"कठोपनिषत्" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) →‎उपनिषत्सारः: clean up, replaced: ॆ → े using AWB
पङ्क्तिः ४:
इयमुपनिषत् आत्मविषयिण्या आख्यायिकया आरभ्यते । प्रामुख्येन यमनचिकेतसोः प्रश्नप्रतिवचनरुपा अस्ति । आरम्भस्तु नचिकेततत्पितोः सकाशात् भवति उशन् ह वै इत्यादिना आरभ्यते ।
वाजश्रवाः एकं विश्वजिद्यागं कुर्वाणः तदङ्गतया सर्वेभ्यः आगतेभ्यः ब्राह्मणॆभ्यःब्राह्मणेभ्यः दक्षिणां प्रयच्छति । तत्र काश्चन गाः पीतोदका जग्धतृणा दुग्धदोहा निरिन्द्रियाः सन्त्यः दुर्बला आसन् । ताः यदि ददाति पिता तर्हि निश्चयेन नीचं फलं प्राप्नोति तत्कारणात् नीचलोकानेव गच्छति यत्र आनन्दलेशोऽपि न भवति इति चिन्तयित्वा नदिकेताः स्वपितरमुपसर्प्य मां कस्मै ददाति इति द्विकृत्वः त्रिकृत्व्ः पृच्छति । तदा कुपितः पिता यमाय दास्यामि इति वदति । पितुः वचः मृषा मा भूत् इति कारणात् सः यमलोकं गत्वा यमस्य प्रतीक्षां करोति । यमः दिनत्रयानन्तरमागत्य स्वस्य विलम्बकारणात् ब्राह्मणकोपं सोढुं वरत्रयं प्रष्टुं सूचयति । पितुः शान्तताप्राप्तये प्रथमं वरं पृच्छति । द्वितीयेन वरेण अग्निविद्यां तृतीयेन च् आत्मविद्यां यस्मिन्निदं विचिकित्सन्ति इति मृत्युं प्रार्थयते । नचिकेतसः ग्रहणसामर्थ्य्ं दृष्ट्वा सः स्वयं अन्यमेकं वरं प्रदास्यति यत् अग्निविद्यायाम् अग्निः नाचिकेताग्निः इति नाम्ना ख्यायते । अन्ते च नचिकेताः प्रश्नमेकं पृच्छति –अन्यत्रधर्मात् अन्यत्राधर्मात् इत्यादिना ब्रह्मतत्त्वम् । तदा यमः सविस्तरं निरुपयति, न जायते म्रियते वा विपश्चित्, अणोरणीयान् महतो महीयान् इत्यादिद्वारा ।
 
आत्मनः निरुपणं रथादिकल्पनया स्पष्टं भवति तृतीयवल्याम् । तत्र रथी आत्मा, रथं शरीरं, सारथिः बुध्दिः, प्रग्रहं मनः, हयाः इन्द्रियाणि, मार्गाः विषयाः भवन्ति । परञ्चि खानि व्यतृणत् इत्यादिना धीरस्य वर्णनं श्रूयते । मनसैवेदमाप्तव्यं नेह नानास्ति किञ्चन इत्यादिना धीरस्य वर्णनं श्रूयते । मनसैवेदमाप्तव्यं नेह नानास्ति किञ्चन इत्यादिना च साधनानि कथितानि । ऊर्ध्वमूलोऽवाक्शाख इत्यनेन सर्वसंसारमूलत्वेन ब्रह्मणः निर्देशः च कृतः ।
"https://sa.wikipedia.org/wiki/कठोपनिषत्" इत्यस्माद् प्रतिप्राप्तम्