"वेदान्तः" इत्यस्य संस्करणे भेदः

No edit summary
(लघु)No edit summary
पङ्क्तिः ४६:
ब्रह्माणं कथं आवृणोतुं क्षमते । सा कथं सृष्टिञ्चापि कर्त्तुं क्षमते । सृष्टौ यत्किञ्चिदपि दृश्यमाणं भवति तद् ब्रह्म जीवजगतोर्मध्ये विद्यमानं स्वगतं स्वजातीयं विजातीयं च भेदमात्रं वर्तते । ब्रह्मण इच्छाशक्त्या सक्रियं सृष्टिचक्रं अविद्या कथमात्मनोऽनुकूलं ब्रह्मणः प्रतिकूलं च कर्तुं शक्नोति । प्रलये एकमात्रं ब्रह्मैव अवशिष्यते । प्रकृतिः तस्मिन्नेव अव्यक्तभावेन सुप्ता भवति । एवं चेत् ब्रह्म जीव-प्रकृतीनां पार्थक्यं नैव आभासते । इयमेव तस्य ब्रह्मणः कारणावस्था । कल्पान्ते सृष्टिरचनाकाले तस्य कार्यावस्था भवति । कार्यावस्थायां तद् ब्रह्म नानाभावेन नामरुपात्मकं भवति ।
विशिष्टाद्वैरमते ब्रह्म ईश्वरात् पृथक् न मन्यते । अत्र ब्रह्म चैतन्यमात्रमपि नास्ति । अस्मिन् ज्ञानं शक्तिः बलम् ऎश्वर्यं वीर्यं वात्सल्यं माधुर्यं च वर्तन्ते । ब्रह्मैव निमित्तं उपादानं च कारणमस्ति । जीवः स्वयं ब्रह्मरुपो भवति, किन्तु स आत्मनो ब्रह्मत्वज्ञानरहितो भवति । अयमेव विशिष्टाद्वैतमतस्य सारः ।
[[File:Mandukya.jpg|thumb|left|220px]]
द्वैताद्वैतवादः-रामानुजमतमिव निम्बार्कमतेऽपि त्रीणि परमतत्त्वानि स्वीकृतानि-चित्तत्वम्, अचित तत्त्वम्, ईश्वर तत्त्वं च । चित्तस्य तात्पर्यं जीवेनैवास्ति । तत् च ज्ञानस्वरुपं । ज्ञानमयत्वाज्जीवो भोक्ताऽपि वर्तते । ज्ञानमस्य आश्रयो ज्ञाता चेति उभयरुपतामपि स आदत्ते । तस्य स्वरुपं ज्ञातव्यम् अस्ति । इन्द्रियाणां साहाय्यं विना जीवो विषयस्य ज्ञानं प्राप्तुम् अक्षयो भवति । जीवस्य एककाले ज्ञानरुपता ज्ञानाश्रयता च तथैव सिद्धा यथा सूर्यः स्वयं प्रकाशरुपोऽपि प्रकाशस्याश्रयो भवति । जीवस्य ज्ञानमपि द्विधा भवति-स्वरुपगतम् गुणगतं चेति । यद्यपि अभयोः प्रकारयोः ज्ञानाकारत्वेन अभिन्नता अस्ति तथापि धर्मधर्मिभाववशात् भिन्नताऽपि भासते ।
जीवः केवलं भोक्ता नास्ति सः स्वयं कर्त्तापि वर्तते । यतोहि कर्त्तव्यं विना भोक्तृत्वस्य सिद्धिर्न भवति । निम्बार्कमतानुसारेणा जीवः प्रत्येकदशायां कर्त्ता भवति । संसारिणि जीवे कर्त्तृत्वम् अनुभवसिद्धं भवति किन्तु मुक्तजीवे कर्त्तृत्वं संस्कारवशात् संभवति । “मुमुक्षर्ब्रह्मोपासीत्”। “शान्त उपासीत्” इत्यादि श्रुतिवचनानुसारेण जीवस्य मुक्तावस्थायामपि उपासनायाः क्रियारुपता सिद्यति । अचित जडं जगत् चास्ति, तस्य सृष्टिकर्त्री प्रकृतिरस्ति । कर्त्तृत्वाभिमानी आत्मा प्रकृतिगुणैः विमूढो भूत्वा जीवः सांसारिकतां प्रति प्रेरयति । इन्द्रियाधीशत्वाज्जीवः इन्द्रियाणां विषयान् भुंक्ते । जीवजगतोर्मध्ये इन्द्रियाणि कारणमात्राणि वर्तन्ते । यानि जगद्रूपिणि कर्मक्षेत्रे जीवं कर्त्तृत्वभोक्तृत्वयोरधिष्ठतारं कुर्वन्ति ।
पङ्क्तिः ६०:
गुणेषु वैशेषिकोक्तेभ्यः चतुर्विंशतिगुणेभ्योऽतिरिक्तं शम-दम कृपा –तितिक्षासौन्दर्याणां गणनाऽपि कृता । कर्म त्रिविधम्ं निरुपितम् (१) विहितं कर्म (२) निषिद्धं कर्म (३) उदासीनं कर्म चेति । एषु उदासीनं कर्म परिस्पन्दात्मकम् अस्ति । यत्र उत्क्षेपणापक्षेपणयोरन्तर्भावो जायते । समान्यमपि द्विधा स्वीकृतम् –(१) नित्यानित्यभेदकम् (२) जात्युपाधिभेदकम् च । यः अभेदस्थितौ भेदव्यवहारस्य निर्वाहको भवति स विशेष इत्युच्यते । विशेषणेन संयुक्तः पदार्थो विशिष्टो भवति । अतएव नामरुपात्मकतया संसक्त् ईश्वरोऽपि विशिष्टो वर्तते । पदार्थः समग्ररुपेंऽशी उच्यते । शक्तिश्चतुर्धाऽस्ति –
(१) अचिन्त्या शक्तिः (२) आधेया शक्तिः (३) सहजा शक्तिः (४) पद्शक्तिश्च । अचिन्त्या शक्तिः अघटितघटनायां निहिता भवति । आधेया शक्तिः अन्याहिता भवति । सहज शक्तिः कार्ये स्वभावतो विद्यमाना भवति । पदशक्तिश्च पदार्थे वाच्यवाचकसम्बन्धेन तिष्ठति ।
 
