"विदुरः" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) clean up, replaced: ॊ → ो using AWB
पङ्क्तिः २८:
भोजनानन्तरं रात्रौ अपि श्रीकृष्ण: विदुरस्य गृहे एव शयितवान् । सम्भाषणं कुर्वन्तौ रात्रिं यापितवन्तौ । प्रात:काले नित्यकर्म समाप्य श्रीकृष्ण: कौरवाणां सभायै गतवान् । तत्र दुर्योधन: श्रीकृष्णस्य बन्धनस्य दु:साहसपूर्णां योजनां यदा करोति तदा विदुर: तस्मै परमात्मनः महिमाया: वर्णनं कुर्वन् वदति ‘एष: साक्षात् सर्वतन्त्र: स्वतन्त्र: ईश्वर: । भवान् एतं तिरस्करोति चेत् अग्नौ पतित: पतङ्गः इव भवत: सर्वनाश: भविष्यति’ इति । अनन्तरं श्रीकृष्ण: स्वस्य विश्वरूपं दर्शितवान् । भीता: जना: नेत्रनिमीलनं कृतवन्त: । केवलं भीष्मपितामह:, गुरुद्रोणाचार्य:, विदुर:, [[सञ्जयः]], ऋषय: च विश्वरूपदर्शनं कृतवन्त: । यत: भगवान् एतेभ्य: दिव्यदृष्टिं दत्तवान् आसीत् । किञ्चित् कालानन्तरं स्वस्य लीलां समाप्य श्रीकृष्ण: तत: प्रस्थितवान् । विदुर: अपि अन्यै: सह किञ्चित् दूरपर्यन्तं तं प्रेषयित्वा आगतवान् ।
 
यदा श्रीकृष्णस्य सन्धानमपि विफलं जातं तदा पक्षद्वयेऽपि युद्धस्य सज्जता आरब्धा । अष्टादश-अक्षोहिणी सैन्येन सह [[पाण्डवाः]] [[कौरवाः]] कुरुक्षेत्रस्य अङ्गणे मिलितवन्त: । अष्टादशेषु दिनेषु सम्पूर्णस्य सैन्यस्य नाश: अभवत् । धृतराष्ट्रस्य पुत्रपौत्राणां सर्वनाशेन स: बहुदु:खम् अनुभूतवान् । तदा विदुर: मृत्यो: अनिवार्यतां निरूपयन् उक्तवान् – ‘युद्धे य: मरणं प्राप्नोति तस्य उत्तमगति: लभ्यते । अत: तेषां निमित्तं शोक: न करणीय: । जीव: यावत् वारं जन्म प्राप्नोति तावद् वारमपि स: अन्यान्यव्यक्तिभिः सह सम्बन्धं प्राप्नोति । मृत्यो: अनन्तरं सर्वे सम्बन्धा: अपि स्वप्नाः इव विलीनाः भवन्ति । अत: मृतेभ्य: सम्बन्धिकेभ्य: बुद्धिमान् शोकं न करोति । सुखै: दु:खै: सह सम्बद्धाः संयोग: वियोग: इत्यादिघटना: अपि स्वयं कृतानां शुभाशुभकर्माणां फलरूपेण लभ्यन्ते । कर्मफलं तु सर्वै: जीवै: अनुभोक्तव्यमेव इत्युक्त्वा अनन्तरमपि विदुर: जगत: नश्वरता, नि:सारता, परिवर्तनं, जन्ममृत्यॊजन्ममृत्यो: क्लेश:, जीवस्य अविवेक:, मृत्यो: दृष्ट्यां सर्वेषां समानता, धर्मस्य आचरणस्य महत्वम् इत्यादिकम् उपदिशन् प्रापञ्चिकेन दु:खेन मुक्तिं प्राप्तुम् उपायानां दिग्दर्शनं कारितवान् ।
 
युधिष्ठिरस्य राज्याभिषेकस्य अनन्तरं धृतराष्ट्र: पाण्डवानां समीपे एव आसीत् । तदा विदुर: अपि तत्रैव स्थित्वा तेन सह सर्वदा धर्मस्य विचारे सम्भाषणं करोति स्म । यदा धृतराष्ट्र: पत्न्या सह वानप्रस्थाश्रमं प्रस्थितवान् तदा एष: अपि तै: सह वनं गतवान् । वने विदुर: घोरतपसः आचरणस्य व्रतम् आरब्धवान् । आहारेण विना निर्जने वने एकान्तवासम् आरब्धवान् । शून्ये वने यदाकदापि जनानां दर्शनं भवति स्म । किञ्चित्कालानन्तरं कदाचित् महाराज: युधिष्ठिर: स्वस्य समस्तपरिवारेण, सैन्येन सह ज्येष्ठपितृव्यं, पितृव्यां, मातरं कुन्तीं, विदुरं च द्रष्टुं वनम् आगतवान् । तत्र विदुरम् अदृष्ट्वा तस्य विषये धृतराष्ट्रं पृच्छन् आसीत् । तावता तस्मै दूरे विदुर: दृष्ट: । स: शिरसि जटां कृत्वा दिगम्बर: भूत्वा मुखे कञ्चन शिलाखण्डं स्थापितवान् आसीत् । तस्य मलिने, दुर्बले शरीरे नाड्यः उपरि दृश्यन्ते स्म । स: धृतराष्ट्रस्य आश्रमं पश्यन् पृष्ठत: गच्छन् आसीत् ।
पङ्क्तिः ३४:
युधिष्ठिर: तस्य मेलनार्थं तस्य पृष्ठत: धावितवान् । स्वस्य नाम, परिचयम् उक्त्वा अपि तम् आहूतवान् । धावन् विदुर: गहनं वनं गत्वा कस्यचित् वृक्षस्य साहाय्येन स्थिरतया स्थितवान् । राजा युधिष्ठिर: यदा पश्यति तदा तस्य शरीरं केवलम् अस्तिपञ्जरम् इव आसीत् । तम् अभिज्ञातुम् एव कष्टं भवति स्म । युधिष्ठिर: पुरत: स्थित्वा तस्य पूजाम् अकरोत् । समाधिस्थ: विदुर: तदेकदृष्ट्या युधिष्ठिरं पश्यन् आसीत् । अनन्तरं स: योगबलेन स्वस्य अङ्गाङ्गान् युधिष्ठिरस्य अङ्गाङ्गेषु अङ्गानि, इन्द्रियाणि तस्य इन्द्रियेषु, प्राणान् तस्य प्राणेषु संयुज्य युधिष्ठिरस्य शरीरे प्रवेशितवान् । तस्य निर्जीवं शरीरं पूर्ववत् वृक्षस्य साहाय्येन स्थितमासीत् । एवं साक्षात् धर्मस्य अवतार: महात्मा विदुर: धर्ममयं जीवनं यापयित्वा अन्ते धर्ममूर्ते: महाराजस्य युधिष्ठिरस्य शरीरे एव विलीन: अभवत् ।
 
[[वर्गः: भारतीय-पौराणिकव्यक्तयः]]
[[वर्गः: महाभारतस्य पात्राणि]]
 
[[en:vidura]]
[[fr:Vidura]]
[[id:Widura]]
Line ४८ ⟶ ४९:
[[ta:விதுரன்]]
[[te:విదురుడు]]
[[en:vidura]]
"https://sa.wikipedia.org/wiki/विदुरः" इत्यस्माद् प्रतिप्राप्तम्