"प्रश्नोपनिषत्" इत्यस्य संस्करणे भेदः

(लघु) added Category:उपनिषत् using HotCat
पङ्क्तिः १४:
षष्ठे प्रश्ने सुकेशाः भारद्वाजः प्रश्नं पृच्छति यत् कोशलदेशस्य राजकुमारः हिरण्यनाभः एकदा षोडशकला-सम्पन्नस्य पुरुषस्य विषये मां पृष्टवान् । अहम् अनभिज्ञः इति ज्ञात्वा सः सथमारुह्य प्रतिगतवान् । अतः अहं त्वां पृच्छामि कोऽसौ षोडशकलायुक्तः पुरुषः – इति । उत्तरं पठति-पुरुषे एव एते षोडशकलाः संहताः यथा रथनाभौ अराः तथा । सः पुरुषः प्राणमसृजत । सृष्टेः श्रेयसे प्राणात् श्रध्दाम् असृजत । ततः पञ्चभूतानि । तत्र श्रूयते –स प्राणमसृजत, प्राणात् श्रध्दां खं वायुर्ज्योतिरापः पृथिवीन्द्रियं मनोऽन्नमन्नाद् वीर्यं तपो मन्त्राः कर्म लोका लोकेषु च नाम च । तदनन्तरं गुरुः ब्रूते-एतावदेवाहमेतत्परं वेद नातः परमस्तीति । तदा सर्वे शिष्याः सविनयं गुरुस्तवनं कुर्वन्ति –त्वं हि नः पिता यः अस्माकमविद्यायाः परं पारं तारयसि इति ।
 
[[वर्गः:उपनिषत्उपनिषदः]]
 
[[en:Prashna Upanishad]]
"https://sa.wikipedia.org/wiki/प्रश्नोपनिषत्" इत्यस्माद् प्रतिप्राप्तम्