"केदारनाथः" इत्यस्य संस्करणे भेदः

(लघु) clean up, replaced: ॆ → े using AWB
पङ्क्तिः ७:
अनादिकालादपि एतत् क्षेत्रं यात्रिकान् आकर्षति । [[महाभारतम्|महाभारतस्य]] अनुगुणं [[पाण्डवाः]] अत्र बहुवारम् आगताः आसन् । [[अर्जुनः]] अत्रैव तपः आचर्य पाशुपतास्त्रं प्राप्तवान् । अर्जुनस्य पुनरागमने विलम्बः जातः इति कारणात् तम् अन्विषन्तः अन्ये अपि पाण्डवाः अत्र आगताः । अत्रैव [[दौपदी|द्रौपदी]] सौगन्धिकापुष्पस्य सुगन्धेन आकृष्टा अभवत् । पण्डवानाम् अन्तिमं प्रस्थानम् अपि अत्रैव अभवत् । [[शङ्कराचार्यः|शङ्करभगवत्पादानां]] निर्वाणम् अभवत् अस्मिन् क्षेत्रे एव । केदारेश्वरमन्दिरात् पर्लाङ्ग् द्वयस्य दूरे अस्ति तस्य समाधिः ।
 
गौरीकुण्डतः केदारपर्यन्तः ११मैल् परिमितः मार्गः अत्यन्तं दुर्गमः अस्ति । परन्तु तत्रत्या प्रकृतिः श्रमं विस्मारयति । गौरीकुण्डे उष्णजलस्य स्रोताः सन्ति । [[कार्त्तिकॆयःकार्त्तिकेयः|कार्त्तिकेयं]] प्रसूतवती [[गौरी]] अत्र स्नानम् अकरोत् इति । यात्रिकाः अपि अत्र भक्त्या स्नान्ति । गुप्तकाशीतः अनति दूरे एव त्रिजुगीनारायणक्षेत्रम् अस्ति । अत्र नारायणास्य मन्दिरम् अस्ति । रुद्रकुण्डं ब्रह्मकुण्डं च अस्ति । यात्रिकाः अत्र कुण्डद्वये स्नात्वा सरस्वतीकुण्डे तर्पणं कुर्वन्ति । श्रीमन्नारायणास्य नाभितः प्रवहन्ती सरस्वती सरस्वतीकुण्डं प्रविशति । नारायणमन्दिरस्य पुरतः विद्यमानम् अग्निकुण्डं [[त्रेतायुगम्|त्रेतायुगतः]] एव ज्वलत् अस्ति इति वदन्ति । अस्य एव अग्निकुण्डस्य सम्मुखे शिवपार्वत्योः विवाहः सञ्जातः इति । यात्रिकाः अस्मिन् कुण्डे घृतं स्थापयन्ति ।
शैत्यकाले केदारः सम्पूर्णतया हिमावृतः भवति । वैशाखमासे [[सूर्यः|सूर्यस्य]] मेषराशिं प्रति प्रवेशदिने मन्दिरम् उद्घाट्यते । सूर्यस्य वृश्चिकराशिप्रवेशदिने मन्दिरस्य पिधानं क्रियते । तदवधौ उखीमठे केदारेश्वरस्य पूजा प्रचलति । हरिद्वारस्य कुम्भमेलावसरे केदार-बदरि-यात्रायाः महत्त्वम् अधिकम् । अर्धकुम्भमेलावसरे अपि यात्रिकाः केदारबदरीयात्रां समाप्य एव प्रतिगच्छन्ति । केदारयात्रां विना बदरीयात्रा पूर्णा न भवति । केदारं प्रति गन्तारः यात्रिकाः प्रथमं जमुनोत्रीं गङ्गोत्रीं च गत्वा ततः केदारेश्वरस्य अभिषेकार्थं जलं स्वीकुर्वन्ति । अनन्तरं [[हरिद्वारम्|हरिद्वारं]], ततः [[हृषीकेशः|हृषीकेशं]], ततः [[देवप्रयागः|देवप्रयागं च गत्वा अग्रे यात्राम् अनुवर्तयन्ति । यमुनोत्रीतः उत्तरकाशीं दृष्ट्वा गङ्गोत्रीं गच्छन्ति । अग्रे त्रिजुगीनारायण-गौरीकुण्डमार्गेण केदारं प्राप्नुवन्ति । ह्रुषीकेशतः साक्षात् देवप्रयाग-श्रीनगर-रुद्रप्रयाग-उखीमठस्य मार्गेण अपि केदारं प्रति गन्तुं शक्यते । केदारसमीपे एव नदी मन्दाकिनी उद्भवति । उद्भवस्थानतः ४५ मैल् दूरे रुद्रप्रयागसमीपे [[अलकानन्दा|अलकानन्दां]] मिलति मन्दाकिनी । अस्यां नद्यां स्नानकरणं पुण्यकरम् इति उच्यते ।
पङ्क्तिः १४:
[[शिवपुराणम्|शिवपुराणस्य]] [[कोटिरुद्रसंहिता|कोटिरुद्रसंहितायां]] केदारेश्वरसम्बद्धा काचित् कथा अस्ति । नरनारायणौ बदरिकाश्रमे तपः आचरन्तौ आस्ताम् । तौ तदवसरे शिवस्य पार्थिवलिङ्गस्य पूजां कुर्वन्तौ आस्ताम् । तयोः तपसा तुष्टः शिवः प्रत्यक्षः जातः । तदा नरनारायणौ शिवं “ज्योतिर्लिङ्गरूपेण अत्रैव निवसतु” इति प्रार्थितवन्तौ । तदनुगुणं केदारे शिवः केदारेश्वरनाम्ना अतिष्ठत् ।
 
 
[[वर्गः:द्वादश ज्योतिर्लिङ्गानि]]
"https://sa.wikipedia.org/wiki/केदारनाथः" इत्यस्माद् प्रतिप्राप्तम्