"सिद्दरबेट्टः" इत्यस्य संस्करणे भेदः

कर्णाटकस्य तुमकूरुमण्डलस्य सिद्धरबेट्टः ... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः १:
[[कर्णाटकस्य]] [[तुमकूरुमण्डलस्य]] सिद्धरबेट्टः राज्ये प्रसिद्धपर्वतेषु अन्यतमः । मण्डलकेन्द्रात् ३०कि.मी.दूरे तोविनकेरे (ತೋವಿನಕೆರೆ) समीपे विद्यमानः अयं पर्वतः ओषधानां खनिः अस्ति । द्विसहस्राधिकाः वनस्पतयः अत्र स्नतीति शोधकानाम् अभिप्रायः । पर्वतमस्तके श्री सिद्धेश्वरदेवस्य मन्दिरम् अस्ति । दक्षिणकाशीति ख्यातः सिद्धगिरिः सुवर्णगिरिः इत्यपि नामयुक्तो अस्ति ।सम्पूर्णपर्वतः गृहामयः अस्ति । अत्र सुवर्णगवि(गवि नाम गुहा इत्यर्थः) बङ्गारदगवि, बूदगवि, लक्ष्मीदेवी गद्दुगे, योगसाधनागद्दुगे सन्ति । अनेके सिध्दाः अत्र तपः आचरितवन्तः । पर्वतस्य एकस्यां गुहायां सिद्धेश्वरलिङ्गः अस्ति । अत्र पर्वते सञ्जीविनी अस्ति (रोग नाशकवनस्पतिः )। श्वासरोगः, क्षयरोगः, उदररोगाः, अत्रत्यपर्णानां खादनेन नष्टाः भवन्तीति जनानां विश्वासः अस्ति। पर्वते विश्रान्तिम् अनुभवन्ति । कर्णाट्कस्य प्राक्तन- मुख्यमन्त्री श्री केङ्गल् हनुमन्तरायः अत्र आगत्य वासं कृतवान् इति विशेषविषयः । मार्गः तुमकूरुतः ३२.कि.मी बेङ्गलूरुतः १०० कि.मी
 
 
 
"https://sa.wikipedia.org/wiki/सिद्दरबेट्टः" इत्यस्माद् प्रतिप्राप्तम्