"कृष्णदेवरायः" इत्यस्य संस्करणे भेदः

पङ्क्तिः १०:
 
श्री कृष्णदेवराय जाति रेड्डी
 
==कुहयोगः==
एका समस्या आगता । चक्रवर्तिनः जन्मकुण्डल्यां शनि -सूर्य- कुजग्रहाः मिलिताः । एषः ‘कुहयोग’ इति कथ्यते इति राजपुरोहितः उक्तवान् । तस्मात् धनहानिः, प्राणहानिः च भविष्यति । महामन्त्री, श्रीकृष्णदेवरायः च चिन्तने माग्रौ । झटिति मन्त्रिभिः मिलित्वा सर्वे व्यासरायस्य मठं गताः ।
‘मम साम्राज्यं सर्वं एतन्मठ्स्थाय गोपालकृष्णदेवाय, तपोनिधये व्यासरायाय च समर्पयामि । स्वमिन् ! राज्याधिकारं स्वीकरोतु भवान्’ इति राजा उक्तवान् । राज्ञा कृष्णदेवरायेण सह आगताः मन्त्रिणः विषयं न ज्ञातवन्तः । ते आश्चर्यचकिताः अभवन् । ‘महामन्त्रिन् ! कुहयोगस्माप्तिपर्यन्तं शीकृषणदेवरायः चक्रवर्तिपदे न भवेत् । तत् दायित्वं मम् द्वारा गोपालकृष्णदेवाधीनं कृतम्’ इति व्यासरायः विवृतवान् ।
पूर्वनिर्णीते दिने श्रीकृष्णदेवरायः राज्यं व्यासरायाय् समर्पितवान् । तस्य शिरसि रत्नैः, मौक्तिकैः सह नदीजलैः राज्याभिषेकं कृतवन्तः भक्ताः । शिरसि निहितेषु तेषु रत्नेषु कानिचन् पण्डितानां कवीनां कृते उपायनरूपेण् दत्तवान् व्यासरायः । विजयनगरे पार्श्वराज्येषु स्थितानां निर्धनानां हिन्दुजनानां, महम्मदीयजनानां च कृते विना भेदं वितीर्णानि कानिचित् । कुहयोगस्य समाप्तिं यावत् व्यासरायः सिंहासनम् अध्यासीनः आसीत् ।
 
