परम्परया प्रकरणार्थस्य विनियोगात् वाक्यापेक्षया प्रकरणं दुर्बलं भवति
 
उभयाकांक्षायाः अनुमापकं स्थानप्रमाणमपि द्विविधम्-साक्षादेकम्, अन्यत् समाख्यया अनुमितं चेति । समाख्या नाम योगबलम् अर्थात् अन्वर्थता इत्युच्यते । स्थानस्य साक्षादुदाहरणं प्रकरणे प्रतिपादितम् । अन्यानुमितस्योदाहरणम् –हौत्रम्, औदगात्रम् इत्यादि । होतरिदं हौत्रम् इति योगबचेन हौत्रादिसमाख्यया यल्लब्ध कर्म तत् होतुः पुरुषस्य अनुष्ठानयोग्यमिति अनुमीयते । समाख्या सम्बन्धप्रयुक्ता एव भवति । असन्निहितपुरुषेण सह सम्बन्धाभावात्, सम्भन्धप्रयुक्ता एव भवति । असन्निहितपुरुषेण सह सम्बन्धाभावात्, सम्बन्धस्य सिद्ध्यर्थं सन्निधिपाठरुपक्रमस्य कल्पना क्रियते । अनुमानेन पाठक्रमे सिद्धे सतितेन उभयाकांक्षायाः अनुमानं क्रियते । तेनानुमानेन एकवाक्यतायाः सिद्धिः इति हेतोः षट प्रमाणेषु अन्तिमत्वेन दुर्बला भवति इयं समाख्या ।
 
तस्मात् समाख्या स्थाने अन्तर्भवति, स्थानं प्रकरणे अन्तर्भवति, प्रकरणं वाक्येऽन्तर्भावं भजते, वाक्यं लिङ्गे स्वात्मानमर्पयति, लिङ्गं स्वस्वरुपं श्रुत्या स्वीकरोति इत्यतः चैमिनिना उक्तम् – “ श्रुतिलिङ्ग वाक्यप्रकरणस्थानसमाखानां समवाये पारदौर्बल्यमर्थविप्रकर्षात्” इति श्रुतिः देदरुपः इत्युच्यते ।
प्रामाण्यवादविचारः –
 
प्रमाणानां यः भावः अर्थात् धर्मविशेषः अस्ति तदेव प्रामाण्य मित्युच्यते । यथार्थानुभवः प्रमाणमित्युच्यते । एतद् प्रमाणं प्रमा इत्यपि कथ्यते । यथार्थानुभवे वर्तमानः यः वियेषधर्मः तस्य प्रामाण्यमिति कथनात् एतत् प्रमात्वं , प्रमाणत्वमित्यादि शब्दैः व्यपदिश्यते । भावा भावभेदेन विरुद्धत्वेन अप्रमात्वमप्रमाणत्वमित्यपि कथ्यते । प्रामाण्यकारण्त्वेन यः वादः अस्ति तस्य् “प्रामाण्यवादः” इति नाम । अयं वादः द्वेधा व्यवह्रियते –जननकारणविषयकः, ज्ञापककारर्णावषयकश्चेति । यस्मिन् कार्यस्योत्पत्तिः भवति सः वादः जननकारणविषयकः ।ज्ञापक- कारणविषयस्तु यस्मिन् कार्यज्ञानं सम्पाद्यते सः इति । प्रामाण्यस्य कारणं भवति-स्वतः परतश्चेति । यत्र स्वतः परतश्चेति संशयः तत्र वादारम्भो भवति । स्थिते एवं के स्वतः प्रामरण्यं स्वीकुर्वन्ति , के परतः प्रामाण्यमभ्युपगच्छन्ति इति ज्ञापनाय भवत्ययं श्लोकसन्दर्भः
:'''प्रमाणत्वाप्रमाणात्वे स्वस्तः सांख्याः समाश्रिताः ।'''
:'''नैयायिकास्ते परतः सौगताश्चरमं स्वतः ॥'''
:'''प्रथमं परतः प्राहुः प्रामाण्यं वेदवादिनः ।'''
:'''प्रमाणत्वं स्वतः प्राहुः परतश्चाप्रमाणताम् ॥'''
 
इति । सांख्याः प्रमाणत्वाप्रमाणत्वयोः जन्म स्वतः इति, नैयायिकाः परतः इति, बौद्धास्तु अप्रामाण्यस्य जन्म स्वतः प्रामाण्यस्य परतः इति । वेदवादिनः मीमांसकास्तु प्रामाण्य स्वतः अप्रामाण्यं परतः इति स्वस्व मतमुपस्थापयन्ति । एतेषां विस्तारः खण्डनमण्डनात्मको विचारः ग्रन्थान्तरादवलोकनीयः ।
स्वतः प्रामाण्यं युक्तियुक्त भवति । यतः प्रामाण्यस्य स्वतः सिद्धत्वं एतद् भवति यत् विज्ञानसामग्रीजन्यं एवं तद्भिन्नहेत्वजन्यमिति । अयं भावः –येन सामग्रीवशेन विज्ञानमुत्पद्यते, तेनैव वर्तमानं प्रामण्यमपि उत्पन्नं भवति । प्रामाण्योत्पतौ गुणमथवा दोषाभावं विहाय अन्यः हेनुः न कोऽपि तिष्ठति । दोषास्तु प्रमायाः प्रतिबन्धकमात्रत्वेनोच्यन्ते । अयं मीमांसकाभिमतः प्रामाण्यबादविचारः ।
 
