"दशरथः" इत्यस्य संस्करणे भेदः

(लघु) r2.5.2) (Robot: Modifying es:Dasharatha
(लघु) clean up, replaced: ॆ → े using AWB
पङ्क्तिः २:
<br>
<br>
'''दशरथः''' सूर्यवंशस्य चक्रवर्ती सन् [[रामायणम्|रामायणे]] प्रमुखं स्थानं भजते । [[अयोध्या]]धिपः अयम् [[अजः|अज]]महाराजस्य पुत्रः। दशसु दिक्षु रथं चालयति स्म इति हेतोः तस्य दशरथः इति नाम । तस्य कोसलदेशस्य भानुमतः पुत्री [[कौसल्या]] , केकयदेशस्य अश्वपतिमहाराजस्य पुत्री [[कैकेयी]] ,[[मगधददेशः|मगधदेशस्य]] [[शूरसेनः|शूरसेनस्य]] पुत्री [[सुमित्रा]] इति च तिस्रः पत्न्यः आसन् । तासु कौसल्यायाः श्रीरामचन्द्रः ,कैकेय्याः [[भरतः]] , सुमित्रायाः लक्ष्मणशत्रुघ्नौ इत्येवं चत्वारः पुत्राः । अपि च दशरथस्य [[शान्ता]] नामिका पुत्री आसीत् । तां दत्तकरूपेण अङ्गाधिपाय [[रोमपादः|रोमपादाय]] दत्तवान् आसीत्। दशरथस्य आस्थाने '''धृष्टिः''' ,'''जयन्तः''' ,'''विजयः''' ,'''सुराष्ट्रः''' ,'''राष्ट्रवर्धनः''' ,'''अशोकः''' ,'''मन्त्रपालः''' तथा '''[[सुमन्तः]]''' इति अष्टप्रधानाः आसन् । तेषु सुमन्त्रः मन्त्री तथा सारथिश्च आसीत् । अस्य [[वसिष्ठः]] , [[वामदेवः]] , [[जाबाली]] , [[कश्यपः]] , [[गौतमः]] , [[मार्कण्डेयः]] तथा [[कात्यायनः]] इति सप्त पुरोहिताः आसन् ।
==कैकेय्याः कृते दशरथेन दत्तं वरद्वयम्==
पुरा तिमिध्वजः नामा असुरः स्वर्गलोकम् आक्रम्य देवताभिः सह युद्धम् अकरोत् । देवताः पराजिताः अभवन् । तदा ते दशरथस्य साहाय्यं याचितवन्तः । दशरथः कैकेय्या सह देवलोकं गतवान् । तिमिध्वजेन सह युद्धं कुर्वन् तस्याघातेन दशरथः मूर्च्छितोऽभवत् । तस्मिन् क्षणे कैकेयी मूर्च्छितं दशरथं सुरक्षितं स्थलं नीत्वा तस्य शुश्रूषामकरोत् । जागरित: दशरथः तुष्टो भूत्वा कैकेय्याः कृते वरद्वयं दत्तवान् । आवश्यकतायां सत्यां तद् वरद्वयं प्राप्नोमीति कैकेयी अवोचत् ।
पङ्क्तिः ९:
यदा इन्द्रसाहाय्यार्थं दशरथः स्वर्लोकं प्रति गतवान् आसीत् तदा मृगयासमये [[श्रवणकुमारः|श्रवणकुमार]]नामकं ताण्डवमुनिकुमारं मृगभ्रान्त्या मारितवान् । तत्पितरौ दशरथाय पुत्रशोकप्राप्तिर्भवतु,तेन दशरथस्य मरणञ्च भवत्विति शापम् अयच्छताम् ।
==पुत्रकामेष्टिः==
दशरथस्य पुत्रसन्तानं नासीत् । अतः वसिष्ठसूचनानुसारं पुत्रकामॆष्टिंपुत्रकामेष्टिं निर्वर्तयितुं उद्युक्तोऽभवत् ।[[ऋष्यशृङ्गः|ऋष्यशृङ्ग'''मुनेः]] नेतृत्वे अयोध्यायां पुत्रकामेष्टिं निर्वर्तितवान् । यागान्ते सन्तुष्टः '''यज्ञनारायणः''' प्रसादरूपं पायसं दशरथाय प्रायच्छत् । तेन प्रसादेन दशरथस्य पुत्रप्राप्तिः अभवत् ।
==श्रीरामादीनां विवाहः ==
प्राप्ते यौवने सति दशरथः पुत्रेभ्यः विवाहसंस्कारं प्रायच्छत् । '''जनक'''तनयां [[सीता|सीतां]] श्रीरामचन्द्रः, [[ऊर्मिला|ऊर्मिलां]] लक्ष्मणश्च परिणीतवन्तौ । जनकस्य अनुजः [[कुशध्वजः]]। तस्य पुत्रीं [[माण्डवी|माण्डवीं]] भरतः ,[[श्रुतकीर्तिः|श्रुतकीर्तिं]] शत्रुघ्न: च परिणीतवन्तौ ।
"https://sa.wikipedia.org/wiki/दशरथः" इत्यस्माद् प्रतिप्राप्तम्