"छत्रपति शिवाजी" इत्यस्य संस्करणे भेदः
Content deleted Content added
(लघु) added Category:मराठाराजाः using HotCat |
(लघु) clean up, replaced: ॆ → े (39), ॊ → ो (7) using AWB |
||
पङ्क्तिः १:
[[File:Shivaji Statue.jpg|250px|right|छत्रपतिः शिवाजिः]]
कश्चित् बालकः एकस्मिन् लघुनि सिंहासने उपविष्टवान् आसीत् । तस्य भटाः कञ्चन ग्रामाधिकारिणम् आनीतवन्तः । तस्य अपराधः एवम् आसीत् एकस्याः अनाथविधवायाः बलात्करणम् इति। ग्रामाधिकारिणः हस्तौ पादौ च बद्धौ आस्ताम् ।
अनाथानाम् असहायानां रक्षणं ग्रामाधिकारिणः कर्तव्यम् । किन्तु सःन
दृढस्वरेण बालराजकुमारः स्वनिर्णयं प्रकटितवान् -’एतस्य पादद्वयं, हस्तद्वयं कर्तयन्तु'इति।सर्वे जनाः आश्चर्यचकिताः जाताः, आनन्दमन्वभवन् च । जनाः चर्चां कुर्वन्ति स्म-"पश्यतु अस्माकं बालराजकुमारः न
कोऽसौ राजकुमार इति ज्ञातुमिच्छा अस्ति वा ? सः एव शिवाजि: । अस्याः घटनायाः समये तस्य आयुः आसीत् केवलं चतुर्दशवर्षानि । शिवराजराज्ये पूना, तत्समीपप्रान्ताः च आसन् । पिता शाहराजः बीजपुरराजस्य (सुलतानस्य) सभायाम् एकः सेनापति: । जनकः पुत्रस्य स्वभावं सम्पूर्णतया जानाति स्म । विदेशीयानां पालकानां पुरतः अनमतः स्वकुमारस्य सिंहसदृशं धैर्यं यदा शाहराज:स्मरति स्म तदा तस्य हृदयं पुलकितं भवति स्म । सा घटना एव अद्भुता-
एकदा शाहराजः स्वपुत्रं बीजपुरराजस्य सभां नीतवान् । तदा शिवराजः द्वादशवर्षीयः अपि नासीत्। तदानीन्तन-सम्प्रदायानुसारं शाहराजः त्रिवारं हस्तेन भूमिं स्पृशन् शरीरं नामयित्वा प्रभोः नमस्कारं (सलाम्) कृतवान् । स्वपुत्रमपि तथैव
{{निर्वाचित लेख}}
<br>
पङ्क्तिः १५:
[[File:Shivaji Maharajs Statue on Pratapgad.JPG|300px|right|'''छत्रपतिः शिवाजी''']]
==’शिवनेरी’ भाग्यम्==
१६२७
तोरणदुर्गविजयानन्तरं शिवराजः एकस्यानन्तरं एकं दुर्गं जितवान् । शिवराजस्य विजयवार्ताः बीजपुरमहाराजस्य (सुलतानस्य) कर्णौ प्राप्तवत्यः । शिवराजस्य एतान् विजयान् निरोद्धुम् एकं कुतन्त्रं कृतवान् सः । शाहराजं कारागारे स्थापितनवान् । शाहराजं कारागारे बध्द्वा हिनस्तीति, शिरश्छेदनं करिष्यतीति वार्ताः शिवराजं प्राप्तवत्यः।
