"लाल कृष्ण आडवाणी" इत्यस्य संस्करणे भेदः
Content deleted Content added
No edit summary |
No edit summary |
||
पङ्क्तिः ७:
अड्वानी भारतीयजनसङ्घ्स्य सदस्यः अभवत् । एषः सङ्घः [[श्यामप्रसादमुखर्जी|श्यामप्रसादमुखर्जिना]] १९५१ तमे वर्षे आरब्धः। सः तस्मिन् पक्षे विविधपदेषु कार्यं कृत्वा १९७५ तमे वर्षे पक्षस्य अध्यक्षः अभवत् ।यदा [[जयप्रकाशनारायणः]] ’विरोधपक्षाः यावत् एकीभूय कार्यं न कुर्वन्ति तावत् अपत्कालिकां स्थितिं विरुध्य कार्यं न करोमि इति उद्घुष्टवान् तदा जनसङ्घादयः विरोधपक्षाः एकीभूताः। जनसङ्घघपक्षस्य विसर्जनेन अड्वानी तथा सहोद्योगी अटलबिहारी वाजपेयी च [[जनतापक्षः|जनतापक्षम्]] आगत्य १९७७ तमे वर्षे निर्वाचने भागं स्वीकृतवन्तौ ।
==जनतापक्षः==
जनतापक्षः अनेकपक्षाणां नेतृभिः कार्यकर्तृभिः च सम्भूय निर्मिता वेदिका । ते सर्वे एकीभूय १९७५ तमे वर्षे तदानीन्तनप्रधानमन्त्रिणा [[
यदा १९७७ तमे वर्षे निर्वाचनम् उद्घोषितम् अभवत् तदा ,[[कांग्रेस् (ओ)]], [[स्वतन्त्रपक्षाः]], [[भारतीयसमाजवादीपक्षः]], [[भारतीयजनसङ्घः]], [[लोकदलं]] च मिलित्वा, [[जनतापक्षः]] इति नाम्ना नूतनं पक्षम् आरब्धवन्तः। [[जगज्जीवनरामः]] अपि कांग्रेसपक्षतः बहिरागत्य, [[कांग्रेस् फ़ार् डेमोक्रसि]] इति, पक्षं संस्थाप्य, जनतापक्षस्य आश्रयम् आगतवान् । आपत्कालिकीं स्थितिं विरुध्य जनाः निर्वाचने जनतापक्षं प्रति स्वमतदानेन अधिकारारूढं कृतवन्तः । [[मोरार्जी देसायी]] भारतस्य प्रधानमन्त्री अभवत् । अड्वानी तदा सूचना तथा प्रसारणविभागस्य सचिवः अभवत् । तस्य परममित्रं जनसङ्घस्य सहोद्योगी , [[अटलबिहारी वाजपेयी]] [[विदेशाङ्गसचिवः]] अभवत् ।
जनतापक्षस्य जन्म एव तदीयस्य विनाशे बिजाङ्कुरः इव अभवत् । मिथः अविश्वासः च सर्वकारस्य पतने हेतू अभवताम् । द्विसदस्यता एव कलहे प्रमुखं कारणं सञ्जातम्। जनसङ्घतः ये आगताः, ते राष्ट्रियस्वयंसेवकसङ्गस्य सदस्यत्वं त्यजेयुः इति वादः प्रादुरभवत्।
पङ्क्तिः १६:
सः क्रमेण पक्षस्य सिद्धान्तेषु हिन्दुत्वपोषकांशान् संयोजितवान् । तेन फलमपि प्राप्तवान् । वित्तसचिवस्य विश्वनाथप्रतापसिंहस्य कांग्रेसपक्षतः बहिरागमनं लाभकारि अभवत्। १९८९ तमे निर्वाचने [[वी.पी.सिंहः|वी.पी.सिंहस्य]] जनतादलस्य तथा भारतीयजनतापक्षस्य च स्थितिः उत्तमा अभवत् । यद्यपि कांग्रेस् पक्षः एकाकिना अधिकसदस्ययुतः अभवत् तथापि सः पक्षः विरोधपक्षत्वेन कार्यं कर्तुं सिद्धः अभवत्। [[वी.पी. सिंहः]] अनेकमित्रपक्षाणां सहयोगेन प्रधानी अभवत्। भारतीयजनतापक्षःसर्वकारतः बहिः स्थित्वा एव तस्य समर्थनम् अकरोत्।
