"विद्युदणुः" इत्यस्य संस्करणे भेदः

thumb|150px परमाणुः इत्यत्र प्राधान्ये... नवीनं पृष्ठं निर्मितमस्ति
(भेदः नास्ति)

१५:३२, १५ नवेम्बर् २०११ इत्यस्य संस्करणं

परमाणुः इत्यत्र प्राधान्येन अंशत्रयं भवति । प्रोटान्, न्यूट्रान् एलेक्ट्रान् इति ते अंशाः । तत्र ऋणात्मकशक्तिं धरन्ति एलेक्ट्रान् कणाः । एतेषां घटकानां द्रव्यराशिः प्रोटान्-अपेक्षया बहु न्यूनम् । एतस्य घटकस्य चार्ज् अर्थात् आकर्षणशक्तिविषये बहुवारं संशोधनं प्रवृत्तम् । तत्र 1838 संशोधन आरब्धं क्वाण्टम् सिद्धान्तानुसारम् । 1874 मध्ये ऐरिश् विज्ञानी जार्ज् जोन्स्टन् स्टोने तस्य विशेष-अध्ययनं करोति पुनः च 1894 युगाब्दे एलेक्ट्रान् इति नाम ददाति। जे. जे. थाम्सन् इति विज्ञानी प्रथमवारं एतेषां घटकानां संशोधनपुरस्सरम् आविष्कारम् अकरोत् । एलेक्ट्रान्-एलेक्ट्रान् सहयोगकारणाद् एव रासायनिकक्रियाः, रासायनिकबन्धनानि सम्भवन्ति । एते घटकाः प्रामुख्येन विद्युत्शक्तिः (electricity), कान्तशक्तिः (magnetism), औष्ण्यसंवहनम् (thermal conductivity) इत्यादिषु पात्रं निर्वहन्ति ।

एलेक्ट्रान् अन्तरम्

तत्र शताधिकाः उपघटकाः सन्ति एकस्मिन् परमाणौ । एवं एलेक्ट्रान्-घटकाः तु लेप्टान्-घटकानां समुदाये अन्तर्भवन्ति । पत्येकः एलेक्ट्रान् अंशः ऋणात्मकशक्तिं धरन् एलेक्ट्रोमग्नेटिक् (electromagnetic) पुनः च न्यूनशक्तिसमन्वयेषु (weak interaction) भागं गृण्हन्ति । रासायनिकप्रक्रियाः –

Hydrogen Density Plots

सर्वस्य अपि परमाणोः अन्तिमस्तरे विद्यमानाः एलेक्ट्रान्-अंशाः एव सर्वविधरासायनिकप्रक्रियायां भागं गृह्णन्ति । यस्मिन् परमाणौ अन्तिमस्तरे अधिक-एलेक्ट्रान्-अंशाः भवन्ति सः परमाणुः स्थिरः भवति अपि च यस्य न्यूनाः अंशाः भवन्ति सः अधिकक्रियाशीलः भवति इति विज्ञेयम् । परमाणोः एलेक्ट्रान्-अंशानां गणनानुगुण्येन एव periodic table निर्मितं वर्तते ।

HydrogenLineParallel

मापनम् (Measurement):

एलेक्ट्रान्-शक्तिं (charge) साक्षात् मापितुं वर्तते एलेक्ट्रोमीटर् इति यन्त्रम्। परन्तु एलेक्ट्रान्-प्रवाहं (current) परिमापितुं विद्यते गाल्वोनोमीटर् । पूर्वकाले तु एतेषां कणानां मापनं नाम बहु कष्टकरं कार्यमासीत् । इदानीं तु सामान्यप्रयोगशालायामपि मापनं कर्तुं शक्नोति ।

एलेक्ट्रान्-दर्शनम् :

प्रयोगशालायाः परिमितौ particle detector इति यन्त्रेण पत्येकमपि एलेक्ट्रान्-अंशं ज्ञातुं शक्नुमः । तद्द्वारा तस्य शक्तिः (charge), spin, charge इत्यादिकं गोचरं भवति । पप्रथमचलत्चित्रं तु स्वीकृतम् एलेक्ट्रान्-अंशस्य कान्तीयचलनस्य स्वीडन्-देशस्य लण्ड् विश्वविद्यालयेन फेब्रवति 2008 तमे वर्षे ।

"https://sa.wikipedia.org/w/index.php?title=विद्युदणुः&oldid=143745" इत्यस्माद् प्रतिप्राप्तम्