"आण्ड्रियेस् वेसेलियस्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
[[चित्रम्:Vesalius Portrait pg xii - c.png|thumb|right|200px]]
(कालः - ३१. १२. १५१४ तः १५. १०. १५६४)
 
(कालः - ३१. १२. १५१४ तः १५. १०. १५६४)
अयम् आण्ड्रियेस् वेसेलियस् (Andreas Vesalius) पाश्चात्यजगतः आधुनिकस्य अङ्गरचनाविज्ञानस्य जनकः ।
 
अयम् आण्ड्रियेस् वेसेलियस् (Andreas Vesalius) पाश्चात्यजगतः आधुनिकस्य अङ्गरचनाशास्त्रस्य जनकः । अयं १५१४ वर्षे डिसेम्बर् मासस्य ३१ तमे दिनाङ्के बेल्जियं–देशस्य ब्रसल्स् इति प्रदेशे जन्म प्राप्नोत् । अस्य आण्ड्रियेस् वेसेलियसस्य माता आङ्ग्लप्रदेशीया आसीत्, पिता च जर्मन्प्रदेशीयः । तस्य आण्ड्रियेस् वेसेलियसस्य पिता जर्मन्–चक्रवर्तेः ५ चार्ल्स् इत्यस्य कृते [[औषधम्|औषधानाम्]] आपूर्तिं करोति स्म । अयम् आण्ड्रियेस् वेसेलियस् धनिककुले जातः । अस्य विद्याभ्यासः लूवेन् तथा [[प्यारिस्]] नगरेषु जातः । यद्यपि अयं [[गेलेन्|गेलेनस्य]] पद्धत्या एव अधीतवान् तथापि बहिरङ्गरूपेण गेलेनस्य विरोधम् अकरोत् । स्वयमेव अङ्गच्छेदनं कृत्वा विषयान् ज्ञातुम् इच्छति स्म । तदर्थं योग्यम् अवसरम् [[इटाली]]देशस्य पादुअ–विश्वविद्यालये प्राप्नोत् । तत्र अयम् आण्ड्रियेस् वेसेलियस् अङ्गरचनाविज्ञानस्य प्राध्यापकरूपेण प्राविशत् । अनन्तरं राजवंशस्य वैद्यकीय–सूचनाकाररूपेण नियुक्तः अभवत् । कालान्तरे १५५५ तम् वर्षे चक्रवर्ती यदा पदच्युतः जातः तदा अयम् आण्ड्रियेस् वेसेलियस् [[स्पेन्]]–देशम् अगच्छत् । तत्रापि सः राजवंशस्य वैद्यकीय–सूचनाकाररूपेण एव नियुक्तः ।
[[वर्गः:वैज्ञानिकाः]]
 
 
यद्यपि अयम् आण्ड्रियेस् वेसेलियस् अत्युत्कृष्टं साधितवान् तथापि मतान्धानां हिंसातः मुक्तिं प्राप्तुं न शक्तवान् एव । यथा यथा अस्य आण्ड्रियेस् वेसेलियसस्य प्रसिद्धिः अधिका जाता तथा तथा तस्य शत्रूणां संख्या अपि वर्धिता । ते मतान्धाः अयम् आण्ड्रियेस् वेसेलियस् शवचोरः, पाषण्डः च इति आक्षिप्तवन्तः । [[यूरोप्]]–देशस्य बहुषु स्थानेषु अस्य आण्ड्रियेस् वेसेलियसस्य विरुद्धं प्रतिभटनानि प्राचलन् । अनेन जुगुप्सां प्राप्य आण्ड्रियेस् वेसेलियस् बहूनां पुस्तकानां हस्तप्रतिं दग्धवान् । पादुअ-विश्वविद्यालयस्य प्राध्यापकस्थानाय अपि त्यागपत्रम् अददात् । अयम् आण्ड्रियेस् वेसेलियस् प्यालस्टैन्प्रदेशे विद्यमानां पवित्रभूमिं गत्वा आगच्छेत् इति दण्डनम् अपि विहितम् । तदनुगुणं सः तत्र अगच्छत् । तदनन्तरं तेन पूर्वतनम् उद्योगं प्रतिनिवर्तनीयम् इति आह्वानम् अपि प्राप्तम् । तदर्थं ततः [[प्यालस्टैन्]]तः प्रत्यागमनावसरे ग्रीस्–समीपे नौकायाः अपघातः सञ्जातः । तत्रैव १५६४ तम् वर्षे अक्टोबर्–मासस्य १५ दिनाङ्के मरणम् अवाप्नोत् अयम् आण्ड्रियेस् वेसेलियस् । समीपे विद्यमाने द्वीपे एव तस्य समाधिम् अपि अकुर्वन् ।
 