सततः प्रामाण्ये मीमांसामतानुसारमनुमाने –विवादास्पद प्रामाण्यं पक्षत्वेन स्वीक्रियते, विज्ञानसामग्रीजन्यं तद्भिन्नहेतुना यदजन्यं तत् साध्यत्वेन स्वीक्रियते, अप्रमायाः अनाश्रयत्वं हेतुत्वेन तिष्ठति, घटादि-प्रमासदृशः दृष्टान्तः भवति इति विवेचनीयम् । एवं विध्यर्थवादमन्त्रनामधेयात्मकैः चतुर्भिः भागैः विभक्तः वेदः धर्मविषये स्वतः प्रामाण्यं भवति । अज्ञातार्थज्ञापकः यः वेदमन्त्रः सः विधिर्भवति । यथा “ अग्निहोत्रं जुहुयात्स्वर्गकामः” इति । प्रशंसा अथवा निन्दापरकस्य वेदवाक्यस्य अर्थवादः इति संज्ञा । यथा –“वायुर्वे क्षेपिष्ठा देवता” इति वायोः स्तुतिद्वारा “ वायव्यं श्वेतपालभेत्” इति विधेः प्रशंसां करोति । एवमेव “सोऽरोदीत्तदुद्रस्य रुद्रत्वम” इति विधेः प्रशंसां करोति । एवमेव “ सोऽरोदीत्तदुद्रस्य रुद्रत्वम्” अनेन वाक्येन रजतस्य निन्दाबोधनं जायते । प्रयोग समवेतार्थस्मारकत्वेन यद वेदवाक्यं सः मन्त्रः भवति । यथा –श्योनं ते सदनं कृणोमि इति । अस्य मन्त्रस्य उपयोगः पुरोडाशस्य सुखकराशयद्वारा यज्ञादिकर्मणि भवति । अर्थस्मरणं मन्तेणैव कार्यम् इति हेतोः मन्त्रस्यापि आम्नायत्वमुक्तम् । नामानिर्देशपूर्वकं यागस्य विधानं यत् तन्नामधेयत्वेन कथ्यते । यथा –“श्येनेनाभिचरन् यजेत्, उद्भिदा यजेत पशुकामः” इत्यादयः । एते चत्वारः क्रियापरकाः इति हेतोः एतेषां चतुणांमपि आम्नायत्वं सिद्धम् ।
 
मीमांसकाः वेदवादिनः इति हेतोः जैमिनिनोक्तम् – आम्नायस्य क्रियार्थत्वादानर्थ कयमतदर्थानाम्” (जै० सू० १-२-१) इति । वेदस्य स्वतः प्रामाण्यमेतैः आचार्यैरेव साधितम् इत्यतः वेदार्थमीमांसारुपमेतद् मीमांसादर्शनं भवति ।
वेतस्यापौरुषेयत्वविचारः
इमे ग्रन्थात्मकाः वेदाः अग्न्यादिप्राणविधवेदाः इव अपौरुषेयाः भवन्तीति मीमांसकाः । तत्र पौरुषेयत्वं नाम प्रमाणान्तरेण् अर्थमुपलभ्य रचितत्वम् तत् वेदे नास्ति । अतः अयं वेदः अपौरुषेयः इति । अनेनैव कारणेन वेदस्य स्वतः प्रामाण्यमपि सिध्यति । पुरुषसम्बन्धसम्भाविताः भ्रम प्रमाद-विप्रलिप्सादयः अप्रमाण्यहेतवः ये ते वेदे न मिलिष्यन्ति । वेदस्य ब्रह्मस्वरुपत्वात् तस्मिन् वेदे प्रतिपादितः वेदनारायण् एव पुरुषः जीवः इति च वक्ष्यमाणत्वात् वेदस्यापौरुषेयत्वं सिद्धमिति एतेषां सिद्धान्तः ।
ईश्वरकृताः वेदाः” इति वैशेषिकाः नैयायिकाः वेदान्तिनश्च भणन्ति । तत्र कारणम्-कण्ठताल्वाद्यभिधातजन्य –वर्णारुपाणां वेदानामपोरुषेयत्वासम्भवात् इति । ब्रह्मणः स्वासोच्छवासरुपेण वेदानामुत्पत्तिः इति श्रूयते । आप्तोक्तत्वे यया प्रामाण्यं तथा तेषां वेदानां प्रामाण्यमुत्पद्यते । भवति ऋङ्म्न्त्रः –
:'''तस्माद्यज्ञत्सर्बहुतः ॠचः सामानि जज्ञिरे ।'''
:'''छन्दांसि जज्ञिरे तस्माद्यजुस्तस्मादजायत ॥'''
: - (ऋ० सं० १०-३०३) इति
एवमुपनिषदि-
यो ब्राह्मणं विदधाति पूर्व्ं यो वै वेदांश्च प्रहिणोति तस्मै (श्वे० उ० ६-१८) इति च भवति न्यायसूत्रमपि –मन्त्रायुर्वेद प्रामाण्यवच्च तत्प्रामाण्यमाप्तप्रामाण्मात् (न्या० सू० २-१-६३) इति । एवमादिभ्मः मन्त्रोपनिषद्वाक्येभ्यः ईश्वरकृतत्वम् ईश्वरप्रोक्तत्वं वा वेदस्य स्पष्टमिति एतेषामाशयः ।
 
