"मीमांसादर्शनम्" इत्यस्य संस्करणे भेदः

(लघु) r2.7.1) (Robot: Adding pt:Mimāṃsā
(लघु) clean up, replaced: ॆ → े (2) using AWB
पङ्क्तिः ३:
यद्यपि कतिपये विचारका मीमांसादर्शनं दर्शनरुपेण स्वीकर्तुं विवदन्ति तथापि वेदानां कर्मपरकां व्याख्यां धर्मस्वरुपविचारं च दृष्ट्वाऽमुष्य दर्शनस्वरुपे आपत्तिर्नास्ति । इतरदर्शनेष्विव मीमांसादर्शनेऽपि आत्मतत्त्वस्य विचारो विहितः । अतो यथा उत्तरमीमांसायां अर्थात् वेदान्ते आत्मेशरयोः प्रतिपादनात् दार्शनिकता स्थिरीक्रियते तथा पूर्वमीमांसायामपि तादृशविवेचनात् दार्शनिकताऽवश्यमेव स्वीकार्या ।
 
''मन्'' धातोर्निष्पन्नो “मीमांसा” शब्दः पूज्यविचार-यथार्थवस्तुरुप अनुसन्धानादिश्वर्थेषु गृह्यते । वेदस्य कर्मसिद्धानतानुगत व्याख्या मीमांसादर्शनस्य प्रधानलक्ष्यमस्ति । दर्शनशास्त्रे देवस्य रुपद्वयं प्रसिद्धमस्ति –कर्मकाण्डः ज्ञानकाण्डश्चेति । ज्ञानकाण्डश्चेति । ज्ञानकाण्डः उत्तरमीमांसाया विषयोऽस्ति, यत्र वेदस्य ज्ञानपरकम् विश्लेषणं कृतम् किन्तु कर्मकाण्डः पूर्वमीमांसायाः विषयो वर्तते, अतः पूर्वमीमांसापूर्व'''मीमांसा''' एव कर्ममीमांसा इत्यपि कथ्यते ।
 
मीमांसदर्शने वेदविहितं कर्म एव धर्मरुपेण प्रतिपादितम् । तदेव इहलौकिकानां पारलौकिकानां च सुखानां साधनमस्ति । यदा कर्म एव सुखदुःखयोः मूलकारणं भवति तदा तस्य सूक्ष्मविश्लेषणकारकं शास्त्रं कर्ममीमांसैव उपयुक्तं प्रतियते । मीमांसादर्शनम् अतिप्राचीनम् अस्ति । ब्राह्मणग्रन्थैः उपनिषदग्रन्थैश्च सूचितं भवति यत् प्राक्तनैः ऋषिभिः अनेकेषु अस्पष्टविषयेषु युक्तियुक्ताः विचाराः प्रस्तुताः । ते कर्ममीमांसाया आधारतत्वरुपाः सन्ति ।
पङ्क्तिः २२:
[[File:Homa kundam.JPG|thumb|होमकुण्डम्]]
यद्यपि आचार्यो जैमिनि मीमांसायाः सूत्रकारो वर्तते तथापि स आदि आचार्यो नास्ति यतोहि तेन स्वकृते मीमांसासूत्रे मीमांसादर्शनस्य अनेकेषां पूर्वाचार्याणां नामानि उल्लिखितानि । तदनुसारेण जैमिनेः पूर्वमीमांसायाः अष्टौ प्रसिद्धाः आचार्याः अभूवन् –
#[[आत्रेयः]]
#[[आश्मरथ्यः]]
#[[कार्ष्णाजिनिः]]
#[[बादरिः]]
#[[ऎतिकायनः]]
#[[कामुकायनः]]
#[[लाबुकायनः]]
#[[आलेखनः]]
 
पङ्क्तिः ८०:
 