 
अयम् आण्ड्रियेस् वेसेलियस् बहूनि पुस्तकानि अलिखत् । तेषु '''“दि ह्युमानीस् कार्पोरिस् फ्याब्रिक्” (मानवस्य देहरचना)''' नामकं पुस्तकम् अत्यन्तं प्रसिद्धम् । सः निरन्तरं ६ वर्षाणि यावत् शवानां छेदनं कृत्वा अधीत्य तत् पुस्तकम् अलिखत् । तत्र ६६३ पुटानि सन्ति । वृक्षाक्षेन रचितानि २७८ सुन्दराणि चित्राणि अपि सन्ति । तस्मिन् पुस्तके मानवस्य [[शरीरम्|शरीरस्य]] विभिन्नानाम् अङ्गानां रचनायाः विवरणम् अपि व्यवस्थितरूपेण निरूपितम् अस्ति । तत् पुस्तकं मानवस्य अङ्गरचनायाः विषये प्रकटितेषु पुस्तकेषु अत्युत्तमम् इति प्रसिद्धम् अस्ति ।
 
[[वर्गः:विज्ञानेतिहासः]]
[[वर्गः:पुरातनाः बेल्जिन्-विज्ञानिनः]]
[[वर्गः:पुरातनाः अङ्गरचनाशास्त्रज्ञाः]]
 
[[bn:আন্দ্রে ভেসালিআস]]
[[be:Андрэас Везалій]]
[[bg:Андреас Везалий]]
[[bs:Andreas Vesalius]]
[[ca:Andreas Vesal]]
[[cs:Andreas Vesalius]]
[[da:Andreas Vesalius]]
[[de:Andreas Vesalius]]
[[en:Andreas Vesalius]]
[[et:Andreas Vesalius]]
[[el:Ανδρέας Βεσάλιος]]
[[es:Andrés Vesalio]]
[[eo:Andreo Vesalio]]
[[eu:Andres Vesalio]]
[[fa:آندرئاس وزالیوس]]
[[fr:André Vésale]]
[[gl:André Vesalio]]
[[ko:안드레아스 베살리우스]]
[[id:Andreas Vesalius]]
[[it:Andrea Vesalio]]
[[he:אנדריאס וסאליוס]]
[[la:Andreas Vesalius]]
[[hu:Andreas Vesalius]]
[[mk:Андреас Везалиус]]
[[mn:Андреас Везалиус]]
[[nl:Andreas Vesalius]]
[[ja:アンドレアス・ヴェサリウス]]
[[no:Andreas Vesalius]]
[[nn:Andreas Vesalius]]
[[pl:Andreas Vesalius]]
[[pt:Andreas Vesalius]]
[[ro:Andreas Vesalius]]
[[ru:Везалий, Андреас]]
[[sk:Andreas Vesalius]]
[[sl:Andreas Vesalius]]
[[ckb:ئەندریاس ڤێسالیوس]]
[[sr:Андреас Везалијус]]
[[fi:Andreas Vesalius]]
[[sv:Andreas Vesalius]]
[[tl:Andreas Vesalius]]
[[th:แอนเดรียส เวซาเลียส]]
[[tr:Andreas Vesalius]]
[[zh:安德雷亚斯·维萨里]]
"https://sa.wikipedia.org/wiki/आण्ड्रियेस्_वेसेलियस्" इत्यस्माद् प्रतिप्राप्तम्