अत्रेदमवधार्यम । वेदः पौरुषेयो वा अपौरुषेयो वा इति विशिष्य न चिन्तनीयम् । यतः कीदृशाः अपि ते ज्ञान-विज्ञानराशयः सन्ति । गुणैकपक्षपातिभिः विद्वद्भिः तेषामर्थानुसन्धानपूर्वकमध्ययनमवश्यं कर्तव्यमेव । तैरैव वेदैः पुनरपि वयं पुरा इव जगतः गुरुत्वं प्राप्तुं ज्ञातु च शक्नुमः इदानीमित्यविस्मरणीयम् ।
 
ईश्वरस्य निः श्वासरुपेण स्थिताः वेदाः पौरुषेयाः इति स्त्यपि लौकिक पुरुषनिर्मितत्वाभावमात्रेण अपौरुषेयाः भवन्ति । यतः ब्रह्मणः लौकिकपुरुशवत जननमरणधर्मै न स्तः । ईश्वर अनादिः इत्युक्तत्वात् वेदोऽपि अनादिरिति स्वयमेव सिद्धम् । अत एव वेदाः निर्दोषाः प्रामाणिकाश्च इत्यतः मीमांसाशास्त्रे वेदस्यापौरुषेयत्वं सिद्धम् ।
 
वेदस्य स्त्रष्टा ब्रह्म
ईश्वर एव सम्पूर्णास्य जगतः सृष्टे कारणरुपो भवति । तेनैव निर्मितं भवति इदं जगत् । यथा –लोके कुलालः घटस्य निर्माता भवति, घटनिर्माणात् पूर्वं तद्विषयकचिन्तां मनसि कृत्वा तज्ज्ञानं बुद्धौ सम्यगवधार्य अनन्तरं घटं निर्मास्यति एव परमात्मा प्राणिनां धर्माधर्मपुरस्सर वेदोक्तरीत्या सृष्टिं करोति । यद्यपि वेदस्यापौरुषेयत्वमेव सिध्यति तथापि साक्षाद्वेदेनैव सृष्टयादयः न जायन्ते । अतः वेदस्य स्वतः अपौरुषेयत्वं ब्रह्मणा श्वासोच्छवासमुखेन प्रणीतत्वात् पौरुषेयत्वं च सिध्यतः । वेदस्य पौरुषयत्वमपि ब्रह्मणः नित्यत्वात् अपौषेयत्व च सिध्यतः वेदस्य पौरुषतत्वमपि ब्रह्मणः नित्यत्वात् अपौरुषेयत्वमेव भजते जन्मनाशरहिअत्वात् । सत्वप्राणिनां धर्माधर्माः बुध्यादयश्व् परमात्मनि वर्तन्ते । अयमीश्वरः तेषां धर्माधर्मानुसारेण चराचरप्राणिनां सृष्टिं करोति । तेषां भरणार्थं वेदानां निर्माण करोति । यथा लोके पिता पुत्रमुत्पादयति, अनन्तरं तस्य् हिताय ज्ञानं बोधयति, तेन ज्ञानेन अहितानां कर्मणां परिहारं कर्तुं तस्य् शिक्षां ददाति तथा परमेश्वरः जीवानामिष्टप्राप्तेः अनिष्टपरिहारार्थं च वेदानां सृष्टिं करोति । किं च जीवानां सुकृत-दुष्कृतकर्मणां फलमौश्वरः ददाति । पूर्वमीमांसायां तु कर्म स्वतः अपूर्वोत्पादनद्वारा स्वस्य फलं ददाति इत्यभ्युपगम्यते । ईश्वरः इत्येको वर्तते वा न वा इत्यत्र एतेषां मीमांसा नास्ति । वेदान्तदर्शने परब्रह्म इत्येकम् अनन्तमनादि अस्तीत्यभ्युपगम्यते, तद वेदस्य् निर्मातृ भवति इति च पूर्वोत्तरमीमांसयौएभेदः ।