अत्र स्वराज्यस्थापनानन्दे मग्नस्य शिवराजस्य ताः वार्ताः वज्राघात इव लग्नाः । तस्य मातुः जीजायाः मनः अपि एतया वार्तया व्याकुलितम् अभवत् । स्वस्य सौभाग्यं यमः कर्षयन्नस्तीति तया अनुभूतम् । एतया वार्तया सह विषादकरं वार्ताद्वयं अवाप्तम् । प्रथमा वार्ता फतेखान् -नामक: बीजपुर(सरदारः)सेनानी महता सैन्येन शिवराजं आक्रान्तुं प्रस्थितः इति । द्वितीया वार्ता- फरादखाननामकः अन्यः बीजपुरसेनानी शिवराजस्य सोदरं सभाजिराजं बन्धुं प्रेषितः अस्ति इति । शिवराजं पराजित्य, वित्रास्य वा कथमपि निग्रहीतुम् एतादृशं कुतन्त्रं रचितम् आसीत्। शिवराजः यदि वशो न भविष्यति, अथवा सङ्ग्रामं न त्यजति तथापि तस्य पितुः प्राणानां हानिः भविष्यति ।
पङ्क्तिः २३:
अष्टादशवर्षाणां वयस्येव शिवराजः कोङ्कण-पुरन्दर- प्रतापगृह-राजगृह-चाकणेत्यादिनि चत्वारिंशत् दुर्गाणि स्वायत्तीकृत्य तत्र भगवद्ध्वजं प्रतिष्ठापितवान् । अस्मिन् समये एव देशस्य पश्चिमभागे आंगलेयाः पोर्चगीसजनाः च पदनिक्षेपं कुर्वन्तः आसन् । एते विदेशीयाः यदा कदापि भारतदेशं सङ्कटेषु पातयिष्यन्तीति सः पूर्वमेव समभावयत् । एतेभ्यः देशरक्षणाय समुद्रतीरप्रान्तेषु दुर्गाणां निर्माणम् आरभत । युध्दाय योग्याः नौकाः, नाविकादलं च निरमात् । विदेशीयशक्तिभ्यः सम्भविष्यमाणाम् आपदं पूर्वमेव ज्ञातवान् । तेषाम् आक्रमणानि निरोध्दं योग्यां रक्षणव्यवस्थां व्यरचयत् च एवं शिवराजः बहुदूरदर्शी आसीत् ।
==शत्रूणां स्ंहार:==
शिवराजः स्वराज्यनिर्माणे सफल: भवन्नस्तीति दृष्ट्वा आदिलशाहस्य (बीजपुरसुलतानस्य) मनः व्याकुलितम् अभवत् । निस्पृहता आवृता । ’शिवराजः आस्मिन् दिने एतद् दुर्गं जितवान् , ह्यः तद् दुर्गं जितवान् ’ इत्यादि वार्ताः प्रतिदिनं सः श्रृणोति स्म । राज्ञः सपत्नीमाता उलियाबेगम् नाम्नी शिवराजं नितरां
किन्तु शिवराजः स्वपरिधिम् अतिक्रम्य बहिः नागतवान् । अफजलखानस्य कुतन्त्रं सः ज्ञातवान् । दुर्गं त्यक्त्वा बहि: युध्दं
यथाकथञ्चित् शिवराजं प्रतापगढतः भूप्रान्तम् आनेतुम् अफजलखानः एकं दूतं शिवराजस्य
खानः स्वपरिवारेण सह तम् अटवीप्रान्तं प्राप्तवान् । प्रतापदुर्गस्य अधोभागे एकं शिबिरं निरमात् । अफजलखानस्य शिवराजस्य च मध्ये सन्धिरचनाय निर्णयः जातः । शिवराजः अत्यधिकं भीतः इति कारणतः अफजलखानः शिवराजम् एकान्ते मिलेदिति, तयोः अङ्गरक्षकद्वयं द्वारे तिष्ठेदिति च निर्णीतम् ।
