"श्रीहर्षः" इत्यस्य संस्करणे भेदः

(लघु) gen fixes using AWB
No edit summary
पङ्क्तिः १:
==परिचयः==
‘सद्यः परनिर्वृत्तये कान्तासम्मिततयोपदेशयुजे’ इति काव्यस्य ख्यातिः अस्ति। काव्येषु पञ्चमहाकाव्यानि प्रसिद्धानि। पञ्चमहाकाव्येषु अन्यतमस्य नैषधीयचरितस्य[[नैषधीयचरित|नैषधीयचरित]]स्य प्रणेता श्रीहर्षः अस्ति। सः कविः श्रीहीरपण्डितान्मामल्लदेव्यां समजनीति तस्य काव्यस्य प्रतिसर्गस्य समाप्तिश्लोकतः ज्ञायते।
 
::श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं
::श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम्।
::तच्चिन्तामणिमन्त्रचिन्तनफले श्रृङ्गारभङ्ग्या महा-
::काव्ये चारुणि नैषधीयचरिते सर्गोऽयमादिर्गतः ।।"
 
श्रीहर्षः कन्याकुब्जस्य नृपस्य विजयचन्द्रस्य आस्थानविद्वान् आसीत् । विजयचन्द्रस्य पुत्रस्य जयन्तचन्द्रस्य आस्थाने अपि सः आसीत् इति श्रूयते । तस्य पिता श्रीहरिः । माता मामल्लदेवी । श्रीहर्षः द्वादशशतके आसीत् । तर्कव्याकरणवेदान्तादिषु शास्त्रेषु श्रीहर्षः उद्दामपण्डितः । सर्वाणि अपि पुराणानि सः सम्यक् जानाति स्म । श्रीहर्षेण रचितं महाकाव्यं नैषधीयचरितम् । नलदमयन्त्योः कथा अत्र वर्णिता अस्ति । श्रीहर्षस्य भाषा अत्यन्तं प्रौढा । शब्दकर्कशता, दूरुह्या कल्पना, अर्थक्लिष्टता, श्लेषप्रियता च नैषधीयचरिते सर्वत्र दृश्यते ।
श्रीहर्षः अन्यान् अपि कांश्चित् ग्रन्थान् लिखितवान् इति उल्लेखः दृश्यते । परन्तु ते सर्वे न उपलभ्यन्ते । खण्डनखण्डखाद्यम् इति एकः ग्रन्थः उपलभ्यते । तस्मिन् ग्रन्थे तार्किकमतस्य खण्डनं कृतं दृश्यते ।
 
==तेन रचितं महाकाव्यम्==
[[वर्गः:काव्यम्|श्रीहर्षः]]
श्रीहर्षेण रचितं महाकाव्यं [[नैषधीयचरितम्]] । नलदमयन्त्योः कथा अत्र वर्णिता अस्ति । श्रीहर्षस्य भाषा अत्यन्तं प्रौढा । शब्दकर्कशता, दूरुह्या कल्पना, अर्थक्लिष्टता, श्लेषप्रियता च नैषधीयचरिते सर्वत्र दृश्यते ।
 
==अन्ये ग्रन्थाः==
श्रीहर्षः अन्यान् अपि कांश्चित् ग्रन्थान् लिखितवान् इति उल्लेखः दृश्यते । ते -
# खण्डनखाद्यम्
# अर्णववर्णनम्
# गौडोर्विकुलप्रशस्तिः चण्डीप्रशस्तिश्च
# शिवभक्तिसिद्धिः
# साहसाङ्कचरितचम्पू
श्रीहर्षः अन्यान् अपि कांश्चित् ग्रन्थान् लिखितवान् इति उल्लेखः दृश्यते । परन्तु ते सर्वे न उपलभ्यन्ते । खण्डनखण्डखाद्यम् इति एकः ग्रन्थः उपलभ्यते । तस्मिन् ग्रन्थे तार्किकमतस्य खण्डनं कृतं दृश्यते ।
 
[[वर्गः:संस्कृतकाव्यम्]]
"https://sa.wikipedia.org/wiki/श्रीहर्षः" इत्यस्माद् प्रतिप्राप्तम्