"संख्याः" इत्यस्य संस्करणे भेदः

(लघु) clean up, replaced: ऎ → ऐ (2) using AWB
पङ्क्तिः ४१:
 
==भूतसंख्या==
भूतानि इत्युक्ते लोके विद्यमानपदार्थाः एव । लोके तु केचन पदार्थाः एकम् केचन द्वयम् केचन त्रयम् केचन चतुष्टयम् केचन पञ्चकमित्यादिरूपेणैव वर्तन्ते । यथा चन्द्रः, भूमिः ऎरावतोऐरावतो नाम गजः, गणपतेः दन्तः इत्यादयः एकमात्रं विद्यन्ते । तथा अश्विनिदेवता, लोचनम्, अयनम्, जानु इत्यादयः द्विमात्रम् । कालाः, अग्नयः, दोषाः, गुणाः (सत्त्वरजस्तमोगुणाः), तापाः (अधिदैविकाध्यात्मिकाधिभौतिकाः), मूर्तयः (ब्रह्माविष्णुमहेश्वराः) इत्यादयः त्रिमात्रम् । वेदाः, युगाः, पुरुषार्थाः, वर्णाश्रमाः इत्यादयः चतुर्मात्रम् । भूतानि, पाण्डवाः, प्राणाः, बाणाः, इन्द्रियाणि इत्यादयः पञ्चमात्रं च भवन्ति । एवमेव षड्डङ्गानि, सप्तर्षयः, अष्टवसवः, नवरसाः, दशदिशः, एकादशरुद्राः, द्वादशादित्याः, त्रयोदशकामाः, चतुर्दशविद्याः, पक्षः (१५), संस्काराः (१६), नक्षत्राणि (२७), अक्षराणि (५१), कलाः (६४), कौरवाः (१००) इत्यादयः प्रसिद्धाः । आकाशः, गगनम्, अभ्रम्, पूर्णम् इत्यादयः शून्यप्रतीकाश्च भवन्ति । एतेषां शब्दानां पर्यायपदान्यपि तत्तत् संख्यासूचकत्वेन स्वीक्रियन्ते इत्यपि अवगन्तव्यम् । श्लोके एतस्योपयोगः कथमिति उदाहरणेन व्यक्तीभवति । यथा लीलावत्याम् -
::व्यासे भनन्दाग्निहते विभक्ते खबाणसूर्यैः परिधिः ससूक्ष्मः ।
::द्वाविंशतिघ्ने विहतेऽथ शैलैः स्थूलोऽथ वा स्याद्व्यवहारयोग्यः ॥ इति ।
पङ्क्तिः ६८:
==आर्यभटीयसंख्यासम्प्रदायः==
सम्मर्दयुक्ते अस्मिन् लोके स्वल्पसमयैः स्वल्पस्थलैश्च बहुकार्याणि साधनीयानि सन्ति । एतदेव कम्प्यूट्टर्कालः इति प्रसिद्धे आधुनिके काले अपि आर्यभटीयसिद्धान्तस्य महत्त्वपूर्णस्थानस्य कारणम् । ४०००००० इति संख्यायाः प्रतिपादने घृ इत्येकाक्षरेण आर्यभटाचार्यः निर्दिशति ।
अत्र कादिमान्तानां वर्गाक्षराणां क्रमेण १ तः २५ पर्यन्तम्, यदि हान्तानाम् अवर्गाक्षराणां ३०, ४०, ५०, ६०, ७० इत्यादि १०० पर्यन्तञ्च संख्याः कल्पिताः । स्वराक्षरेषु अ, इ, उ, ऋ, लृ, ए, , ओ, औ इत्येतेषाम् १, १०१०<sup>२</sup>, १०<sup>४</sup>, १०<sup>६</sup>, १०<sup>८</sup>, १०<sup>१०</sup>, १०<sup>१२</sup>, १०<sup>१४</sup>, १०<sup>१६</sup> इत्यादिक्रमेण ज्ञेयम् । एवमेव य - ३०, यि - ३०००, यु - ३००००० (य् + उ = ३०X१०<sup>४</sup>) इत्यादि । संयुक्ताक्षराणां विषये संख्यायोगः कर्तव्यः इति । यथा - क्य = क् + य = १ + ३० = ३१ ङ्मौ - यः (ङ् = ५, म = २५) ङ्मौ = ५ + २५ = ३० यः इत्यादि । अत्राचार्यः एतस्य प्रमाणमेवं कथयति -
::वर्गाक्षराणि वर्गेऽवर्गेऽवर्गाक्षराणि कात्, ङ्मौ यः ।
::खद्विनवके स्वरा, नव वर्गेऽवर्गे नवान्त्यवर्गे वा ॥ इति ।
"https://sa.wikipedia.org/wiki/संख्याः" इत्यस्माद् प्रतिप्राप्तम्