सूर्योदयानन्तरं समावेशः भविष्यति । पूर्वदिने रात्रौ शिवराजस्य मित्राणां नेत्राणि न निमीलितानि । नेताजि:, तानाजि:, कन्होजि: इत्यादयः शिवराजस्य अत्यन्तविधेयाः सेनानायकाः स्वस्वसैन्यानि स्वीक्रुत्य दुर्गस्य अधोभागे अरण्ये निः शब्दं स्थितवन्तः । दुर्गात् यदा शतध्नीनां शब्दः श्रूयते तदा खानसैन्यं आक्रान्तव्यम् इति पूर्वमेव सूचना तेभ्यो दत्ता । रात्रिः अतीता । सूर्योदयः जातः । शिवराजः ईश्वरपूजां क्रुत्वा शिरसि शिरस्त्राणं , शरीरे अयः कवचं धृत्वा, भवानीप्रसादितं खड्गं स्वीकृत्य, हस्तयोः व्याघ्रनखानि धृत्वा भवानीमातरं स्मरन् दुर्गस्य अधोभागे स्थितम् अफजलं मेलितुं प्रस्थितः । समावेशस्थानम् अरण्यमध्ये निश्चितम् । अफजलखानशिबिरतः तत् स्थलं न दृश्यते । शिवराजस्य आगमनं अफजलखानः समावेशस्थानतः दृष्टवान् । यदा शिवराजः प्रविष्टवान् तदा खानः उत्थितवान् । एकक्षणं द्वयो:
खङ्गस्योपरि अफजलखानस्य शिरः लम्बयित्वा शिवराजः दुर्गं आरोहति स्म । तत्क्षणे आकाशं मुखरयन् शतध्नीनां नादः आरब्धः । खानस्य सैन्यं मदिरापरवशम् आसीत् । तत्र जायमानां स्थितिं ते न जानन्ति स्म। प्रायः शिवराजं खानः अबध्नात् इत्येव ते चिन्तयन्ति स्म । शिवराजस्य सैन्येन अकस्मात् तेषामुपरि आक्रमणं कृतम् ।तुलजाभवान्याः कृते जातस्य अपमानस्य सम्पूर्णं प्रतीकारं कृतवन्तः सैनिकाः । खानस्य सैन्यं सम्पूर्णतया ध्वस्तम् । पुनः शिवराजमेव विजयलक्ष्मीः वृतवती । शिवराजः स्वमातुः सकाशे एकं पुरस्कारं प्रेषितवान् । तत् किम् ?...अफजलखानस्य शिरः तत् ।
शिवराजस्य कीर्तिः देशे विदेशेषु च व्याप्ता आसीत् । अफजलस्य वधोदन्तं श्रुत्वा सर्वे तं प्रशंसन्ति स्म । बीजपुरसुलतानन्तु दुःखमेघाः आवृण्वन् । एतैः विजयैः शिवराजः न तृप्तः । तप्तम् अयः आवश्यकतानुसारं यथा परिवर्तयामः तथा परितः स्थितानि अनेकानि दुर्गाणि आक्रान्तुं प्रस्थितवान् ।
बीजपुरसुलतानः अन्यं सेनापतिं सप्ततिसहस्रपदातिसैन्येन सह शिवराजं निग्रहीतुं प्रैषयत् । सेनापतिः सिद्दीजोहरः शिवराजम् आक्रान्तुं गतवान् । तदा शिवराजः पन्हालदुर्गं प्राप्तवान् । सुलतानस्य साहाय्यार्थम् आङ्ग्लेयाः स्वगोलकास्स्त्रदलम् अपि प्रेषितवन्तः । तेषां साहाय्येन सिद्दीजोहरः पन्हालदुर्गं परिक्रान्तवान् । शनैः, शनैः तदाक्रमणं बलहीनं भवतीति शिवराजः अचिन्तयत् । किन्तु तथा नाभवत् । सुलतानः आदिलशाहः देहलीमहाराजस्य औरङ्गजेबस्य अपि साहाय्यं प्रार्त्थितवान् । औरङ्गजेबः स्वमातुलं