किंच मीमांसानये वेदः अपौरुषयः, तेनैव सृष्टयादि कर्मजातं चाल्यते इत्युच्यते । कर्मण मुख्यत्वं प्राबल्यत्वं च दातु मतमेतदङ्गीक्रियते । यदा बौद्धानां चार्वाकाणां च मतस्य बाहुल्यमासीत् तदा तत्तन्मतं खण्डयितुं एवं वेदोक्तकर्मानुष्ठाने जनानुरागमाकयितु आचार्याः कुमारिलभट्टापादाः कर्मणः एवं मुख्यत्वं ददुः । शारीरकमीमांसकास्तु ब्रह्मणः जगत्सृष्टिं, तस्य जगतः सृष्टयर्थ, सृष्टिंगताना जीवानां च वेदस्योपयोगः वेदस्तु यथावत् ब्रह्मणा निर्मितः –धाता यथा पूर्वमकल्पयत् (ॠ० स० १०-१६०-३) इत्यादि श्रुतेः इति वदन्ति । अतः ईश्वरापेक्षया वेदः पौरुषयः जीवापेक्षया वेदः अपौरुषेय एवेति अभ्युपगम्यते । यदि जीवापेक्षया वेदः पौरुषेयो भवति तर्हि जीवगतधर्माः ये भ्रमप्रमादादयः एते वेदेऽपि अवश्यं सम्भवेयुः । वेदे तु न तथा दृश्यते । तस्मात् वेदस्य सृष्टृ ब्रह्म इति सिध्यति ।
==वेदस्य नित्यत्वविचारः==
भगवता परमर्षिणा जैमिनिना अभिप्रेतं यत् अर्थेन सह शब्दस्य सम्बन्धो भवति, अयं सम्बन्धः औत्पत्तिकरुपेण नित्यो भवति, न तु कृत्रिमः साङ्केतिको वा । तस्य नित्यत्वं स्वाभाविकमित्युच्यते । अतः एव विधिवाक्योत्पन्न ज्ञानमबाधित सत् सत्य भवति वेदशब्दाः अज्ञातविषयाणां ज्ञानं जनयन्ति, अतः ते स्थायिनः भवन्ति । उच्चारणात् पूर्वा शब्दः अव्यक्तावस्थायां तिष्ठति, उच्चारणॆन ते एव अव्यक्तभूताः शब्दाः व्यक्ताः भवैष्यन्ति । अतः शब्दो नित्यः । उत्पन्ने शब्दे करणरुपक्रिया न सम्भवति । उच्चारणानन्तरमपि शब्दः तथैव तिष्ठति किन्तु अव्यक्ताव्स्थायाम्, तदा तस्य नाशः न हि भवति । तस्मात् वेदो नित्यः इति । वेदशब्दानां नित्यत्वात् शब्दैः प्रतिपाद्यमाना देवता अपि नित्या एव भवति । एतेन देवतानामपि नित्यत्वं स्थापितं भवति ।
 
==देवतानामेकत्वविचारः==
 
ऋग्वेदे प्रतिपादिताः अनेके देवतात्मानः एकस्यैव परमात्मनः स्वरुपभूताः भवन्ति ।
एकं सद्विप्र बहुधा वचन्त्यगिंन यमं मातशिखानमाहुः । (ऋ० सं० १-२२-१६) इति श्रुतेः । ऋग्वेदे वर्गत्रयात्मकाः देवताः भवन्ति । तेषां वर्गाणां नाम-पृथिवी, अन्तरिक्षं , द्यौः इति । एतेषु पृथिव्याः देवता –अग्निः, अन्तरिक्षस्य देवता –इन्द्रः अथवा वायुः द्युलोकस्य देवता –सूर्यः इति । एतेषां त्रयाणां मध्ये सम्बन्धस्य वर्तमानत्वात् पृथिवी-अन्तरिक्षं द्यौः एते त्रयः एकीभूताः भवन्ति । यद्यपि एताः देवताः स्वस्वकर्मानुसारेणा त्रिषु नामसु प्रसिद्धाः अथापिः वस्तुतः एते त्रयः एकस्मिन्नेव परमात्मनि अन्तर्भवन्ति । तथा च वाक्यम् –“तासां महाभाग्यात् एकैकस्यापि बहूनि नामधेयानि भवन्ति” इति । यास्कोऽपि निरुक्ते लिखति-“ नरराष्ट्रमिव” इति । यथा एकस्यैव राज्ञः कृते सर्व राष्ट्रं भवति तद्वत् एकस्य परमात्मनः कृते सर्वं भवति । सर्वं परमात्मस्वरुपमित्यर्थः ।
 
