"शृङ्गेरी" इत्यस्य संस्करणे भेदः

(लघु)No edit summary
No edit summary
पङ्क्तिः २:
 
[[Image:Sharadamba Temple.jpg|200px|thumb|right|शारदाम्बामन्दिरम्]]
तुङ्गातीरे स्थितं श्रृङ्गेरीक्षेत्रं मलेनाडुप्रदेशस्थं सुन्दरं स्थानम् अस्ति । एतत् क्षेत्रं शृङ्गगिरिः इत्यपि जनाः कथयन्ति ।पौराणिकदृष्ट्या ऋष्यश्रृङ्गमुनेः विभाण्डकमुनेः च तपोभूमिः । आदिशङ्कराचार्यैः अष्टमे शतके एव अत्र वेदान्तज्ञानपीठं शारदापीठं च स्थापितम् आसीत् । पुरी बदरी द्वारका उज्जयिनीपीठानि इव अत्रापि तपस्विनां विदुषां च केन्द्रं निर्मितम् आसीत् । शङ्कराचार्यैः स्थापितं श्रीचक्रं काश्मीरतः आनीता शारदाम्बामूर्तिः च अत्यंतमहत्वपूर्णविषयौ। चन्दनदारुशिल्पमयी मूर्तिः श्रृङ्गेरीपीठे स्थापितास्ति । अत्र श्रीमातरं ब्राहमी माहेश्वरी वैष्णवी इन्द्राणी चामुण्डा राजराजेश्वरी इति च पूजयन्।ति देशस्य शक्तिदेवतासु शारदाम्बाऽपि अन्यतमा अस्ति । १४ शतके निर्मितः विद्याशङ्करदेवालयः पूर्णतया शिलानिर्मितः कलारत्नः विभिन्नशैलीमिक्षणरुपश्च । विजयनगरशिल्पमपि अत्र पश्यामः । देवालयस्य द्वादश- स्तम्भाः द्वादशराशिनः सूचयन्ति। प्रतिमासं सूर्यस्य प्रथमकिरणं निर्दिष्टे स्तम्भे पतति । विश्वे एव श्रृङ्गेरीपीठस्य महत्वम् अधिकम् अस्ति । नवरात्रिपर्व अत्र विशेषेण प्रचलति । प्रतिदिनम् विद्यादानम् अन्नदानं ज्ञानदानं च सर्वदा प्रचलन्ति। तुङ्गादीतीरे अधुनातनकाले श्रृङ्गेरीपीठस्य पूर्वतनयतीनां मूर्तयः सभामण्पाः उद्यानं च निर्मितानि सन्ति । वेदाध्ययनं वेदघोषः शास्त्राध्ययनं च अविरतं प्रचलति । मार्गः –बेङ्गलुरुतः ३२६ कि.मी, मङ्गलूरुतः २०६ कि.मी, चिक्कमगळूरुतः ९० कि.मी । कर्नाटकस्य सर्वप्रदेशतः लोकयानव्यवस्था अस्ति । रेलयानार्थं बीरुरु, कडूरु निस्थानपर्यन्तं सौकर्यम् अस्ति । श्रीमठे वासस्थलं भोजनं च काल्पितं भवति दूरभाषा- ०८२६५-५०१२३
"https://sa.wikipedia.org/wiki/शृङ्गेरी" इत्यस्माद् प्रतिप्राप्तम्