एतादृशसङ्कटस्थितौ जीजाबाई समर्थतया पालनव्यवहारादिकं निर्वहति स्म । यथाकथञ्चित् दुर्गात् बहिः गन्तव्यम् इति शिवराजः प्रणालीं रचयन् आसीत् । किन्तु कथं सम्भवति ? सिद्दीजोहरस्य सैन्यं तु यथाकथञ्चित् परिक्रान्तव्यमेवेति दृढसंकल्पः आसीत् । तदा शिवराजः एकम् उपायम् आलोच्य एकस्य दूतस्य द्वारा सिद्दीजोहराय एकं सन्देशं प्रेषितवान् ।--‘अहं मम पराजयम् अङ्गीकर्तुं सिद्धः अस्मि । यदि भवान् अङ्गीकरोति तर्हि श्वः एव मम दुर्गं भवदधीनं करोमि । कृपया भवान् मम अपराधान् क्षाम्यतु ।’इति
शिवराजः वशीभविष्यतीति वार्तां प्राप्य सिद्दीजोहरस्य सेना तस्यां रात्रौ आनन्दे मग्ना । केवलं तान् वञ्चयितुमेव तत्पत्रं लिखितम् इति ते न ज्ञातवन्तः । तस्यां रात्रौ मेघाः गर्जन्ति स्म । विद्युतः विद्योतन्ते स्म । धारापात इव वृष्टिः भवति स्म । तस्मिन्नेव समये शिवराजः स्वकीयेन अष्टशतसंख्याकेन सेनानिवहेन सह गूढं पन्हालगढतः विशालगढदुर्गं प्रति प्रयातः । सिद्दीजोहरस्य सेनारक्षकाः स्वशिबिरेषु उपविश्य शिवराजः वशीभूत इत्यानन्दे आसन् । तेषां मनसि लेशोऽपि सन्देहः भवति चेत् शिवराजस्य प्रणाली भग्ना भविष्यति । शिवराजः तैः गृहीतो भविष्यति । अतः शिवराजस्य सेना प्रतिपदम् अत्यन्तजागरुकतया पदानि निक्षिपन्ती पुरतो गच्छति स्म । भवानीमातुः कृपाकारणतः शिवराजस्य लघुसेना कस्यापि शत्रोः दृष्टौ न पतिता तस्मात् सेनानिवेशात् बहिरागता च ।
शिवराजेन सह स्थिताः मावलीसैनिकाः स्वमहाराजं शिबिकायाम् उपवेश्य वहन्तः सवेगं धावन्ति स्म । तदा एका विद्युत् लसिता। सर्वोपि प्रदेशः कान्तिमान् जातः । तस्मिन् प्रकाशे सिद्दीजोहरस्य गूढचरः कश्चन धावतः सैनिकान् अपश्यत् । तत्क्षणं धावन् सिद्दीजोहरं प्राप्य ‘शिवराजः पलायितवान्" इति वार्ताम् अश्रावयत् । वार्ताश्रवणेन सिद्दीजोहरस्य शिरसि वज्राघात जात: इव । तथापि सः न भीतः । स्वस्य जामातरं सिद्दीमसूदम् अधिकसंख्याकेन आश्विकदलेन सह प्रेषयन् वेगेन शिवराजम् अनुधाव्य बन्धुम् आदिशत् । तेभ्यः पलायनं कष्टमिति शिवराजः ज्ञातवान् । एकम् उपायम् अचिन्तयत् । तत्क्षणं शिबिकां परिवर्तितवान् । सा शिबिका अन्यमार्गेण गता । शिवराजस्य सेनायां शिवराजसदृशः अन्य कश्च्न सैनिकः आसीत् । सः शिवराजस्य वेषं धृत्वा प्रथमशिबिकायाम् आसीनः अभवत् । सिद्दीमसूदः तां शिबिकां, तां सेनां च बद्धवा सिद्दिजोहरस्य समीपम् अनयत् । किन्तु तत्र ज्ञातं यत् तस्य सैनिकस्य नाम् शिवराज एव , किन्तु सः प्रतापदुर्गनिवासी कश्चन क्षौरिक: इति । तत् श्रुत्वा सिद्दीजोहरस्य सेना लज्जया विवर्णा जाता ।