चोक्तमुपनिषदि –
 
एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा” (श्वे० उ० ६-११) इति निरुक्तेऽपि –एकस्यात्मनोऽन्ये देवाः प्रत्यङ्गानि भवन्ति इत्याम्नातं भवति । तस्मात् सर्वे देवाः एकस्यैव परमात्मनः स्वरुपभूताः भवन्ति । तस्य आत्मनः ज्ञानायैव सर्वाः वेदान्तोपनिषच्छृतयः वेदश्च प्रभवन्ति इत्यतः एकविज्ञानेन सर्वविज्ञानं सिध्यतीति एतदेव मोक्षतत्त्वमित्युच्यते ॥
==मीमांसादर्शने ज्ञानसमीक्षा==
मीमांसादर्शनेऽपि प्रमाजन्यस्य ज्ञानस्य प्रामाण्य्ं स्वीकृतमस्ति । मीमांसायाः प्रमाणलक्षणमस्ति -`कारणदोषबाधकज्ञानरहितं गृहीतग्राहि ज्ञानं प्रमाणम्’ इति । अर्थात् भ्रमरहितस्य संशयरहितस्य च अज्ञातस्य वस्तुनोऽनुभवः प्रमा कथ्यते । मीमांसादर्शने प्रमाणानां संख्या षट् वर्तते । यद्यपि प्रभाकरः पञ्चैव प्रमाणानि स्वीकरोति तथापि कुमारिलभट्टमते षट् प्रमाणानि स्वीकृतानि-प्रत्यक्षम अनुमानम्, उपमानम्, शब्दः, अर्यपत्तिः, अनुपलब्धिश्चेति । दर्शनेषु प्रत्यक्षानुमानयोः सन्दर्भे प्रायेण विवादो नास्ति । यद्यपि अनुमानप्रमाणविषये मीमांसकाः पञ्चावयववाक्यानि नैव स्वीकुर्वन्ति तथापि प्रतिज्ञाहेतूदाहरणनीति त्रीण्येव वाक्यानि परार्थानुमाने प्रतीपदयन्ति । मीमांसायाम् उपमानमपि भिन्नमस्ति । तथाहि तत्र उपमितिः आप्तवाक्यस्य स्मरणपूर्विका भवति, दृष्टव्स्तुनः सादृश्यात् स्मृतवस्तुनः सादृश्यमनुमाय पदार्थज्ञानमत्र विधीयते अतः मीमांसोक्ते उपमानप्रमाणे शब्दानुमानयोइपि संयोगोरस्ति ।
मीमांसादर्शने शब्दप्रमाणस्यापि महत्त्वमस्ति । वाक्येन शब्दप्रमाणेन वा प्रायेण वेदवाक्यानि गृहीतानि सन्ति, किन्तु लौकिकवाक्यान्यपि आप्तेन कथितानि चेत् तेषां प्रामाण्यं स्वीक्रियते । मीमांसादर्शने वाक्यं द्विधा प्रतिपादितम् सिद्धार्थकं विधायकं चेति । वेदेषु उपनिषद्वाक्यानि सिद्धार्थकानि सन्ति यानि च ब्रह्मणः स्वरुपादेः प्रतिपादकानि वर्तन्ते । अपराणि विधायकानि विधिवाक्यानि ब्राह्मणादिषूक्तानि सन्ति । तानि विधिवाक्यानि विनियोगवाक्यरुपेणापि प्राप्यन्ते । तानि सर्वाणि प्रमाणम् ।
मीमांसामतानुसारेण वेदप्रतिपादितं वस्तु कर्मरुपमस्ति न तु ज्ञानरुपम् यतो हि मीमांसादर्शने ज्ञानबोधकानां वाक्यानां तात्पर्यमपि विधिबोधकत्वमेवाभिमतम् । विहि तकर्माणि धर्मरुपाणि सन्ति, धर्मस्य प्रतिपादनां च मीमांसाया मूलभूतम् उद्देश्यं वर्तते । धर्मस्य विशेषता इयमस्ति यत् वेदविहितत्वात् तेषां प्रामाण्यं स्वीक्रियते । एवं चेत् वेदानां स्वतः प्रामाण्यम् अस्ति। वेदानां प्रामाण्यस्य प्रतिपादनमपि मीमांसायाः मुख्यं लक्ष्यमस्ति ।
मीमांसोक्तमतेन वेदाः नित्याः सन्ति । नित्यत्वादेव ते अपौरुषेयाः सन्ति अर्थात् वेदाः कस्यापि पुरुषस्य कृतिर्नास्ति । ऋषिभिः ऋचां दर्शनं कृतं, अतस्ते वेदानां रचयितारो न वर्तन्ते, ते केवलं मन्त्रदृष्टारः सन्ति । मीमांसामते वेदानां कर्त्ता ईश्चरो नास्ति । वेदे लोके च आप्तत्वात् शब्दप्रामाण्यमस्ति । शब्दो नित्यो वर्तते । शब्दोच्चारणं शब्दोत्पत्तिर्नास्ति । यतोहि उच्चारणात् पूर्व शब्दो विद्यमान आसीत् । यदि शब्दोऽनित्यः स्यात् तदा उच्चारणभेदेन तस्यानेकानि रुपाणि स्युः, किन्तु एकस्य शब्दस्य एकमेव कारणं भवति । शब्दस्य अर्थेन सह सम्बन्धोऽपि स्वाभाविक एवास्ति, कृत्रिमो नास्ति । अयमेवापौरुषेयो वेदो धर्मे प्रमाणम् अस्ति ।
मीमांसकानाम् अवधारणा वर्तते यत् वेदस्य विषयः पञ्चधा वर्तते-विधिवाक्यानि, मन्त्रवाक्यानि, फलवाक्यानि, अर्थवादवाक्यानि, निषेधवाक्यानि चेति । क्रियाप्रवर्तकानि वाक्यानि विधिवाक्यानि सन्ति । मंत्रवाक्यानि यज्ञानुष्ठानेऽर्थस्मरणकारीणि भवन्ति । यज्ञानां नामानि फलवाक्यानि नामधेयानि सन्ति । निषिद्धकर्मभ्यो निवर्तकानि निषेधवाक्यानि जायन्ते पदर्थानां गुणदोषविवेचनपूर्वकं स्तुतिनिन्दापरकानि वाक्यानि अर्थवादवाक्यानि कथ्यन्ते । विधिविचारो मीमांसायाः मुख्यविषयो वर्तते । विधि श्चतुर्धाऽभिमता –
#[[उत्पत्तिविधिः]]
#[[विनियोगविधिः]]
#[[अधिकारविधिः]]
#[[प्रयोगविधिश्च]]
 
