"कार्ल् लाण्ड्स्टैनर्" इत्यस्य संस्करणे भेदः

(कालः – १४. ०६. १८६८ तः २६. ०६. १९४३) अयं कार्ल् लाण... नवीनं पृष्ठं निर्मितमस्ति
 
पङ्क्तिः २:
 
अयं कार्ल् लाण्ड्स्टैनर् (Karl Landsteiner) रक्तसमूहानां शोधकः । अयं कार्ल् लाण्ड्स्टैनर् १८६८ तमे वर्षे जून् मासस्य १४ दिनाङ्के आस्ट्रियादेशस्य वियन्नानगरे जन्म प्राप्नोत् । कार्ल् लाण्ड्स्टैनरस्य बाल्ये एव पिता दिवं गतः आसीत् । तस्य माता एव तं पालितवती । सः १८९१ तमे वर्षे वैद्यपदवीं प्राप्नोत् । एमिल्फिशर् सदृशानां प्रतिभावतां समूहे कार्यं कृतवान् आसीत् एषः कार्ल् लाण्ड्स्टैनर् । यूरोप् देशस्य प्रसिद्धेषु बहुषु प्रयोगालयेषु कार्ल् लाण्ड्स्टैनर् कार्यं कुर्वन् अनुभवं सम्पादितवान् । तदनन्तरं वियन्नानगरस्य आरोग्य - संशोधन – संस्थायां कार्यम् आरब्धवान् । तदा समाजे रक्तेषु भेदाः भवन्ति इति, ते च भेदाः आनुवंशिकरूपेण आगच्छन्ति इति सामान्यं ज्ञानम् आसीत् । किन्तु तद्विषये वैज्ञनिकं विवरणं न जानन्ति स्म । तदा क्रियमाणं रक्तपूरणम् अपि अवैज्ञानिकम् आसीत् । रक्तपूरणस्य अनन्तरम अपि बहुविधाः समस्याः जायन्ते स्म ।
 
[[वर्गः:वैज्ञानिकाः]]
"https://sa.wikipedia.org/wiki/कार्ल्_लाण्ड्स्टैनर्" इत्यस्माद् प्रतिप्राप्तम्