क्रोधावेशैः सिद्दीमसूदः पुनः शिवराजम् अन्वधावत् । तदैव शिवराजः स्वसैनया सह पञ्चविंशतिमीलदूरं गतवान् । गाजापुर -उपत्यकां प्राप्तवान् च । ततः किञ्चिद् दूरे एव विशालदुर्गम् आसीत् । सिद्दीमसूदः दन्तान् घट्टयन पञ्चसहस्रसङ्खाकैः सैनिकैः सह तान् अन्वगच्छत् । शिवराजस्य सेनायां बाजीप्रभुदेशपाण्डे इति पराक्रमी सेनानी आसीत् । सः भीमसदृश-बलशाली । सः शिवराजं प्रार्थितवान् -‘महाराज ! भवान सेनार्धेन सह विशालगढं सुरक्षितं प्राप्नोतु । शिष्टेन
सागरोर्मिवत् पततः आदिलशाहस्य सैनिकान् बाजीप्रभुः गृञ्जनकानीव कर्तयति स्म । घोरः सङ्ग्रामः जातः तस्य ग्रात्रं सर्वमपि व्रणैः रक्तसिक्तम् अभवत् । स्वव्रणान् अगणयित्वा सायं पर्यन्तं सः युद्ध्यन्नेव आसीत् । बाजीप्रभुसैनिकाः बहवः मृताः । अन्ते बाजीप्रभोः प्राणोत्क्रमणं यथा भवेत् तथा शत्रुः कश्चन खड्गेन मारितवान् । बाजीप्रभुः खड्गप्रहारपीडया मृत्युवेदनाम् अनुभवन्न्पि मृत्युं प्रार्थितवान् -‘हे मृत्यो ! मम कर्तव्यसमाप्तिपर्यन्तं किञ्चित् तिष्ठतु ।’ इति । तदा एव विशालदुर्गतः पञ्चवारं शतध्नीनां शब्देन सूचना श्रुता । तस्यार्थः शिवराजः सुरक्षितं विशालदुर्गं प्राप्तवानिति । बाजीप्रभुः अत्यानन्दम् अनुभूतवान् । खड्गं त्यक्त्वा दिवङ्गतः । तस्य मुखे कर्तव्यसमापनतृप्तिः दृश्यते स्म । आत्मार्पणं कृतवतां तेषां वीराणां बलिदानेन सः प्रदेशः पवित्रः जातः । तदारभ्य जनाः तं प्रदेशं पवित्रस्थानम् इति वदन्ति ।
शिवराजः पन्हालदुर्गत: पलायितः इति वार्ता बीजपुरसुलतानः ज्ञातवान् । तस्य शिरसि सहस्त्रशः वज्राघाताः जाताः इव । तस्य धैर्यं क्षीणं जातम् । शिवराजं पुनः आक्रान्तुं तस्य साहसं नासीत् । किन्तु शिवराजस्य राज्ये
शिवराजस्य बाल्यमित्रं बाबाजी कैश्चित् सैनिकैः सह मुघलसेनायाः वलयं प्रति प्रस्थितः । तमं शिवराजः अल्पसङख्याकैः सैनिकैः सह अनुसृतवान् । परस्परं भाषामाणाः साधारणसैनिका इव ते मुघलसैन्यवलयं प्रविष्टवन्तः । परिरक्षकाः यदा न्य्रुन्धन् तदा " वयं पर्यटन्तः रक्षकभटाः । अस्माकं रक्षणसमयः समाप्तः, अतः इदानीम् अस्माकं निवासं प्रति गच्छामः । " इति विश्वासितवन्तः । परिरक्षकाः विश्वासं प्राप्तवन्तः । सर्वे सेनानिवेशस्य अन्तः प्रविष्टाः । शिवराजः साक्षात् भवनस्य पश्चादभागं प्राविशत् । ततः पाकगृहं प्राप्तवान् । तत्रत्यान् सर्वान् संहृत्य, शनैः
एतदन्तरे शिवराजस्य सेनापि भवनान्तर्भागं प्रविष्टा । लालमहले सर्वत्र शत्रवः प्रविष्टाः इति वार्ता दावानलज्वाला इव प्रसृता ।
