"पादकन्दुकक्रीडा" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) clean up, replaced: ॆ → े (2) using AWB
पङ्क्तिः ८:
ईसातो द्विशतं वर्षेभ्यः पूर्वं चीनदेशे द्वयोर्दलयोर्मध्ये पादकन्दुक-क्रीडा क्रीडयते स्म । प्रतिवर्षं तत्र राज्ञो जन्मदिने राजप्रासादस्याग्रे द्व् विरुद्धे दले जनानां रञ्जनायक्रीडताम् । विजेतृदलाय राजतपात्रेषु पानाय सुरा तथा भोक्तुं फलानि पारितोषिकत्वेन दीयन्ते स्म तथा पराजेत्रे दलाय कठोरो दण्डः प्रदीयते स्म । क्रीडनस्थले द्वौ वंशौ न्यखन्यतां तथा तयोरुपरि क्षौमं वस्त्रं निबद्धय तस्मिन् छिद्रमेकमक्रियत । विरोधि-दलं हस्तप्रयोगं विनाऽक्राम्यत् किञ्च सावधानतया पदा सन्ताड्नपूर्वकं कन्दुकं नियन्त्रयन्तः क्रीडकाः शारीरिकं प्रदर्शनं कृत्वा विपक्षिदलं पराजयत् । तदाऽस्याभिधानं ‘सुचु’(TSUCHUE) अथवा ‘किक्-बाल’ (KICK BALL) इत्यासीत् ।
 
इतिहासाधारेणॆयंइतिहासाधारेणेयं क्रीडा ईसातः ५०० वर्षपूर्वं यूनानदेशस्य ‘स्पार्टा’ नाम्नि स्थाने सर्वप्रथममभवत् । तत्र हस्तयोः प्रयोगोऽपि प्राचलत् । तदाऽस्य नाम हारपेस्टन (HARPASTON) इत्यभूत् । ततः परमिटलीदेशे क्रीडेयं प्रावर्तत ।
 
तत्रास्याख्या ‘फोलिस्’ (FOLLIS) इत्यवर्तत । दद्देशीयैः केचन नियमा अपि निर्धारिता अथ च यूनानैः सह प्रतिस्पर्धितमपि । ईसातो २८ वर्षपूर्वं रोम सम्राजा स्वसेनायामस्याः क्रीडायाः खेलनं निषिद्धं यतो हि स स्वसैनिकान् युद्धाय सज्जयितुमैच्छत् । इंग्लैण्डस्य रोमदेशेऽधिकारानन्तरं तत्रापि क्रीडनमिदमारभत । पञ्चम्यां शत्यां जापानदेशे ‘किमारी’ (KIMARI) नाम्ना क्रीडेयमक्रीडयत । नवमशतकात् सप्तदशशतकं यावद् नानाविधाभिः प्रक्रियाभिर्वर्धमानं क्रीडनमिदं प्रचरद् १८०१ वत्सरे ‘किकिंग-गेम’ नाम्ना नियमानुसारं हस्तप्रयोगवर्जं दलद्वययुतमिङ्ग्लैण्डस्य ग्रामेषु प्रवृत्तम् । ततः परमद्य यावत् समग्रे संसारे ‘पाद-कन्दुक-क्रीडायाः समानः प्रचारो व्यवहारश्च समजायत तथा नियमाः स्थिरत्वेन निरधार्यन्ते ।
पङ्क्तिः ६२:
:(८)आक्रमणाद् निर्वतनं ‘टेकलिंग’ (Tackling) कथ्यते । अस्यापि त्रयः प्राकारा विद्यन्ते । यथा (१) पुरोऽवरोधः फ्रन्ट ब्लाक (Front Block), (२) स्कन्धा-क्रमणम् साइड-वे (Side way) तथा (३) कटिवलनावरोधः ब्रैकर ब्लाक(Breaker) इति । इत्यमेव पादेनावरोधप्रक्रियां ट्रेप् (Trap) इति कथयन्ति । इमाः प्रक्रिया नवधा प्रयुज्यन्ते -पादतलेन, पादमध्येन, पादाग्रेण्, पादबाह्यभागेन, जङ्घया, पादभ्यां, वक्षसा, वक्षोभागादधोनयनेन शिरसा च ।सीमरक्षकोऽपि मुष्टया ताडनेन शयनपूर्वकं हस्तद्वारावरोधनेन च वैशिष्ट्यं लभते । एतेषां ज्ञानेन क्रीडकः पादकन्दुकक्रीडायां निपुणो भवति यशश्चार्जयति ।
 
:::'''क्रीडाङ्गणॆक्रीडाङ्गणे चरण-कन्दुकमुत्पतन्तं'''
:::'''क्रीडाकृदाप्य परिखेलति खेलकोऽत्र ।'''
:::'''धावन पतन्नथ चलत् प्रहरंश्च पदभ्यां'''
:::'''हर्ष चिरं वितनुते मनुते न दुःखम् ॥'''
 
[[वर्गः: क्रीडाः]]
[[वर्गः: कन्दुकक्रीडाः]]
 
==आधारः==
अभिनवक्रीडातरंगिणी
 
[[वर्गः: क्रीडाः]]
[[वर्गः: कन्दुकक्रीडाः]]
"https://sa.wikipedia.org/wiki/पादकन्दुकक्रीडा" इत्यस्माद् प्रतिप्राप्तम्