"व्यासरायः" इत्यस्य संस्करणे भेदः

(लघु) gen fixes using AWB
पङ्क्तिः १:
'''व्यासरायः''' १४५७ एप्रिल् २२ दिनाङ्के [[कावेरी]]तीरे [[बन्नूरु]] ग्रामे जन्मं प्राप्तवान् । एषः विजयनगरराजेभ्यः गुरुः आसीत् इति । कृष्णदेवरायस्य [[कुहूयोगः|कुहूयोगं]] निवारितवान् इत्यपि वदन्ति । एषः स्वयं विद्वान् आसीत् विदुषाम् आश्रयदाता अपि आसीत् । संस्कृते [[तर्कताण्डवम्|तर्कताण्डवं]], [[न्यायामृतम्|न्यायामृतं]] [[चन्द्रिका]] इति ग्रन्थान् रचितवान् । कन्नडे अनेकानि कीर्तनानि, भजनानि च लिखितवान् । व्यासरायः श्रीपादरायेण संन्यासदीक्षां स्वीकृतवान् । [[बङ्गालदेशः|बङ्गालदेशस्य]] [[वैष्णवपन्थः|वैष्णवपन्थस्य]] प्रमुखस्य [[श्रीकृष्णचैतन्यः|श्रीकृष्णचैतन्यस्य]] गुरुः व्यासरायः आसीत् इति भासते । [[पुरन्दरदासः]] [[कनकदासः]] [[विजयीन्द्रस्वामी]] [[वादिराजः]] [[वैकुण्ठदासः]] एते व्यासरायस्य प्रमुख शिष्याः। व्यासरायः १५३६ तमे वर्षे स्वर्गङ्गतवान् । हम्प्याः [[आनेगोन्दी]] समीपे [[तुङ्गभद्रा]]नद्याः द्वीपे एतस्य स्मारकम् अस्ति । एतेन द्वैतमतस्य बहु उपकारः अभवत् । [[व्यासकूटः]] [[दासकूटः]] च इति द्वौ मार्गौ एतस्य काले एव प्रचारे आगतौ । एषः दासकूटस्य प्रमुखः । दासकूटात् [[कर्णाटक]]राज्ये वैष्णवधर्मस्य प्रसारणे बहु साहाय्यम् अभवत् ।
 
[[वर्गः:दासपरम्परा]]
"https://sa.wikipedia.org/wiki/व्यासरायः" इत्यस्माद् प्रतिप्राप्तम्