"वेदान्तः" इत्यस्य संस्करणे भेदः

(लघु)No edit summary
No edit summary
पङ्क्तिः ३:
वेदान्तमतानुसारं निःश्रेयस् परमप्रयोजनमस्ति । निः श्रेयसः तात्पर्यं वर्तते संसारात् अविद्यातो वा पृथग्भूय ब्रह्म सामीप्यस्य लाभः । एतत्कृते आत्मज्ञानं परमावश्यकम् अस्ति । अयमेव प्रवृत्तिलक्षणो धर्मः कथितः । यस्य ज्ञानं शुद्धमस्ति स एव निः श्रेयसः सान्निध्यं प्राप्नोति । अनेन सकलपुरुषार्थानां प्राप्तिर्भवति । संसारे यत्किमपि वर्तते तद् ब्रह्म परमात्मावैवास्ति, तदेव चैतन्यरुपे एकमात्रं ज्ञानमस्ति ।
 
ब्रह्म निर्गुणमस्ति किन्तु ज्ञानं तस्य स्वरुपं वर्तते । तस्य पूर्णता मायया जायते । माया एव जगदुत्पत्तेः कार्यं करोति । माया न सत् अस्ति, न चासत् एव वर्तते । इयं सदसद्विलक्षणा सत्तात्मिका चास्ति । माया ईश्वरस्य आज्ञया भेदं प्रकटयति परिणामतः नामरुपात्मकताया उदयो भवति । अनेन संसारः उत्पद्यते । माययैव वस्तुनः उपाधिः गृह्यते । यद्यपि ब्रह्म सर्वत्र व्याप्तमस्ति तथापि माययैव सर्वेषु पदार्थेषु ब्रह्मणः पृथक् पृथक् प्रतीतिर्जायते । जीवानाम् अनेकताया अपि इदमेव रहस्यमस्ति । प्रत्येकस्मिन् जीवे ब्रह्मैव सत्यमस्ति, यः भेदोऽस्ति सः मायाया एव परिणामो विद्यते ।
सांसारिकरुपे जीवा बहवः सन्ति, किन्तु तेषु अवस्थितं ब्रह्म एकमेवास्ति । अज्ञानी जीवो मायाया आवरणम् उच्छिद्य तद् स्प्रष्टुम असमर्थो भवति, अतः ब्रह्मणोऽदर्शनाम् जीवो मायाकृते अपाधौ मनसा रमते । शरीरे च सत् अन्विषति । मायाया आवरणप्रभावात् आत्मा सीमितः प्रतीयते । तस्य शक्तिज्ञानादीनि सर्वाणि कार्यजातानि सीमितानि भवन्ति । सः पापपुण्याभ्यां आबद्धो भवति तत्फलभोगाय च विवशो जायते । पूर्वजन्मनः कृत्यानां फलोपभोगं कुर्वाणो जीवः ईश्वरेच्छया कर्मफलान्यपि भुक्ते । इदं अनन्तम् अनादिचक्रम् अनवरतं सक्रियं भवति ।
उपनिषदां प्रतिपाद्यं वेदान्तमते विविधप्रकारेण समालोचितम् । अतएव वेदान्तस्य पञ्च सम्प्रदायाः प्रादुरभूवन्-
#[[आद्वैतवेदान्तः|शङ्कराचार्यस्य अद्वैतवादः]]
#[[विशिष्टाद्वैतवेदान्तः|रामानुजस्य विशिष्टाद्वैतवादः]]
Line २३ ⟶ २५:
माया ईश्वरस्य शक्तिविशेषो वर्तते । सा त्रिगुणात्मिका प्रकृतिरेवास्ति । तस्याः शुद्धं सत्त्वं च रुपं ब्रह्मास्ति । जीवो मलिनसत्त्वप्रधानो भवति । अनयोरुभयोः सम्बन्धात् जगतः प्रादुर्भावः सम्भवति । माया अनिर्वचनीया शक्तिरस्ति । स्ववस्वरुपे माया उपाधिपूर्णा भवति । ईश्वरेण सह सा सृष्टिकर्त्री अस्ति, किन्तु आवरण-विक्षेप-शक्तिभ्यां साऽपि ब्रह्मवत् सर्वत्र व्याप्ता वर्तते । माया स्वयं स्वतन्त्रा नास्ति किन्तु सा दृश्यरुपेण असद् रुपा विद्यते । चिदाभासेन सा अविद्यमानमपि विद्यमानमिव भासयति । तस्यां दुर्घटत्वशक्तिर्भवति । जगत् तस्या इन्द्रजाल मस्ति । सा वस्तुतः अचिन्त्यस्वरुपा वर्तते । ईश्वरोऽपि मायायाः सम्बन्धात् एव प्रकटीभवति । माया वस्तुतः एकं दीर्धस्वप्नमस्ति ।
[[File:Raja Ravi Varma - Sankaracharya.jpg|left|220px]]