एतेन संघटनेन शिवराजस्य शत्रूणां भीतिरवर्धत । एतावत्पर्यन्तं सः एकः पर्वतीयमूषक इत्येव चिन्तयन्तः आसन् ते । इदानीं तु तस्य
स्वराज्यनिर्माणार्थं, पदातिदल-नौकादलनिर्माणार्थं, राज्ये उत्तम-परिपालनरचनाय, विशिष्य शत्रुनिग्रहणार्थं धनम अत्यन्तमावश्यकम् । अतः अन्यमार्गो नास्तीति शत्रुभ्य एव धनं सम्पादनीयम् इति निश्चितवान् शिवराजः । औरङ्गजेबस्य कोशागारम् अपहर्तुं निश्चयः जातः । तेषु दिनेषु सूरतनगरं कुबेरनिवासः इति, धनिकानां निलयः इति च प्रवादः आसीत् । ततः एव शिवराजः आगण्यं धनम् आर्जितवान् ।
==मुघलचक्रवर्तिनः जालः==
शिवराजस्य चेष्टाः औरङ्गजेबस्य शिरोवेदना इव जाताः कोपेन तप्तः सः । शिवराजं नाशयितुम् अत्यधिकेन सैन्येन दक्षिणप्रान्तमगन्तुमैच्छत् । किन्तु तस्य पर्वतमूषकस्य नखतीक्ष्णताम् पूर्वमेव आस्वादयत् सः । अतः किञ्चिदालोच्य् ‘सिंहं प्रतियोद्धुं सिंह एव आवश्यक’इति निश्चितवान् । एतस्य कार्यस्य कृते मीरजामहाराजं जयसिहं चितवान् ।
राजा जयसिंहः न केवलं महान् पराक्रमी, विवेकी सेनापतिश्च । एतादृशः योग्यः पुरुषः परधर्मीयाणां सेवायां ध्न्यो भवामीति चिन्तयतीति ल्ज्जास्पदः विषयः अस्माकम् । अधिकसेनया जयसिंहः दक्षिणापथमागतः बीजपुरसुलतानेन सन्धिं विरचितवान् । सर्वाभ्यः दिग्भ्यः शिवराजं परितः सेनां निवेशितवान् । शिवराजः एकेन लेखेन सन्घिं प्रस्तुतवान् । तथैव
सह्याद्रिगिरिशिखरेषु स्वेच्छया विहरन् मृगराजः शिवराजः किमर्थम् एवं हठात् चक्रवर्तिनः वशीभूतः ? इति सर्वे आश्चर्यचकिताः जाताः
किन्तु शिवराजः महत्याम् आपदि पतितवान् । हस्तगतं शत्रुं त्यक्तुं मूर्खः न चक्रवर्ती । शिवराजं बद्धवा तस्य शिरश्छेदं कर्तुम् आज्ञप्तवान् ।
एतादृशस्थितावपि शिवराजः स्वधैर्यं न त्यक्तवान् । विपदि स्थितौ शिवराजस्य बुद्धिः, धैर्यं च वेगेन कार्यं करोति स्म । हठात् शिवराजः रुग्णः । तस्य स्वास्थ्यं
यथापूर्वं मधुराणां करण्डा एव गच्छन्तीति रक्षकभटाः चिन्तितवन्तः तेषां नायकः फौलादखानः कांश्चन् करण्डान् परीक्षितवान् च । तत्र केवलं मधुराण्येव आसन् । दैववशात शिवराज;, सम्भाजिराज:च यत्र आस्ताम् तत्र तस्य हस्तः न आगत: । भवानीमातु: कृपा, शिवराजस्य युक्तिः, फौलादखानस्य गर्वं इति सर्वम् अनुकूलितम् । भगवतः आशयः शिवराजः सजीवो भवेदिति । फौलादखानः? ‘त्यजतु’ इत्याज्ञप्तवान् ।
कारावासे शिवराजस्य शय्यायां तस्य मित्रं
