"वेदः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९:
 
अनादिनिधनाः वेदाः ब्रह्मणः चतुर्भ्य मुखेभ्यः निःस्सृता इति प्राक्तनैः निरूपितम् ।
==वेदानां रचना कालः==
प्राचीना भारतीया विद्वांसो वेदानपौरुषेयान् मन्यन्ते, तेषां मते वेदरचनाकालविचारो निरर्थको दुरर्थकश्च । पाश्चात्त्या विद्वांसो यथाबुध्दिवैभवं वेदरचनाकालं निर्धारयन्ति, पाश्चात्त्यविचारसरणिविदो भारतीया अपि तेनैव मार्गेण वेदकालं निर्णेतुं यतन्ते । अत्र तद्विषयका कतिचन विचाराः प्रस्तूयन्ते ।
===मैक्समूलरमतम्===
मैक्समूलमहोदयस्य मतेन ऋग्वेदस्य रचना ११५० ई.पू. समीपे जाता । बुध्दधर्मोदयात् प्रागेव च ब्राह्मणग्रन्था अपि व्यरच्यन्ते । बुध्देन ब्राह्मणग्रन्थेषु विवेचितानामेव यागविधीनां कट्वी आलोचना क्रियते स्म, अपि चोपनिषत्समर्थितं कतिपयतत्त्वजातमात्मसात् क्रियते स्म’ अतो बुध्दात् पूर्वतना (५०० ई.पू.) एव ब्राह्मणोपनिषद्भागाः सम्भवन्ति । वैदिकसाहित्ये चत्वारि युगानि- छन्दोयुगम् मन्त्रयुगम्, ब्राह्मणयुगम्, सूत्रयुगञ्च । प्रत्येकयुगविकासे तेन वर्षशतद्वयं कालः कल्पितः, तदनुसारेण बुध्दात् ६०० वर्षतः पूर्व छन्दोयुगस्यास्तित्वं समायाति । अतः ऋग्वेदस्य रचना ११५० ई.पू. समायात् पश्चात्कालिकी न् सम्भवतीति सम्प्रति ऋग्वेदस्य जातस्य ३२०० वर्षाणि जातानीति कथयितुं शक्यमिति तदाशयः । मैक्समूलरमहोदयेनायं कालः सम्भाव्यरुपेणोक्तो न तु निश्चयरुपेण, परं तदनुसारिणः पाश्चात्त्यास्तदीयैरेव तर्कैः कालममुं निश्चयरुपेण कथयितुं प्रवृत्ताः ।
===डां अविनाशचन्द्रदासमतम्===
अयं महानुभावः वेदे निर्दिष्टानि अनेकानि भूगर्भशास्त्रीयतत्त्वानि विशेषतः आर्यावर्त्ततश्चतुर्दिक्षु चतुः समुद्रीस्थितिमाधारीकृत्य गणनाद्वारा वेदस्य समयं २५ सहस्रसंवत्सरपूर्वं मन्यते । इदमीयं मतम् ