"नामदेव" इत्यस्य संस्करणे भेदः
Content deleted Content added
(लघु)No edit summary |
(लघु) clean up, replaced: ॆ → े, ॊ → ो using AWB |
||
पङ्क्तिः १:
पुरा पुण्डरीकपुरनामके ग्रामे नामदेव इति कश्चन् पाण्डुरङ्गभक्तः आसीत्। आहारस्वीकारसमये वा भवतु निद्रायां वा भवतु सः पाण्डुरङ्गमेव स्मरति स्म । पाण्डुरङ्गनामस्मरणेन पापानि विनष्टानि भवन्ति इति तस्य विश्वासः । तस्य भक्तिं दृष्ट्वा पाण्डुरङ्गः तृप्तः अभवत् । तस्य् भूतदयां परीक्षितुकामः आसीत् पाण्डुरङ्गः । स: एव शुनकरूपं धृत्वा पुण्डरीकपुरे आहाराय सर्वेषु गृहेषु विचचार । परन्तु न कोऽपि तस्नै आहारं दत्तवान् , प्रत्युत सर्वे तं ताडितवन्तः । बुभुक्षया पीडितं शुनकं दृष्ट्वा नामदेवः दयापूर्णमानसः अभवत् । झटिति एव गृहं प्रविश्य एकम् अपूपम् आनीतवान् । अपूपं शुनकाय दर्शयन् आगच्छतु आगच्छ्तु इति प्रेम्णा आहूतवान् । शुनकः समीपमागत्य तम् अपूपं गृहीत्वा पलायितः । परन्तु अपूपं न भक्षितवान् ।
तदा नामदेवः एवं चिन्तितवान् -शुनकः अपि पाण्डुरङ्गस्वरूप: एव । अस्मै रुचिकरम् अपूपं न द्त्तवान् अहम् । अत्र यदि घृतं
|