"लाल कृष्ण आडवाणी" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १६:
सः क्रमेण पक्षस्य सिद्धान्तेषु हिन्दुत्वपोषकांशान् संयोजितवान् । तेन फलमपि प्राप्तवान् । वित्तसचिवस्य विश्वनाथप्रतापसिंहस्य कांग्रेसपक्षतः बहिरागमनं लाभकारि अभवत्। १९८९ तमे निर्वाचने [[वी.पी.सिंहः|वी.पी.सिंहस्य]] जनतादलस्य तथा भारतीयजनतापक्षस्य च स्थितिः उत्तमा अभवत् । यद्यपि कांग्रेस् पक्षः एकाकिना अधिकसदस्ययुतः अभवत् तथापि सः पक्षः विरोधपक्षत्वेन कार्यं कर्तुं सिद्धः अभवत्। [[वी.पी. सिंहः]] अनेकमित्रपक्षाणां सहयोगेन प्रधानी अभवत्। भारतीयजनतापक्षःसर्वकारतः बहिः स्थित्वा एव तस्य समर्थनम् अकरोत्।
१९८९ तमे वर्षे भारतीयजनतापक्षः अड्वानीनायकत्वे रामजन्मभूमिरिति नूतनं विषयं स्वीकृत्य देशे आन्दोलनम् आरभत। । भा.ज.पक्षः बाब्रीमस्जिद् यत्र अस्ति तत्रैव रामालयस्य स्थापनं भावेत् इति निर्धारम् अकरोत् । [[भारतीयपुरातत्त्वविभागः|भारतीयपुरातत्त्वविभागस्य]] आशयः यत् तत्र एव राममन्दिरम् आसीत् यत्र इदानीं [[बाबरीमस्जिद्]] अस्ति इति। १५२८ तमे वर्षे यदा बाबरः आक्रमणं कृतवान् तस्मात् पूर्वं तत्र देवालयः आसीत्। केन्द्रीय सुन्निमण्डली विभागस्य वादं निराकरोत्, ५० पादमिते तले खननं न अभवत् एव। राजकीयपरिहारस्य अभावे, कश्चन हिन्दुगणः तस्य विवादितस्य भवनस्य नाशम् अकरोत् । एतेन हिन्दूमुस्लिम् जनानां मध्ये वैषम्यं प्रादुरभवत् ।
अड्वानी रथयात्राप्रसङ्गेन करसेवकान् सर्वान् बाबरीमस्जिद् स्थाने प्रार्थनां कर्तुम् आहूतवान् । एषा रथयात्रा वातानुकूलितवाहनेन अभवत् , यच्च वाहनं रथसदृशं कल्पितम् आसीत् ।गुजरात्राज्यस्य [[सोमनाथः|सोमनाथदेवालयतः]] आरब्धा यात्रा उत्तरभारते बहून् प्रदेशान् अगच्छत् । परन्तु [[बिहारराज्ज्यम्बिहारम्|बिहारराज्ये]] मुख्यमन्त्रिणा लालूप्रसादेन एषा यात्रा स्थगिता । तदा अड्वानीबन्धनम् अभवत् । तदा मतीयवैषम्यस्य कारणात् बहवः मारिताः।
भाजपक्षस्य स्थितिः विशेषतः उत्तरभारते उत्तमा अभवत् । एतेन ध्रुवीकरणेन उच्चजातीयजनानां मतानि भा.ज.पक्षं प्रति आगतानि । ये च उच्चजातीयाः आसन् ते मण्डल् आयोगस्य कारणतः कांग्रेस्पक्षः विमुखाः आसन् ।१९९१ तमे निर्वाचने भारतीयजनतापक्षः सदस्यसंख्यया द्वितीयं स्थानं प्राप्नोत् । [[कांग्रेस् पक्षः]] प्रथमं स्थानम् अलभत ।
रथयात्रायाः वर्षद्वयानन्तरं,१९९२ तमे वर्षे ,कल्य़ाणसिंहस्य नेतृत्वे वर्तमानः भा.ज.पक्षस्य सर्वकारः उच्चन्यायालये यद्यपि बाब्रीरक्षणार्थं कृतप्रमाणः, आसीत् तथापि बाबरी विनाशे कारणमभवत् । कल्याणसिंहस्य सर्वकारः एतदर्थं साहाय्यमकरोत् । बाबरीमस्जिद् विनाशे अड्वानी दोषिश्वन्यतमः इति।
"https://sa.wikipedia.org/wiki/लाल_कृष्ण_आडवाणी" इत्यस्माद् प्रतिप्राप्तम्