प्रातः अभवत् । शिवराजस्य शिरश्छेदनं तस्मिन्नेव दिने । फौलदखानः अन्तः आगतवान् । तत्र निः शब्दवातावरणं प्रसृतमस्ति । तस्य कश्चन सन्देहः जातः । पुरतः गत्वा शिवराजं निद्रामग्नं दृष्ट्वान् । सर्वं सम्यगस्ति इति चिन्तितवान् । तत्र कोऽपि कोलाहलः नास्तीति ज्ञातवान् । शिवराज: मृतो वा इति सन्देहः आगतः । कम्बलम् अपावृत्य अपश्यत् । तत्र केवलं शय्या, उपधानं च स्तः । सः स्तम्भीभूतः । खङ्गप्रहारेणापि चलनरहित इव सम्भूतः । शिवराजः पलायितः । फौलदखानस्य स्थितिरेव एतादृशी चेत् औरङ्गजेबस्य स्थितिः कीदृशी इति ऊहितुं शक्नुमः । सः सहस्रवृश्चिकैः दष्ट इव आसीत् । तत्क्षणं शिवराजं बन्धुं सेनामाज्ञप्तवान् । सेनया चतुर्दिशः प्रसृत्य अन्वेषणम् आरब्धम् ।
पूर्वनिर्दिष्टप्रणाल्यनुसारं शिवराज- शाम्भराजयोः कृते अश्वौ सिद्धौ आस्ताम् । करण्डकेभ्यः बहिरागत्य तौ दक्षिणादिशं प्रस्थितौ । अतिवेगेन प्रयातौ तौ । मध्येमार्गं रामदासस्य मठाः तेषाम् अपयोगाय अभवन् । संन्यासिवेषे शिवराजः रायदुर्गं प्राप्तवान् । एकक्षणं जीजामाता शिवराजं न ज्ञातवती । अभिज्ञानानन्तरं पुत्रम् आलिङ्ग्य अनन्दाश्रूणि सारितवती । मातापुत्रयोः समागमः सर्वानन्दकरः अभवत् ।
दक्षिणादेशस्थाः तस्य शत्रवः ‘सः आगरातः पलायितः’ इति ज्ञात्वा भीतिम् अनुभूतवन्तः । तेषां वाक् न निस्सरति स्म् । इदानीं किं भविष्यतीति कम्पितवन्तः । एतया घतनया शिवराजस्य कीर्तिः देशे दशदिशः व्याप्ता । अत्यन्तं कपटः आसीत् औरङ्गजेबः । तस्य अक्षणोः धूलिं प्रक्षिप्य, तस्य अधीनतः, राजधानीतः, प्रतिदिनं रक्षद्भ्यः रक्षकभटेभ्यः सकाशात् आत्मानं गोपायित्वा सः पलायितवान् । सर्वाभ्यः दिग्भ्यः अनुधावतां सहस्रसङ्ख्याकानां मुघलसैनिकानाम् अक्षीणि निमेल्य सः सहस्रमीलदूरं प्रययौ । एतादृशं पराक्रमोपेतं, युक्तिमन्तम् अपूर्वं पुरुषं लोके पूर्वं कदापि , कुत्रापि ,को?ऽपि न दृष्टवान् ।
==धर्मपरिरक्षकः==
हिन्दुजातेः प्रेरणा यथा भवेत् तथा हिन्दुसाम्राज्यं निर्मितवान् शिवराजः । किन्तु शास्त्रोक्तविधानेन तावत्पर्यन्तं पट्टाभिषिक्तः नाऽभवत् । अत एव केचन शिवराजं
बीजपुरसुलतानः, आंग्लेयाः शिवराजं स्वतन्त्रराजरूपेण सम्मान्य पुरस्कृतीः प्रेषितवन्तः । एतस्य अद्भुतस्य दृश्यस्य समर्थरामदासः अत्यानन्देन काव्यरूपं कल्पितवान् । "एषा भूमिः, धर्मश्च उद्धृतौ, रक्षितौ च । भव्यः स्वराज्यभानुः समुदितः ।" इति सः लिखितवान् ।