कर्मणः स्वरुपस्य प्रतिपादयित्री विधिः उत्पत्तिविधिरस्ति । अङ्गभूतानां प्रधान भूतानां च प्रज्ञानां सम्बन्धबोधकानि वाक्यानि विनियोगविधिरस्ति । कर्मोत्पन्नफलस्य स्वामित्वं या प्रतिपादयति सा अधिकारविधिर्भवति । प्रयोगस्य शीघ्रतां या व्यनक्ति सा प्रयोगविधि कथ्यते ।
===अर्थापत्तिः===
कस्याप्यर्थस्य अन्यार्थं विना सिद्धौ असति तस्य सिद्धये पदार्थान्तरस्य कल्पना अर्थापत्तिर्भवति । यथा ‘पीनो देवदत्तो दिवा न भुक्ते, इत्यादौ भोजनाभावे पीनत्वं सिद्ध नास्ति । अत्र दिवाभाजनस्य अभावोऽस्ति, पीनत्वसिद्धये तदतिरिक्तस्य रात्रिभोजनस्य कल्पनाक्रियते । इदमेवार्यापत्तिप्रमाणम् । प्रत्यक्षानुमानशब्देस्वस्यान्तर्भावोऽसम्भ्व आसीत् अतः स्वतंत्रप्रमाणरुपेणेदं स्वीकृतम् । अर्थापत्तिर द्विधा प्रतिपादिता श्रुतार्थापत्तिः दृष्टार्थापत्तिश्च ।
===अनुपलब्धिः===
अभावपदार्थस्य ज्ञापकं प्रमाणम् अनुपलब्धिर्भवति । यथा ‘इह भूतले घटोनास्ति’ ।
मीमांसायां प्रमाणानां स्वतः प्रामाण्यं स्वीकृतमस्ति, अर्थात ज्ञानस्य प्रामाणिकतां निर्धारयितुं ज्ञातेतरस्य कस्यापि साधनस्य आवश्यकता नास्ति । ज्ञानं प्रमाण्येन सहैव आविर्भूतं भवति । अतः मीमांसायां ज्ञानस्य स्वतः प्रामाण्यमेवाभीष्टम् अस्ति । दृष्टिकोणस्य भेदात् भ्रमज्ञानमुत्पद्यते । यथा ‘इदं रचतम्’ इत्यादौ ‘इदं’ पदेन प्रत्यक्षदृष्टस्य पदार्थस्य ‘रजतम्’ इत्यनेन अनुमितमात्रस्य पदार्थास्य ‘रजतम्’ इत्यनेन अनुमितमात्रस्य पदार्थान्तरस्य भेदकत्वं न प्रतीयते, दृष्टिभेदात् रजतस्य मिथ्याप्रतीतिर्जायते । इयमेव अख्यातिरस्ति ।
 
