"केङ्गल् हनुमन्तय्य" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ७:
अध्ययनावसरे विद्यार्थिसङ्घं रचयित्वा तस्य नायकः अपि अभवत् । सर्वदा सर्वत्र नायकत्वम् इच्छति स्म । अन्यायम् असहमानः विरोधं प्रकटयति स्म । क्रि.श.१९२७तमे वर्षे सञ्चालिते भारतकाङ्ग्रेस् छात्रसम्मेलने प्रतिनिधिरासीत् । तत्र एव काङ्ग्रेस् नायकानां परिचयः अभवत् । गान्धिमहात्मनः दर्शनस्य प्रेरणादयकान् अंशानां प्रापणस्य सदवकाशः तेन प्राप्तः ।
==जीवनम्==
क्रि.श.१९२१तमे वर्षे तस्य विद्यार्थिजीवने एव हनूमन्तरायः खादिवस्त्रं धर्तुम् आरब्धवान् । केङ्गल् हनूमन्तय्यस्य सकाले बेङ्गळूरुनगरस्य पुट्टम्मया सह विवाहः अपि सम्पन्नः । सः सुदाम्पत्यफलरूपेण विजयलक्ष्मी वसन्तलक्ष्मी चेति द्वे पुत्र्यौ प्रप्तवान् । बाल्ये दारिद्र्यम् अनुभूतम् इति कारणेन धनसम्पादनार्थं मनः कृतवान् । अतः न्यायवादिनः वृत्तिम् आरब्धवान् । किन्तु धनलोभात् असत्यमार्गेण गन्तुम् नेच्छति स्म । अल्पेनैव कालेन सः प्रसिद्धः न्यायवादी अभवत् । अतः कालेन धनिकः अपि संवृत्तः । यदा सः स्ववृत्तिं निर्वहन् आसीत् तदा एव राजद्रोहस्य अपवादः आगतः । सर्वकारः आक्षेपानुगुणं चिन्तयितुं न्यायालयम् असूचयत् । न्यायाधीशः तं दण्डशुल्कं पूरयितुम् आदिशत् । किन्तु शुल्कं दातुं धनम् एव नासीत् । सः न्यायशास्त्रस्यकालान्तरे स्वपुस्तकानिबेङ्गळूरुमण्डलस्य विक्रीयहरिजनसेवासङ्गस्य दण्डंकार्यदर्शी पूरितवान्अभवत् । [[हिन्दीप्रचारसभा]]याः अध्यक्षः अभवत्
कालान्तरे बेङ्गळूरुमण्डलस्य हरिजनसेवासङ्गस्य कार्यदर्शी अभवत् । [[हिन्दीप्रचारसभा]]याः अध्यक्षः अभवत् ।
 
मैसूरुसंस्थानस्य प्रसिद्धः नेता के.सि.[[चेङ्गलरायरेड्डी]] न्यायवादिवृत्तिं परित्यज्य राजनीतिमागत्य स्वातन्त्र्यप्राप्तये अन्दोलनम् प्रवेष्टुम् आहूतवान् । देशे सर्वत्र गान्धिमहात्मनः नेतृत्वे स्वातन्त्रसङ्ग्रामः आरब्धः आसीत् । सङ्ग्रामे भागं वोडुं महात्मागान्धिनः अह्वानं पुरस्कृत्य सङ्ग्रामे सम्मिलितवान् । कालक्रमेण राजकीयक्षेत्रम् अपि प्रविष्टवान् । क्रि.श १९३६तमे वर्षे बेङ्गळूरुमण्डलस्य काङ्ग्रेस् अध्यक्षः भूत्वा दशवार्षाणि कार्यं निरवहत् । क्रि.श. १९३७तमे काले [[मण्ड्यमण्डलम्|मण्ड्यमण्डलस्य]] [[शिवपुरम्|शिवपुरे]] स्वातन्त्र्यप्राप्तये ध्वजसत्याग्रहः अभवत् । हनूमन्तय्यमहोदयेन निषेधाज्ञा उल्लङ्घ्य राष्ट्रध्वजं धृत्वा यात्रा कृता इति कारणेन सर्वकारेण बद्धः अभवत् । मासत्रयं कारावारवासं दत्वा पञ्चशतरूप्यकाणां दण्डशुल्कः अपि स्वीकृतः । एषः केङ्गलमहोदयस्य प्रथमः कारागारवासः । कारगृहतः बहिरागतः सर्वविधत्यागार्थं सिद्धः अभवत् । अस्य लक्ष्यं तु एकम् एव आङ्ग्लेयानां कूटतन्त्रस्य विरुद्धं प्रतिप्रहारः दातव्यः भारतस्य स्वातन्त्र्यप्राप्तिः च इति। यत्र यत्र अवकाशः प्राप्तः तत्र तत्र सर्वत्र आङ्ग्लानां विरुद्धं कठोरं भाषणं कृत्वा जनेषु स्वातन्त्र्यप्राप्तिविषये उत्साहं जनयति स्म ।
Line १४ ⟶ १३:
 
