"गृहस्थाश्रमः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ३:
: ''धर्मागतं प्राप्य धनं यजेत् दद्यात् सदैवातिथीन् भोजयेच्च ।''
: ''अनाददानश्च परैरदत्तं सैषा गृहस्थोपनिषद् पुराणी ॥ आदि.९१३ ॥''
 
==समाजधारणार्थं विशेषोपयुक्तः गृहस्थाश्रमः==
अथ चतुर्षु आश्रमेषु गृहस्थाश्रमः सर्वश्रेष्ठः इत्युक्तं सर्वैः शास्त्रकारैः । धर्मस्य उद्देशः समाजधारणम् । तथा समाजधारणार्थं गृहस्थः एव अधिकाधिकं परिश्रमं कुरुते । कालिदासकृते रघुवंशे रघुः कौत्सं कुशलं पृच्छन् ब्रूते –
: ''कालो ह्ययं संक्रमितुं द्वितीयं सर्वोपकारक्षममाश्रमं ते ॥''५-१० ॥
इत्यतः केवलं गृहस्थाश्रमे वर्तमानस्य केषांचित् प्रमुखानां कर्तव्यानां विवेचनमत्र क्रियते ।
 
==चतुर्विधानाम् ऋणानां संशुध्दिः==
तत्र कृतज्ञताज्ञापनं भवति भारतीयानां वैशिष्ट्यपूर्णं जीवनमूल्यम् । तच्च ऋणशोधपरिकल्पनायां तथा गृहस्थेन कर्तव्येषु पञ्चमहायज्ञेषु अनुस्यूतं वर्तते । ऋणशोधपरिकल्पनायाः मूलं तु वेदे एव उपलभ्यते । तत्र तैत्तिरीयसंहितायां श्रूयते- ‘जायमानो वै ब्राह्मणस्त्रिभिः ऋणैः ऋणवान् जायते । ब्रह्मचर्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः । एष वा अनृणी यः पुत्री यज्वा ब्रह्मचर्यवासी ।’ तै.सं. ८-३-१०-५
मनुरप्याह –ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् ॥ ६-३५
#[[देवऋणम्]]
#[[ऋषि - ऋणम्]]
#[[पितृ-ऋणम्]]
#[[मनुष्य–ऋणम्]]
#नित्यसंस्कारार्थं [[पञ्चमहायज्ञाः]]
#[[पञ्चसूनादोषपरिहारः]]
==बाह्यसम्पर्कतन्तुः==
 
"https://sa.wikipedia.org/wiki/गृहस्थाश्रमः" इत्यस्माद् प्रतिप्राप्तम्