"विद्युदणुः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
[[File:Proton2electrontrapped.gif|thumb|150px]]
[[परमाणुः]] इत्यत्र प्राधान्येन अंशत्रयं भवति । [[प्रोटान्]], [[न्यूट्रान्]] एलेक्ट्रान् इति ते अंशाः । तत्र ऋणात्मकशक्तिं धरन्ति एलेक्ट्रान् कणाः । एतेषां घटकानां [[द्रव्यराशिः]] प्रोटान्-अपेक्षया बहु न्यूनम् । एतस्य घटकस्य चार्ज् अर्थात् आकर्षणशक्तिविषये बहुवारं संशोधनं प्रवृत्तम् । तत्र 1838 संशोधन आरब्धं क्वाण्टम् सिद्धान्तानुसारम् । 1874 मध्ये ऐरिश् विज्ञानी जार्ज् जोन्स्टन् स्टोने तस्य विशेष-अध्ययनं करोति पुनः च 1894 युगाब्दे एलेक्ट्रान् इति नाम ददाति। जे. जे. थाम्सन् इति विज्ञानी प्रथमवारं एतेषां घटकानां संशोधनपुरस्सरम् आविष्कारम् अकरोत् । एलेक्ट्रान्-एलेक्ट्रान् सहयोगकारणाद् एव रासायनिकक्रियाः, रासायनिकबन्धनानि सम्भवन्ति । एते घटकाः प्रामुख्येन विद्युत्शक्तिः (electricity), कान्तशक्तिः (magnetism), औष्ण्यसंवहनम् (thermal conductivity) इत्यादिषु पात्रं निर्वहन्ति ।
[[File:Electron distance.svg|thumb|left|180px|एलेक्ट्रान् अन्तरम्]]
तत्र शताधिकाः उपघटकाः सन्ति एकस्मिन् परमाणौ । एवं एलेक्ट्रान्-घटकाः तु लेप्टान्-घटकानां समुदाये अन्तर्भवन्ति । पत्येकः एलेक्ट्रान् अंशः ऋणात्मकशक्तिं धरन् एलेक्ट्रोमग्नेटिक् (electromagnetic) पुनः च न्यूनशक्तिसमन्वयेषु (weak interaction) भागं गृण्हन्ति ।
"https://sa.wikipedia.org/wiki/विद्युदणुः" इत्यस्माद् प्रतिप्राप्तम्