"वेदान्तः" इत्यस्य संस्करणे भेदः

(लघु)No edit summary
No edit summary
पङ्क्तिः १:
[[File:Aum calligraphy Red.svg|thumb|ॐ]]
वेदान्तदर्शनम् अथवा उत्तरमीमांसा मुख्यतः उपनिषदां तत्त्वज्ञानं प्रतिपादयति । जगत् प्रतिक्षणं परिवर्तनशीलम् अस्ति । तस्य आधारभूतं यथार्थतत्त्वं ब्रह्मास्ति । ब्रह्म अखण्डम् एकरसम् अद्वैतं च वर्तते । प्रत्येकस्य प्राणिनः अन्तरात्मनि तस्य निवासोऽस्ति तदेव विश्वस्य निमित्तम् उपादानं च कारणं वर्तते । इदं मुख्यं सिद्धान्तम आधारीकृत्यैव महर्षिणा बादरायणेन ब्रह्मसूत्रस्य रचना कृता । ब्रह्मसूत्राणि उपनिषदां वाक्यार्थानां संगत्या सह उदात्तदार्शनिकविचारान् प्रस्तुवन्ति ।
Line ६८ ⟶ ६९:
(२) आध्यात्मिकम्- अक्षरं ब्रह्म
(३) आधिभौतिकम्- दृश्यमाणं जगत्
 
कार्यकारणयोः वस्तुतो भेदाभावात् कार्यरुपं जगत् कारणरुपाद् ब्रह्मणो भिन्नो नास्ति । इदमेव यथार्थं सत् वर्तते । यथा वेल्लितं वस्त्रं आस्तीर्णमपि तदेव भवति तथैव आविर्भावदशायां जगत्, तिरोभावस्वरुपे ब्रह्म च एकस्या एव सत्तायाः बोधकौ स्तः । जगतः आविर्भावस्तु तस्य ब्रह्मणो लीलामात्रम् अस्ति । ब्रह्म स्वेच्छया जगतः पालनं सहारं च करोति । अत्रापि ब्रह्मणो लीलैव एकमात्रं कारणं वर्तते । अस्मदेव कारणात् ब्रह्मारुपतया सदैव ब्रह्मापि नित्यमस्ति । अद्वैतवेदान्तिभिरिवान्यैरस्मदादिभिः जगत् मायिकं असत्यं वा नैवाभिमन्तुं शक्यते ।
"https://sa.wikipedia.org/wiki/वेदान्तः" इत्यस्माद् प्रतिप्राप्तम्