"प्रश्नोपनिषत्" इत्यस्य संस्करणे भेदः

सम्पादनसारांशरहितः
(लघु) (प्रश्नोपनिषद्‍ प्रश्नोपनिषत् प्रति प्रविचलित।)
No edit summary
[[File:Om buttom.svg|thumb|]]
[[अथर्ववेद|अथर्ववेदाच्या]] [[पिप्पलाद]] शाखेच्या 'ब्राह्मण' भागामध्ये प्रश्नोपनिषद्‍ येते. '''[[पिप्पलाद|पिप्पलाद ऋषींनी]] सहा ऋषींची, सहा प्रश्नांना दिलेली उत्तरे''' असे या उपनिषदाचे स्वरूप असल्याने याला प्रश्नोपनिषद्‍ असे ओळखले जाते.
अथर्ववेदीयेयमुपनिषत् पिप्पलादतच्छिष्यानां च संवादरुपा । अत्र षट्सङ्खाकाः शिष्याः पिप्पलादं यथाविधि उपगम्य ब्रह्मविद्यां बोधयितुं प्रार्थयन्ते । तनिद्दिश्य पिप्पलादर्षिः उवाच –भवन्तः सर्वे तपस्विनः ब्रह्मचर्यव्रतं पालयित्वा वेदान् अधीतवन्तः इति जाने अहम् । तथापि ममाश्रमे श्रध्दया ब्रह्मचर्यपूर्वकम् एकं वर्षं यावत् पुनः तपः चरन्तु । ततः परं यथाभिलाषं ब्रह्मजिज्ञासां कुर्वन्तु अहं यथामति बोधयिष्यामि इति । तथैव कृत्वा वर्षानन्तरं शिष्याः (सुकेशाः भारद्वाजः शैब्यः सत्यकामः, सौर्यायणी गार्ग्यः कौसल्यः आश्वलायनः, वैदर्भी भार्गवः, कबन्धी कात्यायनः) आगच्छन्ति ।
 
==प्रथमप्रश्नः==
'''Please add the shlokas to Wikisource, not here:''' http://sa.wikisource.org/wiki/प्रश्नोपनिषद्‍
तत्र प्रथमं तावत् कबन्धी कात्यायनः पृच्छति, यस्मादिदं चराचरं जगत् उत्पद्यते, तस्य कारणाभूतं तत्त्वं किम् इति । तस्य प्रश्नं श्रुत्वा गुरुः ब्रूते –सृष्टेरादौ प्रजाः स्रष्टुकामः प्रजापतिः एको ऽहं बहुस्यामिति चिन्तयन् सङ्कल्पमात्रेण प्राणरयिनामकं शक्तिद्वयं सृजति । तत्र प्राणः आदित्यरुपः, रयिः चन्द्रमारुपा मूर्तामूर्तरुपत्वात् मूर्तिरेव रयिः । प्रत्यक्षं यदिदं दृश्यते जगत् तत् रयिप्राणोः संयोगेनैव सकलं सुचरितमस्तीति अवगन्तव्यम् । सूर्यः सम्पूर्णस्य जगतः प्राणबिन्दुः इति कारणात् सूर्य आत्मा जगतस्तस्थुषश्च । सूर्यदेव खल्विमानि भूतानि जायन्ते इति सूर्योपनिषदि । चन्द्रमाः स्थावरजङ्गमात्मकं सम्पूर्णं स्थूलजगत् अस्य चन्द्रमसः सोमशक्तेः कारणात् परिपुष्टम् भवति । अस्माकं जीवनस्य सर्वकालेषु अपि सूर्याचन्द्रमसोरेव क्रीडा (प्रभावः) भवति इति दर्शयितुम् उत्तरायणदक्षिणायणरुपेण, अहोरात्ररुपेण च व्याप्तत्वम् उच्यते ।
 