==प्रभाकरमतानुसारमधिकरणविवेचनम्==
''अष्टवर्षं ब्राह्मणमुपनयीत तमध्यापयीत'' इति श्रुत्यनुसारं विधेय विषयत्वेन अध्यापनं प्रतीयते इति प्रभाकरमतम् । अन्येषां मते तु श्रुतिः अध्यापनस्यैव विधानं भवति इत्यन्यदेतत् । विधेः एव नियोगः इति संज्ञा । यस्मिन् प्रति नियोगः अर्थात् विधानं करिष्यते सः नियोज्यः इत्युच्यते । अतः नियोगः नियोज्यस्यापेक्षां करोति । तर्हि निजोज्य पदार्थः कः ? आचार्यत्वप्राप्यते यः भवति सः एव नियोज्यशब्दार्थः । अत्र कारणं तु उपनयीत इत्यत्र उपपूर्वक –नीधातोः विधिपूर्वकं स्वसमीपे शिष्यस्य नयनमेव अर्थत्वेन उच्यते । यतः उपनयीत इत्यात्मनेपदप्रयोगेण आचार्यस्य कर्मप्रतीतिरेव बोध्यते । आचार्यकर्मकरणे यः इच्छावान् सः नियोज्यः भवितुं शक्यते । उपनयने यः नियोज्यत्वेन नियुक्तो भवति सः एव अध्ययनेऽपि नियोज्यत्वेन तिष्ठति अर्थात् उपनयनपूर्वकाध्ययनकरणॆउपनयनपूर्वकाध्ययनकरणे एव अध्यापके एकप्रकारस्य संस्कारस्योत्पत्तिः भवति । स एव संस्कारः आचार्यशब्दस्य प्रवृत्तिनिमितो भवति । अनेन निमित्तेन सः आचार्य इति कथने योग्यः इति । “ अष्टवर्षं ब्राह्मणमुपनयीत तमध्यापयीत” इति शृत्यर्थं प्रतिपादयन् नियोगः कः ? नियोज्यः कः ? इत्यादि विषयसम्पादनेन आचार्यः प्रभाकरः अधिकरणमारचयति ।
==श्रुत्यादीनां प्रामाण्यविचारः==
श्रुत्यादयः षट् वेदोक्तार्थनिर्णये प्रमाणानि भविष्यन्ति । तत्र सूत्रम् –“श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाखानां समवाये पारदौर्बल्य मर्थविप्रकर्षात्” (जै० सू०- ३-३-१४) इति मन्त्रदेवताहविरादि द्रव्याणां विनियोगः कुत्र कर्तव्यः ? इतीमामाकाक्षां निर्धारयन् श्रुत्यादिषटप्रमाणानि प्रवर्तन्ते । इमानि षट् एकस्मिन् काले अथवा सर्वदा एकत्र प्रावर्तिष्यन्त् तर्हि अनवस्या स्यात् । अतः पारदौर्बल्य मर्थविप्रकर्षात् इत्युक्तम् । यत्र प्रमाणद्वयस्य सन्निपातः तत्र पूर्वापेक्षया अपरं प्रमाणं दुर्बलमित्युच्यते । एतत् क्रमानुसार सवेषां प्रमाणानां निर्णायकत्वेन मुख्यत्वेन च श्रुतिरेव अन्तिमत्वेन तिष्टति । अस्याः अपेक्षया अन्ये लिङ्गदयः सर्वे दुर्दलाः भविष्यन्ति ।
पङ्क्तिः ११४:
ईश्वरकृताः वेदाः” इति वैशेषिकाः नैयायिकाः वेदान्तिनश्च भणन्ति । तत्र कारणम्-कण्ठताल्वाद्यभिधातजन्य –वर्णारुपाणां वेदानामपोरुषेयत्वासम्भवात् इति । ब्रह्मणः स्वासोच्छवासरुपेण वेदानामुत्पत्तिः इति श्रूयते । आप्तोक्तत्वे यया प्रामाण्यं तथा तेषां वेदानां प्रामाण्यमुत्पद्यते । भवति ऋङ्म्न्त्रः –
:'''तस्माद्यज्ञत्सर्बहुतः ॠचः सामानि जज्ञिरे ।'''
:'''छन्दांसि जज्ञिरे तस्माद्यजुस्तस्मादजायत ॥'''
: - (ऋ० सं० १०-३०३) इति
एवमुपनिषदि-
यो ब्राह्मणं विदधाति पूर्व्ं यो वै वेदांश्च प्रहिणोति तस्मै (श्वे० उ० ६-१८) इति च भवति न्यायसूत्रमपि –मन्त्रायुर्वेद प्रामाण्यवच्च तत्प्रामाण्यमाप्तप्रामाण्मात् (न्या० सू० २-१-६३) इति । एवमादिभ्मः मन्त्रोपनिषद्वाक्येभ्यः ईश्वरकृतत्वम् ईश्वरप्रोक्तत्वं वा वेदस्य स्पष्टमिति एतेषामाशयः ।
पङ्क्तिः १३०:
==वेदस्य नित्यत्वविचारः==
भगवता परमर्षिणा जैमिनिना अभिप्रेतं यत् अर्थेन सह शब्दस्य सम्बन्धो भवति, अयं सम्बन्धः औत्पत्तिकरुपेण नित्यो भवति, न तु कृत्रिमः साङ्केतिको वा । तस्य नित्यत्वं स्वाभाविकमित्युच्यते । अतः एव विधिवाक्योत्पन्न ज्ञानमबाधित सत् सत्य भवति वेदशब्दाः अज्ञातविषयाणां ज्ञानं जनयन्ति, अतः ते स्थायिनः भवन्ति । उच्चारणात् पूर्वा शब्दः अव्यक्तावस्थायां तिष्ठति, उच्चारणॆनउच्चारणेन ते एव अव्यक्तभूताः शब्दाः व्यक्ताः भवैष्यन्ति । अतः शब्दो नित्यः । उत्पन्ने शब्दे करणरुपक्रिया न सम्भवति । उच्चारणानन्तरमपि शब्दः तथैव तिष्ठति किन्तु अव्यक्ताव्स्थायाम्, तदा तस्य नाशः न हि भवति । तस्मात् वेदो नित्यः इति । वेदशब्दानां नित्यत्वात् शब्दैः प्रतिपाद्यमाना देवता अपि नित्या एव भवति । एतेन देवतानामपि नित्यत्वं स्थापितं भवति ।
 
