"कावेरीनदी" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८:
<poem>
दक्षिणभारतस्य एका प्रमुखा नदी । कावेरी कर्नाटकस्य जीवनदी अस्ति । कोडगुमण्डले पश्चिमघट्टप्रदेशे तलकावेरी इति स्थाने उद्भवति । एषा नदी मैसूरुमण्डलतः तमिलुनाडुरज्यं प्रति प्रवहति ।ततः गङ्गासागरं प्रति गच्छति ।दक्षिणपूर्वदिशोः प्रवहन्त्याः एतस्याः मार्गः ७६५ किलोमीटर्मितः दीर्घः अस्ति । कावेरीजलानयनप्रदेशः २७, ७०० चतुस्रकिलोमीटर्पर्यन्तं व्याप्तः ।कावेर्याः उपनद्यः सन्ति शिंशा, हेमावती, अर्कावती, कपिला, कबिनी, लक्ष्मणतीर्थं, लोकपावनी च ।कावेरीं “दक्षिणगङ्गा” इति नम्ना अपि आह्वयन्ति ।कावेर्यां स्नानेन सर्वपापानि नश्यन्ति इति भावना अस्ति । कोडगुजनाः कावेरीं स्वकुलदेवता इति भावयन्ति ।
== पौराणिकी कथा ==
 
=== प्रथमा कथा ===
 
ब्रह्मणः पुत्री लोपामुद्रा भोलोके लोकोद्धारार्थं वसति स्म । कवेर इति मुनिः ब्रह्माणं उद्दिश्य तपः आचरितवान् । ब्रह्मणा वररूपेण सन्ततिं प्रार्थितवान् , तदा लोपामुद्रां पुत्रीत्वेन प्राप्तवान् । एकस्मिन् दिने तत्र अगस्त्यः तपः तप्तुं आगतः ।अगस्त्यः वदति-“ अहं लोपामुद्रां वृणे” इति । लोपामुद्रा उक्तवती यदि भवान् अन्यत्र गच्छति चेत् मां भवतः निरीक्षायां बहुसमयं यापयितुं न इच्छामि ।यदि यापयति भवान् तदा अहं स्वतन्त्रा भूत्वा इतः गच्छामि। यदि एतम् विषयं अङ्गीकरोति अगस्त्यः मुनिः । तदा तयोः विवाहः सम्पन्नः । कदाचित् अगस्त्यमुनिः शिष्येभ्यः अध्यापयन् आसीत्, अध्यापने लीनः सः समयं विस्मृतवान् । तदा लोपामुद्रा ततः तलकावेरीम् आगत्य अन्तर्जले पतित्वा जलीभूय प्रावहत् । दक्षिणभूभागः तदा ऊषरभूमियुतः आसीत् । सा कवेरमुनेः पुत्री अतः कावेरी इति एव प्रसिद्धा अभवत् ।
 
=== द्वितीयाकथा ===
अन्यकथानुसारं सः प्रदेशः जलविहीनः आसीत् । जलक्षामस्य दूरीकरणार्थं अगस्त्यमुनिः ब्रह्मणः आशिषा, शिवेन पवित्रजलं कमण्डलौ स्वीकृत्य तत्रागतवान् । तदा नद्याः निर्माणार्थं उचितं स्थानं अन्वेषणे रतः सः दक्षिणभागं प्रति प्रवासं कुर्वन् कोडगुप्रदेशस्य गिरिभागम् आगतवान् ।मार्गे गमनसमये कञ्चन बालकं दृष्टवान् । सः वस्तुतः वेषान्तरितः गणेशः आसीत् ।देहबाधापीडितः अगस्त्यः शौचार्थं स्थानं पश्यन् आसीत् । अतः सः तं बालकम् अवदत्, कमण्डलुं बालकस्य हस्ते दत्त्वा तस्य रक्षणं कर्तु उक्त्वा शौचार्थं गतवान् ।गणेशः सः मुनिः नद्याः उद्गमार्थं स्थानं अन्वेषणे रतः इति ज्ञातवान् आसीत् । गणेशः चिन्तितवान् एष एव प्रदेशः उचितः अतः सः कमडुलं भोमौ स्थापितवान् । तत्र एव उड्डयन् कश्चन काकः कमण्डलुं स्पृष्ट्वा उपाविशत् । तदा तत्रागतः अगस्यमुनिः काकं दृष्ट्वा शीघ्रं तं धावयितुं प्रयतवान् ।परन्तु कमण्डलुजलं निरस्यत् । लघुप्रमाणं जलं धारा भूत्वा नदी भूत्वा प्रावहत् ।तलकावेरी पवित्रं स्थानमस्ति । तत्र प्रतिदिनं पूजादिकं प्रचलति । महाभारतस्य आदिपर्वणि अर्जुनः तीर्थयात्राप्रसङ्गे अत्र आगत्य स्नातवान् इति उल्लिखितम् । राजसूययागसमये नकुलः अत्रागत्य जलस्वीकृत्य गतवान् इति सभापर्वणि निरूपितः।
=== नदीपात्रम् ===
कोडगुप्रदेशस्य पर्वतात् प्रवहन्ती एषा कावेरी अनन्तरं दक्षिणप्रस्थभूमौ पूर्वदिशं प्रति प्रवहति । एषा यत्र प्रवहति तत्र त्रयः द्वीपाः सन्ति ।कार्नाटकस्य श्रीरङ्गपट्टनं शिवनसमुद्रः च तमिलुनाडुमध्ये श्रीरङ्गः । शिवनसमुद्रे एषा ३२० पादपरिमितात् उन्नतप्रदेशात् पतित्वा गगनचुक्कि, भरमचुक्कि इति जलपातद्वयं सर्जितवती । भारतस्य प्रथमः जलविद्युदागारह् अत्र १९० तमे वर्षे निर्मितवन्तः। तदा बेङ्गलूरुनगरम् इत एव विद्युच्छक्तिं प्राप्नोति स्म ।
होगेनकल् जलपातात् अनन्तरं एषा तमिलुनाडुराज्यं प्रविशति । ताञ्जावूरुमण्डले प्रवह्य्य अन्ते द्विधा भूत्वा गङ्गासागरं प्रविशति ।
"https://sa.wikipedia.org/wiki/कावेरीनदी" इत्यस्माद् प्रतिप्राप्तम्