"प्रेमचन्दः" इत्यस्य संस्करणे भेदः
Content deleted Content added
(लघु) added Category:हिन्दीलेखकाः using HotCat |
विस्तारणम् |
||
पङ्क्तिः १:
मुंशी-प्रेमचन्दः (जुलायि 31, 1880 – अक्टू. 8, 1936) तु आधुनिकहिन्दी-उर्दु-साहित्ययोः प्रख्यातः लेखकः आसीत्। स तु भारते व्यापकतया एव विशतितमस्य शताब्दस्य हिन्दी-उर्दुयोः अग्र्यः लेखकः गण्यते।<ref name="swan">''Munshi Premchand of Lamhi Village'', Robert O. Swan, Duke University Press, 1969</ref> अयं ह्येकः उपन्यासलेखकः, कथालेखकः, नाटककारश्चासीत्। अस्य तु उपन्याससम्राट् इत्यभिधानं प्रसिद्धम्।
== जीवनम् ==
प्रेमचन्दस्तु जुलायिमासस्य 31 तमायां 1880 तमे क्रि.वर्षे वाराणसीनिकटे लमहीनाम्नि ग्रामे अजायत। अस्य पिता मुंशी-अजायबलालः प्रेषविभागे लिपिक आसीत्। तस्य पितरौ तस्य धनपतराय (अर्थात् धनस्य स्वामी) इति नामकरणमकुरुताम्। तस्य पितृव्यः सम्पन्नः भूपतिः कश्चित् महाबीराख्यः तं नवाब् इति नाम अददत्। अयं खलु प्रेमचन्दस्य प्रथमतया चितः साहित्यिकाभिधानमभूत्।<ref name=amrit>''Premchand: A Life'', Amrit Rai (Harish Tirvedi, translator), People's Publishing House, New Delhi, 1982.</ref> तस्य प्रारम्भिकी शिक्षा स्थानीये एकस्मिन् मदरसा इति पाठशालायां अभवत्। तत्र स उर्दुभाषां पठितवान्।<ref>[http://literaryindia.com/index.php?news=220 Literaryindia.com]</ref> प्रेमचन्दस्य पितरौ तस्याल्पायुषि एव परलोकं गतवन्तौ। <br>
==साहित्यिक-कृतयः==
प्रेमचन्दः त्रिशताधिकानि लघुकथाः लिखितवान् अपि च चतुर्दश उपन्यासाः रचितवान्। बहवस्तस्य निबन्धाः, पत्राणि, नाटकानि अनुवादाश्च सन्ति। प्रेमचन्दस्य बह्वः कृतयः आङ्ग्लभाषायां रूसीयभाषायां च अनूदिताः सन्ति।
[[वर्गः:भारतीयलेखकाः]]
[[en:Premchand]]
|