माध्वमते साधनायाः पञ्च अवयवाः सन्ति –(१) श्रवणं (२) मननं (३) ध्यानं (४) तारतम्यं (२) ईश्वरस्य जडापेक्षया भेदः (३) जीवस्य जडापेक्षया भेदः (४) जीवानां पारस्परिको भेदः (५) जडपदार्थानां पारस्परिको भेदः । उक्तानां पञ्चविधभेदानां परिज्ञानमेव मुक्तेः साधकमस्ति ।
मध्वाचार्येण उपासनापि द्विविधा प्रतिपादिता-(१) सततशास्त्राभ्यासरुपा (२) ध्यानरुपा च । उपासनायोगः अधिकारिभेदात् स्वीकृतः अस्ति । भगवदविषयिणि अखण्डस्मृतिरेव ध्यानमस्ति । साधनायाः क्रमे सर्वप्रथमम् अपरोक्षज्ञानेन परमा भक्तिर्जायते, पत्पश्चात् परमानुग्रहो भवति, तदनन्तरं मोक्षस्य लाभः संभवति । मोक्षोऽपि चतुर्धा मतः –(१) कर्मक्षयरुपः (२) उत्क्रान्तिरुपः (३) अविरादिमार्गरुपः (४) भोगरुपः । एत एव क्रमशः सालोक्यं, सामीप्यं सारुप्यं, सायुज्यं उच्यन्ते ।
Line ८५ ⟶ ८६:
भगवच्चरणारविन्दयोर्भक्तिः मर्यादा भक्तिरस्ति किन्तु भगवन्मुखारविन्दस्य भक्तिः पुष्टिभक्तिः कथिता । मर्यादाभक्तौ फलाकांक्षा निगूढा भवति, किन्तु पुष्टिभक्तौ फलाकांक्षाया लेशोऽपि न भवति । मर्यादाभक्त्या सायुज्यं प्राप्यते, किन्तु पुष्टिभक्त्या ब्रह्मणोभेदताया याथार्थ्येन बोधो भवति । इदमेव पुष्टिमार्गस्य मूलभूतं रहस्यं भवति । भगवदनुग्रहस्य परिणामस्वरुपं स्व स्वरुपापत्तेः प्राप्तिरपि वल्लभमते मुक्तिरेवोद्दिष्टा ।
 
[[वर्गः:हिन्दूधर्मः]]
{{हिन्दू धर्म:}}
[[वर्गः:अद्वैतवेदान्तः]]
 
[[वर्गः:हिन्दु|वेदान्तआस्तिकदर्शनम्]]
[[esen:Vedanta]]
 
[[bg:Веданта]]
[[cs:Védánta]]
[[de:Vedanta]]
[[fies:Vedanta]]
[[eo:Vedanto]]
[[es:Vedanta]]
[[fi:Vedanta]]
[[fr:Védanta]]
[[heko:ודאנטה베단타 학파]]
[[hi:वेदान्त दर्शन]]
[[id:Wedanta]]
[[is:Vedanta]]
[[it:VedantaVedānta]]
[[he:ודאנטה]]
[[ja:ヴェーダーンタ学派]]
[[kn:ವೇದಾಂತ]]
[[ko:베단타 학파]]
[[lt:Vedanta]]
[[ml:വേദാന്തം]]
[[nl:Vedanta]]
[[ja:ヴェーダーンタ学派]]
[[no:Vedanta]]
[[pl:Wedanta]]
पङ्क्तिः ११२:
[[ru:Веданта]]
[[sr:Веданта]]
[[fi:Vedanta]]
[[sv:Vedanta]]
[[ta:வேதாந்தம்]]
"https://sa.wikipedia.org/wiki/वेदान्तः" इत्यस्माद् प्रतिप्राप्तम्