अद्वैतमते ज्ञानं द्विधा विभाजितं वर्तते –अनात्मजडम आत्मेचेतनं च । ज्ञानस्य कृते ज्ञाता ज्ञेयश्य परमावश्कौ स्तः । अनात्मा आत्मा चैव उपनिषत्सु उच्च-निम्नं संज्ञया व्यवहृते । तत्रोल्लेखोस्ति । यत् ब्रह्ममूलम् उर्ध्वमस्ति तच्छाखाप्रशाखाश्च अधस्तिष्ठन्ति । अद्वैतमतानुसारं जगदपि द्विधा वर्गीक्रियते-जडजगत्, चेतनजगत् चेति । यद्यपि जगत् असत् अस्ति, तथापि व्यावहारिकसत्ताया तद् विद्यमानमस्ति । ब्रह्मजिज्ञासार्थं विवेक-विराग-षट्क् सम्पत्ति –शम-दम-उपरति-तितिक्षा –श्रद्धा –समाधीनाम् क्रमेणाश्यकता विनिर्दिष्टा । एभिरेवात्मज्ञानं भवति शरीरे चिदाभासयुक्तम् अन्तः करणं कूटस्थचैतन्यं आवरणशक्तिश्च विद्यन्ते । अहङ्कारवशात् जीवः आत्मानं कर्ता भोक्ता चावगच्छति । अहन्तां, ममता, परता च तस्मिन् प्रविष्टा भवति । मनुष्या अपि त्रिधा अर्गीकृताः पामरा विषयिणो मुमुक्षवश्चेति । कर्मणा मुक्तिर्जायते । सम्यग् दर्शनेन जीवजन्तूनां परमार्थं सत् विज्ञायते ।
Line २९ ⟶ ३१:
''दृष्टिं ज्ञानमयीं कृत्वा पश्येद् ब्रह्ममयं जगत्''
विशिष्टाद्वैतवादः –रामानुजमतानुसारं चेतनो जीवो जड जगच्चेति उभयमेव ब्रह्मणः प्रजायते । ब्रह्म तयोर्निमित्तं उपादानं चेति द्विविधं कारणं वर्तते । अतः केवलं ब्रह्मैव अद्वौत तत्त्वमस्ति । जीवो जगच्चेति उभावपि यद्यपि ब्रह्मणः समुत्पन्नौ तथापि असद्रूपौ न वर्तेते । उभौ ईश्वरतुल्यौ स्तः । यथा जीवात्मनः स्थूलशरीरं असत्यम् नास्ति । पुनरपि उभौ ब्रह्मणः उत्पन्नौ भूत्वापि तस्मात् भिन्नावेव स्तः । यथा शरीरम् आत्मा न भवितुम् अर्हति तथैव तावुभौ ब्रह्म न भवितुं शक्नुतः । स्पष्टमस्ति यत् ईश्वरो आत्मा वा अद्वैतरुपेण जीवजगतोर्द्वैतापेक्षया विशिष्यते । अतः अयं सिद्धान्तो विशिष्टाद्वैत इति कथ्यते । अत्र द्वैताद्वैतयोरुभयोश्चिन्तनयोः समावेशो दृश्यते ।
रामानुजाचार्यः शाङ्करमायावादं न स्वीकृतवान् अपितु भक्तिमार्गं सविशेषं प्रतिपादितवान् । अस्य परिणामोऽयमभवत् यत् अवैदिकस्य पाञ्चरात्रस्यापि वैदिकसाहित्ये प्रवेशः संजातः । रामानुजस्य विशिष्टाद्वैते ब्रह्म एकमेवास्त् । तद अनेकगुणैः परिपूर्णं वर्तते । तदेव ईश्वरः पुरुषोत्तमो वा । तस्य कुत्रापि अभावो नास्ति । तत् अद्वितीयं वर्तते, स्वलीलया एव च सृष्टिं करोति । तत् शून्येन सृष्टिं न करोति, सृष्टिस्तु तस्य स्वरुपभेदमात्रमस्ति । कारणस्वरुपेणैव तत् कार्यरुपमाप्नोति । आदावीश्वर एकमात्रं ब्रह्मरुपम् आसीत्, कालान्तरे तस्याङ्करुपेण प्रकृतेः जीवानां च आविर्भावः संजातः । प्रकृतिः जीवाश्च सर्वे ते मिथ्या नावर्तन्त् । ते ईश्वरमया ईश्वरानुशासिताश्चाभवन् । जीवः स्थूलतत्त्वमासीत्, प्रकृतिश्च सूक्ष्मम् । कल्पान्ते यदा स्थूलतत्त्वस्य लयःसूक्ष्मतत्त्वे भवति तदा तमस् मात्रम् अवशिष्टं भवति । तदेव ब्रह्मरुपं विज्ञेयं । तत् एकं भवति स्वेच्छया च अनेकं जायते ।
"https://sa.wikipedia.org/wiki/वेदान्तः" इत्यस्माद् प्रतिप्राप्तम्