"वामनी" इत्यस्य संस्करणे भेदः

thumb|150px|right|वामनीसस्यम् एषा वामन... नवीनं पृष्ठं निर्मितमस्ति
(भेदः नास्ति)

०७:१७, १९ नवेम्बर् २०११ इत्यस्य संस्करणं

एषा वामनी अपि भारते वर्धमानः सस्यविशेषः । इयं वामनी अपि सस्यजन्यः आहारपदार्थः । एषा वामनी आङ्ग्लभाषायां Sweet Flag अथवा Calamus इति उच्यते । अस्याः सस्यशास्त्रीयं नाम अस्ति Acores calamus इति । एषा वामनी प्रायः औषधत्वेन एव उपयुज्यते सर्वत्र । अस्य वामनीसस्यस्य मूलं, भौमिकं काण्डं चापि औषधत्वेन उपयुज्यते । अन्यानि अङ्गानि तु न उपयुज्यन्ते ।

वामनीसस्यम्

आयुर्वेदस्य अनुसारम् अस्याः वामन्याः स्वभावः

 
वामनीसस्यं, मूलं, काण्डं, पुष्पं चापि

एषा वामनी कटुरसयुक्ता । एषा उष्णगुणयुक्ता, तीक्ष्णा चापि ।

“वामनी कटुतीक्षोष्णा वातश्लेषरुजापहा ।
कण्ठ्या मेध्या च कृमिहृद्विबन्धाध्मानशूलनुत् ॥“ (धन्वन्तरीकोषः)
१. एषा वामनी वातं कफं च हरति ।
२. एषा कण्ठ्या, मेध्या च ।
३. एषा वामनी क्रिमिदोषान् निवारयति । कासं, दीर्घकालीनम् अतिसारं च शमयति ।
४. एषा वामनी कासं, श्वासम् (अस्तमा), कण्ठरोगान् च निवारयति ।
५. एतस्याः वामन्याः सेवनेन अजीर्णं, विषमज्वरः च अपगच्छति ।
६. एतां वामनीम् उन्मादे, अपस्मारे चापि उपयोक्तुं शक्यते ।
७. अस्याः वामन्याः गुलिका एकवारं १२५ – ५०० मि.ग्रां यावत् उपयुज्यते ।
८. एषा वामनी वमनार्थं १- २ ग्रां यावत् दीयते ।
९. एषा पित्तं वर्धयति । अतः पित्तप्रकृतियुक्ताः, पित्तजन्यैः रोगैः पीडिताः, पित्तदेशे काले एषा वर्ज्या ।
१०. वामनीं दग्ध्वा एकवारं ३ -४ ग्रां यावत् मधुना सह योजयित्वा दिने २ – ३ वारं, ३ -४ दिनानि यावत् सेवनेन कासः अपगच्छति ।
११. वामनीं, यष्टीं, चङ्गल्कोष्ठं, मरीचं, शुण्ठीं, पिप्पलीं च समप्रमाणेन योजयित्वा चूर्णीकृत्य वस्त्रेण शोधनीयम् । चूर्णस्य समप्रमाणेन् शर्करां योजयित्वा ३ ग्रां यावत्, दिने द्विवारम् इव मधुना सह योजयित्वा सेवितं चेत् श्वासकासः अपगच्छति ।
१२. वामनीं दग्ध्वा भस्म कृत्वा प्रतिदिनं रात्रौ १- २ ग्रां यावत् खादित्वा क्वथितं जलं पीतं चेत् कासः कफः च अपगच्छति ।
१३. एषा वामनी कफनिस्सारिका, दीपिका च ।
१४. एषा वामनी पाचिका, वृष्या च ।
१५. एषा वामनी कृमिघ्ना, मेध्या, आक्षेपशामिका च ।
१६. अस्याः वामन्याः हितप्रमाणेन मितप्रमणेन च सेवनेन सत्त्वगुणस्य उद्दीपनं भवति ।
१७. एतां वामनीं योजयित्वा निर्मितं सारस्वतघृतमेध्यरसायनं, वचालशुनादितैलं चापि औषधत्वेन उपयुज्यते ।
१८. एषा वामनी शिशुभ्यः बालेभ्यः च प्रतिदिनम् औषधत्वेन दीयते ।

फलकम्:Link GA

"https://sa.wikipedia.org/w/index.php?title=वामनी&oldid=144176" इत्यस्माद् प्रतिप्राप्तम्