"चरकः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
[[चित्रम्:Charak.jpg|thumb|right|200px|भारतस्य हरिद्वारे स्थिते पतञ्जलियोजपीठे विद्यमाना चरकस्य मूर्तिः]]
(कालः - क्रि. पू. ३२०)
 
(कालः - क्रि. पू. ३२०)
 
अयं चरकः (Charaka) वैद्यविज्ञानस्य आचार्यः इत्येव सुप्रसिद्धः । चरकस्य जन्मकालः वा मातापित्रोः विषयः वा न ज्ञायते । बौद्धराजस्य [[कानिष्कः|कानिष्कस्य]] आस्थाने क्रि. पू. ३२० अवधौ आस्थानवैद्यः आसीत् अयं चरकः इति विषयः कॆवलं ज्ञातः अस्ति । अयं चरकः साक्षात् आदिशेषस्य अवतारः इत्येव तदानीन्तने काले प्रतीतिः आसीत् । आचार्यः [[सुश्रुतः]] इव आचार्यः चरकः अपि चिकित्सायाः विधानानि (क्रमान्) “वैद्यसंहितायां” निरूपितवान् अस्ति । स च ग्रन्थः वैद्यजगति अद्यापि उपयुज्यते । आचार्यः चरकः तावत् पर्यन्तं विद्यमानं वैद्यज्ञानम् अष्टसु भागेषु विभज्य '''“अष्टाङ्ग – आयुर्वेदः”''' इति नामकरणम् अपि अकरोत् । [[कर्णः|कर्ण]]सम्बद्धाः, [[नेत्रम्|नेत्र]]सम्बद्धाः, [[नासिका|नासिका]]सम्बद्धाः, [[मुखम्|मुख]]सम्बद्धाः, [[कण्ठः|कण्ठ]]सम्बद्धाः च रोगाः तथा शस्त्रचिकित्सा, विषविज्ञानं, मनोचिकित्सा, बालानां रोगाणां चिकित्सा, पुनरुज्जीवनं, वैद्यविज्ञानं, पौरुषीकरणम् इत्येते एव तेन कृताः अष्ट विभागाः ।
 
 
अयम् आचार्यः चरकः २५ विधान् ज्वरान्, [[उदरम्|उदरस्य]] बहुविधान् शोथान्, [[कामला|कामलारोगं]], मूत्रसम्बद्धान् रोगान्, [[मधुमेहः|मधुमेहं]], कुष्ठरोगं, श्वासकोशस्य क्षयरोगं, [[हृदयम्|हृदय]]सम्बद्धान् रोगान् च वर्णितवान् अस्ति । यथा वेदना न ज्ञायेत तथा करणस्य औषधीयस्य द्रवांशस्य विषयम् अपि सः ग्रन्थे प्रस्तुतवान् अस्ति । पञ्चशताधिकानाम् (५००) औषधीयसस्यानां प्रयोजनं, तेषां चिकित्साविधानं, प्रणिजन्यानां वस्तूनां निर्माणं, तथा च [[खनिजम्|खनिजानां]] विषये अपि आचार्यः चरकः जानाति स्म । तानि सर्वाणि बलवर्धकानि, शामकानि, विरेचकानि, शुद्धिकारकाणि, वमनकारकाणि, कमोद्दीपकानि इति विभक्तवान् अपि । अनेकविधान् विषप्रयोगान्, विषहारिणाम् उपयोगम् अपि जानाति स्म आचार्यः चरकः । सः स्वीये ग्रन्थे पथ्यविषयं, शुद्धवायुविषयं, [[सूर्यः|सूर्यस्य]] प्रकाशस्य विषयं, भाष्पप्रयोगं, स्वच्छतां च पौनःपुन्येन लिखितवान् अस्ति । सार्वजनिकानां चिकित्सालयानां, प्रसूतिचिकित्सालयस्य, बालानं चिकित्सालयस्य च रचनायाः तथा निर्वहणस्य अपि ज्ञानम् आसीत् अस्य चरकस्य ।
 
 
अयम् आचार्यः चरकः '''“वास्तविकं वैद्यकीयं नाम अवलोकनेन, ऊहया, तर्केण, अनुभवेन, ज्येष्ठानां गुरूणां तथा अनुभवीनां सूचनया कार्यसम्पादनकौशलस्य विज्ञानम्”''' इति उक्तवान् अस्ति । '''“वैद्यः सच्चारित्रवान् भवेत् । तेन क्रियमाणं चिकित्साकार्यं केवलं स्वहिताय, जीवनस्य निर्वहणाय वा न भवेत् । तत् कार्यं मानवकुलस्य हिताय भवेत् । यः वैद्यविज्ञानं वस्तु इव विक्रीणीते सः जीवननामकस्य सुवर्णखनौ सुवर्णं विहाय शिलाखण्डान् वा मृत्तिकां वा प्राप्स्यति ।“''' इत्येतादृशानि आचार्यस्य चरकस्य वचनानि वैद्यपद्धतेः इतिहासे शाश्वतरूपेण स्थितानि सन्ति ।
 
 
अनेन आचार्येण चरकेण लिखितः '''“चरकसंहिता”''' नामकः ग्रन्थः आयुर्वेदस्य प्रमुखा प्रमाणाधारा कृतिः इति परिगण्यते वैद्यक्षेत्रे । स च ग्रन्थः [[अराबिक्]], आङ्ग्ल ([[इङ्ग्लिष्]]), [[चीनी]] इत्यादिभिः भाषाभिः अनूदितः अस्ति । २ – ३ सहस्रेभ्यः वर्षेभ्यः पूर्वं तेन आचार्येण चरकेण अनुसृताः क्रमाः अद्यापि उपयोगयोग्याः सन्ति इति मन्यन्ते आधुनिकाः वैद्याः अपि ।
 
अयं चरकः (Charaka) वैद्यविज्ञानस्य आचार्यः इत्येव प्रसिद्धः । चरकस्य जन्मकालः वा, मातापित्रोः विषयः वा न ज्ञायते ।
 
[[वर्गः:भारतीयविज्ञानिनः]]
[[वर्गः:आयुर्वेदः]]
[[वर्गः:भारतीयवैद्याः]]
 
[[de:Charaka]]
[[en:Charaka]]
[[es:Cháraka]]
[[fr:Charaka]]
[[hi:चरक]]
[[ml:ചരകൻ]]
[[mr:चरक]]
[[ne:चरक]]
[[ro:Charaka]]
[[sv:Charaka]]
"https://sa.wikipedia.org/wiki/चरकः" इत्यस्माद् प्रतिप्राप्तम्