"वेदः" इत्यस्य संस्करणे भेदः

(लघु) r2.7.1) (Robot: Adding be:Веды, індуізм
No edit summary
पङ्क्तिः ३:
<br>
चत्वारः वेदाः भवन्ति । [[ऋग्वेदः]], [[यजुर्वेदः]], [[सामवेदः]], [[अथर्ववेदः|अथर्ववेदश्चेति]] । एकैकस्यापि [[संहिता]], [[ब्राह्मणम्]], [[आरण्यकम्]], [[उपनिषत्]] इत्येवं विभागः अस्ति । वेदाः उत्कृष्टाः साहित्यकृतयः भवन्ति । तानि च सूक्तानि प्रतिभानवतां [[ऋषिः|ऋषीणां]] योगदानानि भवन्ति । एकैकस्यापि सूक्तस्य [[ऋषिः]], [[छन्दः]], [[देवता]] इति त्रितयमस्ति ।
संस्कृतसाहित्ये वेदानां स्थानं सर्वोपरि वर्त्तते । भारते धर्मव्यवस्था वेदायत्तैव । वेदो धर्मनिरुपणे स्वतन्त्रभावन प्रमाणम्, स्मृत्यादयस्तु तन्मूलकतया । श्रुतिस्मृत्योर्विरोधे श्रुतिरेव गरीयसी । न केवलं धर्ममूलतयैव वेदाः समादृताः, अपि तु विश्वस्मिन् सर्वप्राचीनग्रन्थतयाऽपि । प्राचीनानि धर्मसमाज –व्यवहारप्रभृतीनि वस्तुजातानि बोधयितुं श्रुतय एव क्षमन्ते ।
प्रधानतया वेदो द्विविधः मन्त्ररुपो ब्राह्मणरुपश्च । मन्त्रसमुदाय एव संहिताशब्देन व्यवहृतः । ब्राह्मणरुपो वेदभागस्तु संहिताभागस्य व्याख्यारुपएव । स चायं ब्राह्मणभागो यागस्वरुपबोधकतया प्रथितः । ब्राह्मणग्रन्थोऽपि त्रिधा विभक्तो भवति- ब्राह्मणम्, आरण्यकम् उपनिषदश्च । यज्ञस्वरुपप्रतिपादको ब्राह्मणभागः । अरण्ये पठिताः यज्ञस्याध्यात्मिकं रुपं विवेचयन्तो वेदभाग आरण्यकानि । उपनिषदो ब्रह्मबोधिकाः मोक्षसाधनानि, अयमेव भागो वेदस्यान्तरुपतया वेदान्त इत्युच्यते । ब्राह्मणभागो गृहस्थानामुपयोगी, आरण्यकभागो वानप्रस्थमाश्रितानाम्, उपनिषद्भागश्च सन्यस्तानामुपयोगीत्यपि कथयितुं शक्यते ।
 
अनादिनिधनाः वेदाः ब्रह्मणः चतुर्भ्य मुखेभ्यः निःस्सृता इति प्राक्तनैः निरूपितम् ।
==वेदशब्दार्थः==
 
विद्यन्ते धर्मादयः पुरुषार्था यैस्ते वेदाः, इति बहवृक्प्रातिशाख्यम् । सयणस्तु अपौरुषेयं वाक्यं वेद इत्याह । इष्टप्राप्त्यनिष्टपरिहारयारलौकिकमुपायं यो वेदयति स वेद इति भाष्यभूमिकायामुक्तम् । तत्र प्रमाणमपि तत्रैवोक्तम्
:'''प्रत्यक्षेणानुमेत्या वा यस्तूपायो न विद्यते ।'''
:'''एनं विदन्ति वेदेन तस्माद् वेदस्य वेदता ॥'''
आम्नायः, आगमः श्रुतिः, वेदः, इति सर्वे शब्दा पर्यायाः ।
सोऽयं वेदस्त्रयीति पदेनापि व्यवह्रियते, वेदरचनायास्त्रिप्रकारकत्वेन त्रयीति कथ्यते । या खलु रचना पद्यमयी सा ऋक्, या गद्यमयी सा यजुः, या पुनः समग्रा गानमयी रचना सा सामेति कथ्यते, तदुक्तं चैमिनिना –तेषामृग् यत्रार्थवशेन पादव्यवस्था । गतिषु सामाख्या । शेषे यजुः शब्दः’ इति । द्वितीयाध्याये प्रथमपादे ३२-३३-३४ सूत्राणि
यास्कस्तु –‘ता ऋचः परोक्षकृताः प्रत्यक्षकृताः आध्यात्मिक्यश्चेति भेदात् त्रिविधाः । ऋकशब्दोऽत्र मन्त्रवचनः । यासु प्रथमपुरुषक्रियास्ताः परोक्षकृताः, यासु मध्यमपुरुषक्रियास्ताः प्रत्यक्षकृताः यासु चोत्तमपुरुषक्रियास्ता आध्यात्मिक्यः ’ इति ।
अतः यत्र कुत्रापि प्राचीनग्रन्थे वेदार्थे ‘त्रयी तिं पदं प्रयुक्तं तत्र सर्वत्र रचनात्रैविध्यं मनसि कृतं बोध्यम् ।
यत्तु केचन ‘ऋग्यजुः सामाख्यास्त्रय एव वेदाः पूर्वमासन् तद्यथा –’
:'''अग्नेरऋचो वायोर्यजूषि सामादित्यात् ।''' छा. ब्रा.६/१७
:'''अग्निवायुरविभ्यस्तु त्रयं ब्रह्म सनातनम् ।'''
:'''दुदोह यज्ञसिद्ध्यर्थमृग्यजुः सामलक्षणम् ॥''' मनु. १/१३
अतो वेदानां त्रित्वादेव तत्र त्रयीति व्यवहारो वास्तवो न प्रकारभेदकृतः’ इति तदयुक्तम्, ऋग्वेदेऽपि अथर्ववेदनामोल्लेखदर्शनात् । भगवता पतञ्जलिनाऽपि ‘चत्वारो वेदाः साङ्गाः सरहस्याः’ इति पस्पशाह्निके स्पष्टमुक्तम् । छान्दोग्यब्राह्मणे मनुस्मृतौ च यज्ञोपयोगिनो वेदा एव परामृष्टाः, नाभिचारिकः सामवेद इति त्रित्वमेवोक्तम्, एवं परत्रापि । जैमिनिस्तु मन्त्राणां विप्रकारकतामेव लक्षितवान्, न वेदसंख्यां व्यवस्थापितवान् । अतो वेदाश्चत्वार एव, त्रयीति व्यवहारस्तु प्रकारकृतः । अथर्ववेदीयमन्त्रा अपि
==ऋग्वेदः==
{{Main|ऋग्वेदः}}
"https://sa.wikipedia.org/wiki/वेदः" इत्यस्माद् प्रतिप्राप्तम्