"रतन टाटा" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २२:
१९१३तः-१९१७वर्षपर्यन्तं पाटलीपुत्रे ब्रिटिष् सर्वकारेण कृतस्य संशोधनस्य उत्खननकार्ये रतनटाटा आर्थिकसाहाय्यं कृतवान्। तस्मिन् उत्खनने अशोकचक्रवर्तिनः कालस्य मयूरसिंहासनं प्राप्तम्। १९२२ तमे वर्षे लण्डन् नगरस्य ’स्कूल् आफ् एकनामिक्स्’ इत्यत्र दारिद्र्यनिवारणायै विशेषाध्ययनार्थं संशोधनकेन्द्रम् आरभ्य धनसाहाय्यं कर्तुं तेन चिन्तितम् आसीत्। लण्डनदेशस्थम् अत्यन्तं प्राचीनम् ऐतिहासिकं यार्कहौस् भवनं ड्यूक् डे अर्लियन्स् तः टैकन् ह्याम् नगरे क्रीतवान्। टाटा उद्यमे यद्यपि रतनटाटा निर्देशकः आसीत् तथापि समग्रं दायित्वं तस्य अग्रजौ निर्वहतः स्म। पिता तु वस्त्रस्य उद्यमे बहु धनं आर्जितवान् आसीत् । ततः रतनेन अपि बहु धनं प्राप्तम्। स्वस्य सर्वं भागं देशस्य औन्नत्यै रक्षितवान् आसीत् सः। रतनस्य पत्नी नवाजबायी। तयोः अपत्यं नासीत्। सर् रतनटाटा ट्र्स्ट्तः विविधाः संस्थाः आर्थिकसाहाय्यं प्राप्य अभिवृद्धिं प्राप्तवन्तः सन्ति। तासु प्रमुखाः—
:1 Servants of India society.
:2 Mahatma Gandhi and south Africa.
:3 Sir Ratan Tata foundation at The London School of Economics and Political science.
:4 Archaeological Excavation of Pataliputra in Patna.
:5 Sir Ratan Tata Art collection.
Servants of India काचित् सामाजिकी संस्था। १९०५ तमवर्षस्य जून् मासस्य १२ दिनाङ्के गोपालकृष्णगोखले नेतृत्वे एतस्याः स्थापना अभवत्। स्वतन्त्रभारतस्य स्वप्नं पश्यतः भारतीयानां देशभक्तानां सङ्घटनं कुर्वन् गोखलेमहोदयः मित्रात् रतनात् धनसाहाय्यं स्वीकृतवान्। संस्थाद्वारा दरिद्राणाम् असहायकजनानां साहाय्यं कृतवान्। तावत् पर्यन्तं कोऽपि भारतीयः उद्यमपतिः एवं स्वप्रेरणया धर्मकार्ये भागं न स्वीकृतवान् आसीत्।
सर् रतनटाटान्यासस्य स्थापना
"https://sa.wikipedia.org/wiki/रतन_टाटा" इत्यस्माद् प्रतिप्राप्तम्