===रायचूरु युद्धम्===
 
सः १५२० क्रैस्ताब्दः । आतपकालः प्रारब्धः । श्रीकृष्णदेवरायः महत् सैन्यं स्वीकृत्य रायचूरुम् आक्रान्तुं प्रस्थितवान् । विदेशीययात्रिकस्य न्यूनिजस्य लेखनेन ज्ञायते यत् सर्वेभ्यः प्रान्तेभ्यः सेनानायकाः , म्ण्डलेश्वराः स्वईयसेनाभिः सह आगताः । विजयनगरसेनायां ७ लक्षं ३६ सहस्रं सैनिकाः, ५०० गजाः , १२ सहस्रं अश्वाः आसन् । नकेवलं एषा सेना, जलवाहकाः, रजकाः, व्यापारिणः, अश्चवानाम्, गजानाम् सेवकाः अपि आहत्य १२ सहस्रं अन्ये जनाः आसन् । सेनानिवेशनस्थले एकम् बृहत् नगरं निर्मातुं शक्यते इति ।
रायचूरुराज्यस्य आक्रमणं प्रारब्धम् । दुर्गे सुलतानसेनायाः समीपे २०० भुशुण्डयः आसन् । अतः दुर्गस्य समीपं गन्तुं विजयनगरसेनायाः मासत्र्यात्मकः कालः न पर्याप्तः । एतदभ्यन्तरे बीजपुरस्य इस्मायिल् आदिल् शाहः सेनया सह कृष्णानद्याः उत्तरतीरं प्राप्तवान् इति वार्ता आगता । एकलक्षेण द्विसहस्त्रेण च पदातिभिः, अष्टादशसहस्रेण अश्वैः, पञ्चाशदधिकैकशतेन् गजैः सह भुशुण्डिदलैश्च् सह आदिलशाहः आगतः ।
सुलतानस्य् सेना नदीं तीर्त्वा आगता । भयङ्करयुद्धम् अभवत् । आरम्भे विजयनगरसैनिकाः सुलतानस्य सेनायाः शक्त्या कम्पिताः पलायिताश्व केचन ।
श्रीकृष्णदेवरायः स्वस्य सेनायाः स्थितिं दृष्ट्वा स्वयम् अश्वम् अरुह्य ‘हे सैनिकाः ! मया सह प्राप्तुं सिद्धाः भवन्तु विजयं वा वीरस्वर्गं वा, अग्रे गच्छन्तु’ इति गर्जितवान् ।
चक्रवर्तिना कृतं एतद् गर्जनं श्रुत्वा सेनानायकाः दलपतयः पुनः सङ्घाटिताः । राजा एव स्वयं सेनाम् अग्रे चालितवान् । सुलतानस्य सैनिकाः भीत्या पलायनं कृतवन्तः । पलायितवतः सैनिकान् विजयनगरस्य गजाः मृदित्वा मारितवन्तः । शुण्डैः गृहीत्वा क्षिप्तवन्तः । नद्याः तीरपर्यन्तं सुलतानसेनां पलायितां कारितवन्तः विजयनगरसैनिकाः ।
इस्मायिल् आदिलशाहस्य् आयुधानि सर्वाणि विजयनगरसैन्यस्य् अधीनानि जातानि । सुलाबत् खानेन श सुलतानस्य् पञ्चसेनापतयः बद्धाः । सुलतानस्य चतुस्शस्रम् अरब्बी अश्वाः, शतं गजाः चतुशशतं भुशुण्डयः नवशतं शतध्नयः, गर्दभाः , महिषाः विजयनगरसिनिकानाम् अधीनाः अभवन् । विजयनगरसेनायां षोडशसहस्रं सैनिकाः दिवङ्गताः । अन्ते रायचूरुदुर्गं श्रीकृष्णदेवरायस्य हस्तगतं जातम् ।
श्रीकृष्णदेवरायस्य सेना स्वान् चोरयिष्यति इति ग्रामे जनाः भीताः । ग्रामेषु अत्याचाराः भविष्यन्तीति चिन्तित्वन्तश्च । किन्तु किमपि नाभवत् । अनन्तरदिने रायचूरुनगरवीथीषु समस्तराजसम्मानपूर्वकं श्रीकृष्णदेवरायस्य विजयशोभायात्रा अभवत् । प्रजाः राज्ञः कृते धन्यवादान् जयघोषैः प्रकटितवन्तः ।
[[File:Temple stepped tank of the Vijayanagara Empire 10-31-2008 1-29-26 PM.JPG|thumb|'''कृष्ण्देवराजस्य काले निर्मिता पुष्करिणी''']]
 
===यवनराज्यस्थापनाचार्यः===
 
रायचूरुराज्यपतनवार्ता, श्रीकृष्णदेवरायस्य् विजयवार्ता च भारतदेशे सर्वत्र व्याप्ता । सर्वे सुल्तानाः मिलित्वा "इस्मायिल् आदिल् शाहतः प्राप्तं भूभागं सर्वं भवान् प्रतिददातु, नोचेत वयं सर्वे शाहेन सह सङ्गताः विरोधं करिष्यामः" इति श्रीकृष्णदेवरायस्य कृते लेखं प्रेषितवन्तः । युवानः सर्वे आनन्दोल्लासिनः आसन् । न्यायः धर्मः स्वपक्षे अस्त्ईति कारणातः श्रीकृष्णदेवरायः लेखविषयं नाङ्गीकृतवान् । परुषतरं पत्रं लेखितवान् । ‘इस्मायिल कृते तु अर्हता मया एव द्त्ता । तस्य् साहाय्यार्थं भवन्तः अत्र न आगच्छन्तु । अहमेव भवतां समीपम् आगमिष्यामि ।’ इति ।
सेनया सह रायः बीजपुरं प्रति गतवान् । बीजपुरं सेनया आक्रान्तवांश्च् । रायः पुनः मुद्रल् गतवान् । मुद्रल् दुर्गं स्वाधीनं कृतवान् । शत्रवः न त्यक्तव्याः इति चिन्तितवान । सागर्, कल्बुर्गि दुर्गे अपि आक्रान्तुं पुरः गतवान् । मार्गमध्ये बहूनि दुर्गाणि विनाशितवान् । कल्बुर्गिदुर्गमपि ध्वंसितवान् ।
बहमनीवंशस्य सुलतानमहम्मद्स्य पुत्रत्रयं आदिलशाहः कारागारे स्थापितवान् । श्रीकृष्णदेवरायः तान् बन्धेभ्यः विमोच्य तेषु अल्लाउद्दीनं कल्बुर्गिदुर्गस्य सुलतानं प्रकटितवान् । शिष्टं द्वयं स्वेन सह नीत्वा पञ्चाशतसहस्रं स्वर्णमुद्रिकाः दत्तवान् । तेन श्रीकृष्णदेवरायाय ‘यवनराज्यस्थापनाचार्य’ इति बिरुदं लब्धम् ।
कल्बुर्गी आक्रमणानन्तरं शीकृष्णदेवरायस्य सेनाबलं, युद्धसामर्थ्यं सुलतानैः सर्वैः ज्ञातम् ।
 
===सन्ध्यासमयः===
 
स्वस्य पूर्वजैः यत् कष्ट्साध्यं कार्यमिति भावितं तत् श्रीकृष्णदेवरायेण सुखेन साधितम् । सिंहासनारोहणानन्तरं दशवर्षपरिमितं कालं युद्धेषु मग्नस्य अपि तस्य योग्यं फलं लब्धम् । साम्राज्यं पूर्वपश्चिमदक्षिणसमुद्राणां पर्यन्तं विस्तृतम् अभवत् । तस्य ’त्रिसमुद्राधीशः’ इति बिरुदमपि लब्धम् । हम्पिविरुपाक्षः कर्णाटकराज्यरक्षामणिः अभवत् । श्रीकृष्ण्देवरायः स्वयं वैष्णवः अपि सर्वान् धर्मान् सम्मानितवान् । पेद्दवीडु, चन्द्रगिरि पट्टणस्थेषु जैनजनेषु विहितं शुल्कं निषेधितवान् । कामकोटिपीठाय एकं ग्रामं बहूकृतवान् । द्वैतमतीये व्यासराये तस्य अधिकः अभिमानः । महम्मदीयानां प्रार्थनामन्दिरेषु स्वस्य मताचरणं न प्रतिघटितवान् । राज्ञ्या सह् साम्राज्ये प्रमुखस्थलेषु स्थितान् देवालयान् सन्दृष्टवान् । सर्वासु जैत्रयात्रासु वीरतां, बुद्धिकुशलतां दर्शितवतः सालुवतिम्मरुसोः अप्पाजी महोदयस्य च सुवर्णाभिषेकं कृतवान् ।
 
===साहसयात्रायाः अन्तः===
 
राज्ये जायमानेभ्यः सङ्घटनेभ्यः श्रीकृष्णदेवरायस्य मनः विकलम् अभवत् । तथापि राज्ञा स्वस्य कार्यं न विस्मृतम् । स्वीयां सेनाशक्तिं वर्धितवान् सः । कदाचित् ह्ठात् तस्य महती उदरपीडा आगता । तस्य नेत्रे द्रष्टुं न शक्नुतः स्म । १५२९ वर्षे सः स्वर्गस्थः अभवत् ।
तिरुमलवेङ्कटेश्वरालये श्रीकृष्णदेवरायस्य्, तिरुमलवेव्याः, चिन्नादेव्याः विग्रहाः इदानीमपि दर्शनीयाः सन्ति ।
२१ वर्षाणी यावत् राज्यपालनं कृत्वा श्रीकृष्णदेवरायः सुविशालं साम्राज्यं निर्मितवान् । दक्षिणभारतेतिहासे अत्य्न्तकठिनसमयेऽ[पि हिन्दुधर्मं, संस्कृतिं च रक्षितवान्, वर्धितवंश्च् । सामाजिकजनजीवनं सुखेन साधयितुं राज्यपालनं कृतवान् । एवं स्वजीवितं सार्थकं कृतवान् सः ।
श्रीकृष्णदेवरायः भारतीयेतिहासे स्वस्य नाम ख्यापितवान् । अधुना अपि हम्पिक्षेत्रस्य सन्दर्शिभिः तदानीन्तनं वैभवपूर्णं साम्राज्यं, तस्य राज्यपालनं च अभ्यूह्यते ।
 
[[वर्गः:चक्रवर्तिन्|कृष्णदेवरायः]]
 
[[en:Krishnadevaraya]]
[[es:Krishna Deva Raya]]
[[fr:Krishna Deva Râya]]
[[hi:कृष्ण देव राय]]
[[id:Krishnadevaraya]]
[[it:Krishna Deva Raya]]
[[ja:クリシュナ=デーヴァラーヤ]]
[[kn:ಕೃಷ್ಣದೇವರಾಯ]]
[[ml:കൃഷ്ണദേവരായർ]]
[[mr:कृष्णदेवराय]]
[[simple:Krishnadevaraya]]
[[ta:கிருஷ்ணதேவராயன்]]
[[te:శ్రీ కృష్ణదేవ రాయలు]]
"https://sa.wikipedia.org/wiki/कृष्णदेवरायः" इत्यस्माद् प्रतिप्राप्तम्