==देवतानामेकत्वविचारः==
पङ्क्तिः १५२:
मीमांसकानाम् अवधारणा वर्तते यत् वेदस्य विषयः पञ्चधा वर्तते-विधिवाक्यानि, मन्त्रवाक्यानि, फलवाक्यानि, अर्थवादवाक्यानि, निषेधवाक्यानि चेति । क्रियाप्रवर्तकानि वाक्यानि विधिवाक्यानि सन्ति । मंत्रवाक्यानि यज्ञानुष्ठानेऽर्थस्मरणकारीणि भवन्ति । यज्ञानां नामानि फलवाक्यानि नामधेयानि सन्ति । निषिद्धकर्मभ्यो निवर्तकानि निषेधवाक्यानि जायन्ते पदर्थानां गुणदोषविवेचनपूर्वकं स्तुतिनिन्दापरकानि वाक्यानि अर्थवादवाक्यानि कथ्यन्ते । विधिविचारो मीमांसायाः मुख्यविषयो वर्तते । विधि श्चतुर्धाऽभिमता –
#[[उत्पत्तिविधिः]]
#[[विनियोगविधिः]]
#[[अधिकारविधिः]]
#[[प्रयोगविधिश्च]]
 
कर्मणः स्वरुपस्य प्रतिपादयित्री विधिः उत्पत्तिविधिरस्ति । अङ्गभूतानां प्रधान भूतानां च प्रज्ञानां सम्बन्धबोधकानि वाक्यानि विनियोगविधिरस्ति । कर्मोत्पन्नफलस्य स्वामित्वं या प्रतिपादयति सा अधिकारविधिर्भवति । प्रयोगस्य शीघ्रतां या व्यनक्ति सा प्रयोगविधि कथ्यते ।
पङ्क्तिः १८५:
निवृत्तिमूलकतायां स्वीकृतायामपि मीमांसकमते मोक्षप्राप्त्यर्थं नित्यनैमित्तिकम् अनुष्ठानम् अपेक्षितमस्ति । काम्य-निषिद्ध-कर्मणां अनुष्ठानं मोक्षस्य साधनं नास्ति । नित्यनैमित्तिक कर्मणं सम्पादनेन सह आत्मज्ञानरुपि सहकारि कारणमेव मोक्षस्य प्रधानं साधनं वर्तते । एवं मीमांसा कर्त्तव्यशास्त्रस्य दृष्टिकोणेन ज्ञानकर्ममसुच्चयस्य पक्षपातिनी अस्ति ।
 
[[वर्गः:मीमांसादर्शनम्]]
[[वर्गः:आस्तिकदर्शनानि]]
"https://sa.wikipedia.org/wiki/मीमांसादर्शनम्" इत्यस्माद् प्रतिप्राप्तम्