क्रि.श.१९४०तमे वर्षे बेङ्गळूरुनगरसभायाः निर्वाचने स्पर्धयित्वा चितः अभवत् । इतः एव तस्य राजकीयजीवनस्य आरम्भः अभवत् । क्रि.श.१९४२तमे वर्षे नगरसभाध्यक्षः आभवत् । अधिकारावधौ बहूनि जनोपकारीणि कार्याणि कृत्वा लोकविश्वासं सम्पादितवान् । तस्मिन् एव काले गान्धिमहात्मना अरब्धे [[क्विट् इण्डिया]] आन्दोलने प्राविशत् । अतः पुनः कारागारवासम् अनुभूतवान् । क्रि.श.१९४७तमवर्षस्य आगष्ट् पञ्चदशे यदा भारतं स्वतन्त्रम् अभवत् तदा समग्रः देशः सन्तोषे निमग्नः अभवत् । किन्तु मैसूरुसर्वकारः सन्तोषं नान्वभवत् । यतः मैसूरुराजाः प्रजाप्रभुत्वं नाङ्गीकृतवन्तः । एतेन कुपितः केङ्गल् हनूमन्तय्यः ‘मैसूरु चलन्तु’ इति आन्दोलनम् आरब्धवान् । प्रासादस्य पुरतः सत्याग्रहः कृतः चेत् गोलिकाघातेन मारयामि इति मैसूरुसंस्थानेन उक्तम् अपि अपरिगणय्य आन्दोलनं समुन्नीतवान् । किन्तु तदापि तस्य बन्धनम् अभवत् । सः वर्षं यावत् कारागारे स्थापितः । देशस्य स्वतन्त्रतयाः प्राप्तये केङ्गल् महोदयः सप्तवारं कारागारं प्रविश्य सार्धचत्वारि वर्षाणि यावत् बन्धनस्य कष्टम् अनुभूतवान् । क्रि.श. १९४७ तः १९५२ पर्यन्तं भारतस्य राज्याङ्गरचनासभायाः सदस्यः आसीत् । भारतसंसत्कार्यसमितेः काङ्ग्रेस् पक्षस्य कार्यकारिसमितेः च सदस्यः अपि अभवत् । भारतस्य प्रतिनिधित्वेन स्टक् होम्, डब्लिन् इत्यादीनां देशानां प्रवासं कृतवान् । क्रि.श.१९५०तमे वर्षे मैसूरु काङ्ग्रेस् पक्षस्य अध्यक्षः अपि अभवत् । [[File:Vidhana Soudha.jpg|thumb|'''केङ्गल् हनूमन्तय्यनिर्मितः विधानसौधः''']]
केङ्गल् हनूमन्तय्यमहोदयः प्रजाप्रभुत्वरीया निर्वाचितः मैसूरुराज्यस्य प्रथमः मुख्यमन्त्री इति ख्यातः । क्रि.श.१९५२तमवर्षस्य मार्चमासतः क्रि.श. १९५६पर्यन्तं मुख्यमन्त्रिपदं निरूढवान् । तस्य सचिवमण्डले केवल् षट् मन्त्रिणः आसन् । तदा तस्य जीवनस्य उत्तमा स्थितिः आसीत् ।
हनूमन्तय्यमहोदयः सार्वजनिकशिक्षाक्षेत्रे नूतनान् उपक्रमान् आनीतवान् । प्राथमिकशिक्षातः विश्वविद्यालयपर्यन्तं सर्वविधानि परिवर्तनानि आनीतवान् । शिक्षणेन युवानः स्वावलम्बिनः भवेयुः इति अस्य आशयः आसीत् । साहित्यसंस्कृत्योः विषये अस्य महान् आदरः आसीत् । अतः क्रि.श. १९५४तमे वर्षे नूतनां काञ्चित् योजनां सञ्चालितवान् । [[कन्नड]]भाषायाः कोशनिर्माणार्थं बहून् कन्नडलेखकान् नियोजितवान् । कन्नडपरिषदः आर्थिकानुदानं वर्धितवान् । [[कन्नडभाषाविश्वकोशः|कन्नडभाषाविश्वकोशस्य]] निर्माणे अपि अस्य योजना एव कारणीभूता इति स्मर्तव्यम् ।
बहुकालं शासनं कृतवन्तः आङ्ग्लजनाः नगराणां पत्तनानां च नामानि आङ्ग्लभाषया परिवर्तितवन्तः । हनूमन्तय्यमहोदयः तानि पुनः परिवर्त्य कन्नडभाषायाः नामानि दत्तवान् । सिरङ्गपाठारितः- श्रीरङ्गपत्तनं, चिटल्ड्रुग्तः- चित्रदुर्गं, फ्रेञ्चराक्स् तः -पाण्डवपुरं, क्लोस्पेट्तः- रामनगरं च अभवन् । केङ्गल् हनूमन्तय्यः कन्नडभाषाभिमानी आसीत् इति वक्तुम् एषः दृष्टन्तः पर्याप्तः । जातिभेदं सः न सहते स्म । सः स्वयं जात्यतीतव्यक्तिः आसीत् । दीनानां सदा सहायहस्तः आसीत् । तस्य समयप्रज्ञा महती आसीत् । कस्मिन् अपि कार्ये दीर्घसूत्रः न भवति स्म । वचस्येकं मनस्येकं इतिवत् न। यथा वदति तथा आचरति स्म । सर्वदा वचनपरिपालनं करोति स्म ।
"https://sa.wikipedia.org/wiki/केङ्गल्_हनुमन्तय्य" इत्यस्माद् प्रतिप्राप्तम्