==प्रमेयतत्त्वसमीक्षा==
मीमांसादर्शने पदार्थानां निर्धारणसम्बन्धे ऎकमत्यं नास्ति । कुमारिलभट्टाः केवलं पञ्चैव पदार्था इति स्वीकुर्वन्ति-द्रव्यम्, गुणः,कर्म, सामान्यम्,अभावश्च । द्रव्याण्यपि भट्टमते एकादश सन्ति । नवद्रव्यातिरिक्तं तमसः शब्दस्य चापि द्रव्यत्वं तेन प्रतिपादितम् । प्रभाकरः अष्टौ पदार्थान् स्वीकरोति । तन्मतानुसारेण अष्टौ पदार्था एवमुक्ताः –द्रव्यं, गुणः, कर्म, सामान्यम्, परतन्त्रता, शक्तिः सादृश्यं, संख्या चेति । एषु परतन्त्रता समवायस्यैव रुपान्तरमस्ति शक्तिसादृश्ययोः पदार्थतत्वं नूतनपरिकल्पनाऽस्ति । मुरारिमिश्राः चतुरः पदार्थान् स्वीकरोति । तन्मते चत्वारः पदार्था एवं प्रकारेण ग्राह्याः –धर्मिविशेषः, धर्मविशेषः, आधारविशेषः, प्रदेशविशेषश्च ।
जगतः सम्बन्धे मीमांसकविचारणा पृथगेवास्ति । जगत् तस्मिन्नेव रुपे सत्यमस्ति, यस्मिन् रुपे तत् अस्माकं ज्ञानेन्द्रियाणां विषयो भवति । संसारः शरीन्द्रियविषयरुपोऽस्ति अथवा भोगायतन- भोगसाधन-योग्या दिरुपेण संसारस्य अवस्थितिर्विद्यते । जगत् अनादि अनन्तं चास्ति । केषांचन मीमांसकानां दृष्टौ जगतो मूलं परमाणुरस्ति । कृतकर्मणाम अपूर्वस्य फलोन्मुखे सति अणुसंयोगात् जगत् उत्पद्यते । मीमांसकमते परमाणुः प्रत्यक्षदृष्टं सूक्ष्मकणं विद्यते न तु नैयायिकमते यथा अलौकिकप्रत्यक्षस्य विषयः । एवं मीमांसायाः सृष्टिक्रमः स्थूलोऽस्ति किन्तु य परमाणुवादं न स्वीकुर्वन्ति, तेषां दृष्टौ जगत् उत्पत्तिविनाशाभ्यां रहितं नित्यतत्त्वमस्ति अतः मीमांसकमते जगतः विनाशो न भवति ।
शक्ति सिद्धान्तोऽपि मीमांसकानां स्वतन्त्रकल्पनाऽस्ति । तदनुसारं कार्यस्योपादाने शक्तिनामकं पदार्थो विद्यते यस्य सदभावाद् एव कार्योत्पत्तिर्भवति, अन्यथा वह्नौ दाहकत्वशक्तेरभावे यथा स्वरुपमात्रेण दाहकत्वं न सम्भवति । यथा वा चन्द्रकान्तो मणिः वह्नेर्दा हिकत्वाभावात् स्वरुपतः वह्निमान् अपितु दाहकत्वरहितो भवति । इतरदार्शनिकैरस्य मतस्य पूर्णतया खण्डनं कृतम् ।
==आत्मविचारः==
आत्मैव कर्म कर्त्ता भोक्ता चास्ति । ज्ञान-इच्छा-सुख-दुःख –प्रयत्नादि विशेषगुणानाम् अधिकरणम् आत्मैवास्ति । अयं आत्मा व्यापकोऽपि प्रतिशरीरं भिन्नोऽस्ति । मीमांसका आत्मनि परिमाणरुपिणं कर्मस्वीकुर्वन्ति । अस्मिन् मते आत्मा जडो बोधात्मकश्चास्ति । यतो हि स्वप्ने आत्मनो विषयैः सह सम्पर्कस्य अभावात् आत्मनि चैतन्यस्याप्यभावो भवति किन्तु इन्द्रियार्थसन्निकर्षे सति चैतन्यमाविर्भवति ।
आत्मनो ज्ञानम् आत्मसंवित्तिद्वारा जायते इति कुमारिलभट्टस्य मतमस्ति । एतदनुसारं आत्मा ज्ञानस्य कर्त्ता कर्म च युगपद भवति । प्रभाकर इदं न स्वीकरोति । प्रभाकरमतेन प्रत्येकं वस्तुज्ञाने तेनैव ज्ञानेन आत्मज्ञानमपि कर्तृरुपे प्रकाशितं भवति । आत्मैव अहंप्रत्ययस्य विषयो वर्तते ।
==कर्ममीमांसा==