शत्रून् पराजित्य, राज्यसथापनमात्रेण शिवराजः न तृप्तः । प्रजानां सुखसन्तोषाद्यर्थम् अनेकविधं प्रयत्नं सः व्यदधात् । प्रजाः भगवत्स्वरुपाः इति भावितवान् । प्रजानां पीडा भवति चेत् न सहते स्म । प्रजाश्रेयसे स्वसैन्यम् अत्यन्तदूरमपि प्रेषयति स्म ।"मध्येमार्गं कुत्रापि प्रजानां किञ्चिदपि कष्टं न भवेत् । सस्यक्षेत्रेषु पर्णानि अपि सैनिकगमनकारण्तः न चलेयुः " इति आज्ञां ददाति स्म । कृषकाणां शिवराजः प्रेमस्वरूपः । धनिकाः भूस्वामिनः यदि निर्धनकर्षकान् पीडयन्ति तर्हि तेषां क्षेत्राणि स्वायत्तीकृत्य निर्धनकर्षकाणां कृते वितरति स्म सः ।
तदानीं समाजे अस्पृश्यतादुराचारः अधिकतया आसीत् । तदानीन्तनसमाजः स्वसोदरानेव अस्पृश्याः इति व्याजेन दूरे स्थापयति स्म । शिवराजः तान् सर्वान् प्रेम्णा दृष्टवान्, तेभ्यः स्वसैन्ये स्थानं दत्त्वा, तेषामर्हतामनुसृत्य उन्नतपदवीः अपि दत्तवान् । ते सर्वेऽपि शिवराजविषये अत्यन्तभक्तिश्रद्धादिभि:स्वविहितकार्यम् अनुतिष्ठन्ति स्म । स्वराज्यस्थापनविषये अत्यन्त -क्लिष्टसमस्याः अपि सम्मुखीकृतवान् शिवराजः । अस्मिन् महति कार्ये बहवः आत्मसमर्पणं क्रृतवन्तः । एकधर्मावलम्बिनः हिन्दवः परस्परं ईर्ष्या-
तेषु दिनेषु बहवः बलात्कारेण महम्म्दीयधर्मे परिवर्त्यन्ते स्म । तेषां तु पुनः हिन्दुधर्मे परिवर्तने आकाङ्क्षा आसीत् । किन्तु हिन्दुसमाजः एतान् स्वधर्मे पुनरागमनाय न अनुमनुते स्म । शिवराजाय एतत् नारोचत । शुद्धिकार्यक्रमेण तान् पुनः हिन्दुधर्मे आहूतवान् । समुद्रप्रयाणं तेषु दिनेषु निषिद्धम् आसीत् । एतं मूर्खवादं शिवराजः व्यतिरिच्य स्वयं स्मुद्रयुद्धानि क्रुतवान्, नैकासेनामपि निर्मितवान् ।अविनीतिपरेभ्यः जनेभ्यः शिवराजः क्रुध्द्यति स्म । मातृदेशद्रोहपरान् न क्षम्यति स्म । स्वपुत्रमपि दण्डयति स्म सः । शिवराजः धर्ममूर्तिः । बन्धुवर्गीयजनेषु अपि पक्षपातबुद्धिं न प्रदर्शयति स्म ।बुद्धिमतः, दायित्वज्ञानिनः जनान् सदा
शिवराजस्य स्वराज्यनिर्माणविषयिका एषा कथा अस्माकं देहं पुलकितं करोति । एतस्य ग्रन्थस्य पठनेन शिवराजः आदर्शरुपेण अनुसरणीयः पदे पदे सम्भावनीयश्च् । अस्माकं मनस्सु एषा भावना कुतः आयाति ? यतः शिवराजः देशार्थं, धर्मार्थं च अनेककष्टनष्टानि असहत । स्वप्राणानपि न गणितवान्, बहुवारं मृत्युमुखं प्रविष्टोऽपि । अन्तिमक्षणपर्यन्तं देशार्थं, धर्मार्थमेव चिन्तितवान् । ३०० वर्षेभ्यः अनन्तरम् अद्यापि तं क्षणमात्रं स्मरामः चेदपि अस्मासु नूतनोत्तेजनं जायते ।
भारतीय सम्राटः।
*[[भारतीय-सूची]]
[[वर्गः:१६३० जननम्]]
|