==द्वितीयप्रश्नः==
[[वर्गः:उपनिषद्‍|प्रश्नोपनिषद्‍]]
द्वितीयेन प्रश्नेन तावत् भार्गवः पिप्पलादं पृच्छति, कति देवाः प्रजानां स्थूलशरीरं धारयन्ति, तेषु वरिष्ठः देवः कः इति । तदानीं प्राणतत्त्वं बोधयति । प्राणः एव वायु-अग्नि-आदिदेवेषु वरिष्ठः । यावत्कालं प्राणः देहे आस्ते तावदेव अन्ये देवाः (इन्द्रियाणि)तमधिकृत्य क्रियाशीलाः भवन्ति । तस्य शरीरान्निस्सरणानन्तरम् अन्ये निष्क्रियाः भवन्ति । अतः कारणात् अरा इव रथनाभौ प्राणे सर्वं प्रतिष्ठितम् इति प्राणस्य स्तुतिं कुर्वन्ति अन्ये देवाः ।
==तृतीयप्रश्नः==
तृतीयेन प्रश्नेन आश्वलायनः प्राणस्य उत्पत्तिः, देहप्रवेशः, देहधारणं, देहादूर्घ्वोत्क्रमणम् इत्यादिविषयान् प्रण्सम्बध्दान् पृच्छति । तदा पिप्पलादः ब्रूते-आत्मनः सकाशादेव प्राणः जायते । पुरुषं यथा छाया अनुवर्तते तथैव मनोकृतेन सङ्कल्पेन एषः प्राणः जीवमनुप्रविशति विविधकर्माणि कर्तुं जीवं धारयितुं च एषः पञ्चस्थानेषु तिष्ठति हृदि प्राणो गुदेऽपानः समानो नाभिसंस्थितः । उदानः कण्ठदेशस्थो व्यानः सर्वशरीरगः इत्यमरः । प्राणः सम्राडिव सर्वान् प्रणान् तत्तत्कार्ये विधत्ते अपानः पुरुषं दृढं धारयति यथा न पतेत् भूमौ । हुतमन्नं जीर्णीकरोति समानः । सर्वासु नाडीषु सञ्चरति व्यानः । उदानः यथासङ्कल्पम् ऊर्ध्वं पुण्यं लोकं नयति मरणानन्तरम् ।
==चतुर्थप्रश्नः==
चतुर्थे प्रश्ने सौर्यायणी गार्ग्यः पुरुषे सुप्ते कानि स्वपन्ति कानि च जागृतानि भवन्ति, कः देवः स्वप्नान् पश्यति, कः सुखमनुभवति, कस्मिन् अन्ये देवाः सम्प्रतिष्ठिता भवन्ति इति । तदा उत्तरं ब्रवीति गुरुः- सर्वाणि देवभूतानि इन्द्रियाणि मनसि सम्पन्नानि भवन्ति यथा सूर्यास्तकाले सर्वाणि किरणानि सूर्ये लयमाप्नुवन्ति तथैव । तदा प्रणाग्नयः पञ्चसंख्याकाः एव जागृताः भवन्ति । अस्यामवस्थायां जीवः एव स्वप्नान् पश्यति । स एव सुखमनुभवति । अस्य उच्छवासनिशस्वासावेव प्राणाग्निहोत्रे आहुती भवतः ।
==पञ्चमप्रश्नः==
पञ्चमेन प्रश्नेन सत्यकामः पृच्छति-यः आजीवनम् ओङ्कारमुपास्ते सः कतरं लोकं प्राप्नोति ? कीदृशं फलं प्राप्नोति ? तस्य उत्तरं पठति-परमपावनस्य ओङ्कारस्य लक्ष्यभूतमस्ति परब्रह्म । यः निष्कामेन उपास्ते सः सकलैश्वर्यं प्राप्नोति । तत्रापि यः एकमात्रां ध्यायति तं यजुः सोमलोकं प्रति अन्नयति तत्र सः विभूतिमनुभवति । यश्च त्रिमात्रेण उपास्ते सः तेजसि अर्थात् द्युलोके सम्पन्नो सर्वपाप्मविनिर्मुक्तः भावति । अतः एतद्रहस्यं ज्ञात्वा उपास्ते यः स परं पदं प्राप्नोति न पुनरावर्तते ।
==षष्ठः प्रश्नः==
षष्ठे प्रश्ने सुकेशाः भारद्वाजः प्रश्नं पृच्छति यत् कोशलदेशस्य राजकुमारः हिरण्यनाभः एकदा षोडशकला-सम्पन्नस्य पुरुषस्य विषये मां पृष्टवान् । अहम् अनभिज्ञः इति ज्ञात्वा सः सथमारुह्य प्रतिगतवान् । अतः अहं त्वां पृच्छामि कोऽसौ षोडशकलायुक्तः पुरुषः – इति । उत्तरं पठति-पुरुषे एव एते षोडशकलाः संहताः यथा रथनाभौ अराः तथा । सः पुरुषः प्राणमसृजत । सृष्टेः श्रेयसे प्राणात् श्रध्दाम् असृजत । ततः पञ्चभूतानि । तत्र श्रूयते –स प्राणमसृजत, प्राणात् श्रध्दां खं वायुर्ज्योतिरापः पृथिवीन्द्रियं मनोऽन्नमन्नाद् वीर्यं तपो मन्त्राः कर्म लोका लोकेषु च नाम च । तदनन्तरं गुरुः ब्रूते-एतावदेवाहमेतत्परं वेद नातः परमस्तीति । तदा सर्वे शिष्याः सविनयं गुरुस्तवनं कुर्वन्ति –त्वं हि नः पिता यः अस्माकमविद्यायाः परं पारं तारयसि इति ।
 
[[en:Prashna Upanishad]]
४,८९१

सम्पादन

"https://sa.wikipedia.org/wiki/विशेषः:MobileDiff/143847" इत्यस्माद् प्रतिप्राप्तम्