धर्मतत्त्वस्य व्याख्या मीमांसाया मुख्यो विषयः वर्तते । अतएव कस्यापि प्रयोजनविशेषस्य कृते वेदप्रतिपादितः यागादि धर्म एव कर्म कथ्यते । इष्टसाधनताया ज्ञानेनैव धर्मे प्रवृत्तिर्भवति, किन्तु प्रभाकरमते यज्ञयागादीनि अनुष्ठानानि कर्त्तव्यत्वेन विहितानि सन्ति, न तु इष्टसाधनतया । एवं कुमारिलभतात् प्रभाकरमतस्य भेदो वर्तते तथापि प्रभाकरस्य वैचारिकः पक्षः समुचितः प्रतिभाति । तदनुसारेण कर्मानुष्ठानं निष्कामकर्मणो दृष्टिकोणेनैव अनुष्ठेयम् ।
अनेन निष्कामेन सकामेन वा कर्मणा ‘अपूर्व’ पदार्थस्योत्पत्तिर्भवति । वस्तुतो वेदविहितस्य कर्मणः सम्पादनमेव मानवजीवनस्योद्देश्यमस्ति । अस्मादुत्पन्नम् अपूर्वमेव स्वर्गस्य प्रापकमस्ति । अर्थात् निष्कामधर्माचरणेन आत्मज्ञानेन च प्राणिनां सञ्चितकर्माणि नश्यन्ति । येन जननमरणयोः क्रमोऽवरुध्यते, जीवश्च शाश्वतसुखे लीनो भवति ।
==मीमांसादर्शने ईश्वरविचारः==
यद्यपि मीमांसादर्शने ईश्वरतत्त्वम् अभिष्टं नास्ति, तथापि कर्मफलदायकं किमपि अचेतनं तत्त्वं न भवितुं शक्नोति । स्वर्गादिफलानां प्रदाता तु यज्ञोऽस्ति । तथापि यज्ञपतिरुपेण ईश्वरः स्वीकर्त्तुं शक्यते । अतएव अर्थसंग्रहकारः मोक्षावस्थायां –‘कर्मफलाभावो तदैव भवति यदा कर्मफलसमर्पणं भवेत्’ इति श्रुत्यर्थमगवत्य सर्वकर्मफलानाम् ईश्वराय समर्पणनैव मोक्षो भवतीति उल्लेखं कृतवान् । ‘सेश्वरमीमांसा’ नामकस्य ग्रन्थस्यापि इदमेवोद्देश्यमस्ति । प्रभाकरविजयेऽपि स्पष्टरुपेण ईश्वरोऽभिमतः । तथापि मीमांसकानाम् ईश्वर्ः श्रुतिसिद्धौ वर्तते, न तु अनुमानसिद्धः ।
==मीमांसादर्शने मोक्षविचारः==
मीमांसादर्शने जगता सह आत्मनः सम्बन्धस्य नाशः मोक्षोऽभिमतः । अस्य मतस्यानुसारेण आत्मा शरीरेण युक्तो भूत्वा एव बाह्यविषयाणाम् उपभोगं करोति । अनेन सम्बन्धेन आत्मा संसारसमुद्रे निमग्नोऽस्ति । अतएव भोगायतनं शरीरं भोगसाधनम् इन्द्रियं भोगविषयाः पदार्थश्च अभिमताः । एभिस्रिभिः आत्मनः आत्यन्तिकम् एकान्तिकं वा सम्बन्धविच्छेद एव मोक्षोऽस्ति । मीमांसकमते आत्मनि चैतन्यं स्वाभाविकं नास्ति । मोक्षस्य प्रारंभिककाले सुखदुः खादीनां पूर्णविनाशो जायते स चात्मा स्वविशुद्धस्वरुपेऽवतिष्ठति ।
निवृत्तिमूलकतायां स्वीकृतायामपि मीमांसकमते मोक्षप्राप्त्यर्थं नित्यनैमित्तिकम् अनुष्ठानम् अपेक्षितमस्ति । काम्य-निषिद्ध-कर्मणां अनुष्ठानं मोक्षस्य साधनं नास्ति । नित्यनैमित्तिक कर्मणं सम्पादनेन सह आत्मज्ञानरुपि सहकारि कारणमेव मोक्षस्य प्रधानं साधनं वर्तते । एवं मीमांसा कर्त्तव्यशास्त्रस्य दृष्टिकोणेन ज्ञानकर्ममसुच्चयस्य पक्षपातिनी अस्ति ।
[[वर्गः:हिन्दू धर्म]]
[[वर्गः:मीमांसादर्शनम्]]
[[en:Mimāṃsā]]
[[cs:Mímánsá]]
[[de:Purva Mimamsa]]
[[es:Mimamsá]]
[[fr:Mîmâmsâ]]
[[ko:미맘사 학파]]
[[hi:मीमांसा दर्शन]]
[[id:Mimamsa]]
[[it:Mimamsa]]
[[lt:Mimansa]]
[[nl:Mimamsa]]
[[ne:मीमांसा]]
[[ja:ミーマーンサー学派]]
[[no:Mīmāṃsā]]
[[pl:Mimansa]]
[[ru:Миманса]]
[[sa:पूर्व-मीमांसा]]
[[sk:Mímánsa]]
[[fi:Mimamsa]]
[[uk:Міманса]]
"https://sa.wikipedia.org/wiki/मीमांसादर्शनम्" इत्यस्माद् प्रतिप्राप्तम्