१९८९ तमे वर्षे भारतीयजनतापक्षः अड्वानीनायकत्वे रामजन्मभूमिरिति नूतनं विषयं स्वीकृत्य देशे आन्दोलनम् आरभत। । भा.ज.पक्षः बाब्रीमस्जिद् यत्र अस्ति तत्रैव रामालयस्य स्थापनं भावेत् इति निर्धारम् अकरोत् । [[भारतीयपुरातत्त्वविभागः|भारतीयपुरातत्त्वविभागस्य]] आशयः यत् तत्र एव राममन्दिरम् आसीत् यत्र इदानीं [[बाबरीमस्जिद्]] अस्ति इति। १५२८ तमे वर्षे यदा बाबरः आक्रमणं कृतवान् तस्मात् पूर्वं तत्र देवालयः आसीत्। केन्द्रीय सुन्निमण्डली विभागस्य वादं निराकरोत्, ५० पादमिते तले खननं न अभवत् एव। राजकीयपरिहारस्य अभावे, कश्चन हिन्दुगणः तस्य विवादितस्य भवनस्य नाशम् अकरोत् । एतेन हिन्दूमुस्लिम् जनानां मध्ये वैषम्यं प्रादुरभवत् ।
अड्वानी रथयात्राप्रसङ्गेन करसेवकान् सर्वान् बाबरीमस्जिद् स्थाने प्रार्थनां कर्तुम् आहूतवान् । एषा रथयात्रा वातानुकूलितवाहनेन अभवत् , यच्च वाहनं रथसदृशं कल्पितम् आसीत् ।गुजरात्राज्यस्य [[
भाजपक्षस्य स्थितिः विशेषतः उत्तरभारते उत्तमा अभवत् । एतेन ध्रुवीकरणेन उच्चजातीयजनानां मतानि भा.ज.पक्षं प्रति आगतानि । ये च उच्चजातीयाः आसन् ते मण्डल् आयोगस्य कारणतः कांग्रेस्पक्षः विमुखाः आसन् ।१९९१ तमे निर्वाचने भारतीयजनतापक्षः सदस्यसंख्यया द्वितीयं स्थानं प्राप्नोत् । [[कांग्रेस् पक्षः]] प्रथमं स्थानम् अलभत ।
रथयात्रायाः वर्षद्वयानन्तरं,१९९२ तमे वर्षे ,कल्य़ाणसिंहस्य नेतृत्वे वर्तमानः भा.ज.पक्षस्य सर्वकारः उच्चन्यायालये यद्यपि बाब्रीरक्षणार्थं कृतप्रमाणः, आसीत् तथापि बाबरी विनाशे कारणमभवत् । कल्याणसिंहस्य सर्वकारः एतदर्थं साहाय्यमकरोत् । बाबरीमस्जिद् विनाशे अड्वानी दोषिश्वन्यतमः इति।
भा.ज.पक्षः, अड्वानीनायकत्वे १९९१ तः आरभ्य १९९६ पर्यन्तं विरोधपक्षत्वेन कार्यम् अकरोत्, यदा [[पी
एन्.डि. ए. सर्वकारस्य स्थापानम्
१९९६ सार्वत्रिक निर्वाचने बाजप एकः एव पक्षः अधिकसंख्ययायुतः आसीत् ॥ राष्ट्रपतिना सर्वकारस्य घटनार्थं आहूतः। [[अटलबिहारी वाजपेयी] देशस्य प्रधानी अभवत् । परन्तु बहुकालं शासनं कर्तुम् असमर्थः। १३ मासानन्तरं वाजपेयी त्यागपत्रं दत्तवान् वर्षद्वयानन्तरम्, राजकीयवनवासेन बहिरागतः भाजपः एन्.डि.ए नेतृत्वे पुनः अधिकारग्रहणम् अकरोत् ।१९९८ तमे वर्षे वाजपेयी पुनः प्रधानमन्त्रिपदे नियुक्तः ।
[[
आड्वानी हवालाद्वारा धनं स्वीकृतवान् इति आरोपः अभवत्। उच्चन्यायालयेन एषः आरोपः तिरस्कृतः। सि.बि.ऐ अपि एतदर्थं साक्ष्यं न प्राप्नोत् ।
तथापि सः अपराधित्वेन न परिगणितः इति सि.बि.ऐ निन्दनम् अभवत् सर्वत्र । केचन उक्तवन्तः एतेन भा.ज.पक्षः उन्नतस्थितिम् एव प्राप्नोत् इति । अन्ये केचन उक्तवन्तः एतत् केवलराजकीयप्रेरितम् इति ।
|