"भोजदेवः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
भोजदेवेन ''[[चम्पूरामायणम्]]'' इति सुप्रसिद्धं चम्पूकाव्यं लिखितम् । एषः मालवाधिपतिः । (विदर्भदेशस्य राजा इति केचन वदन्ति ।) धारानगरं मालवदेशस्य राजधानी । ऐतिहासिकप्रमाणैः ज्ञायते यत् भोजदेवः एकादशे शतके (क्रि. श. १०१९-१०६३) आसीत् इति । भोजः स्वयं कविः आसीत्, बहूनां पण्डितानाम् आश्रयदाता अपि आसीत् ।भोजदेवेन एतेन
* ''[[चम्पूरामायणम्]]'' इति सुप्रसिद्धं चम्पूकाव्यं लिखितम् ।
* ''[[सरस्वतीकण्ठाभरणम्]]'',
* ''[[शृङ्गारप्रकाशः]], ''
शब्दानुशासनम् इत्यादयः ग्रन्थाः अपि रचिताः सन्ति ।
चम्पूरामायणे बालकाण्डतः युद्धकाण्डपर्यन्ता कथा पञ्चसु काण्डेषु निरूपिता अस्ति । रामायणस्य एव कथा अस्ति अस्मिन् ग्रन्थे । ललितमनोहरशैली, कोमलः पदविन्यासः, सुन्दराः अलङ्काराः, हृदयहारि भावाविष्करणम् इत्यादयः एतस्य ग्रन्थस्य वैशिष्ट्यानि । चम्पूरामायणस्य बहूनि व्याख्यानानि उपलभ्यन्ते ।
 
"https://sa.wikipedia.org/wiki/भोजदेवः" इत्यस्माद् प्रतिप्राप्तम्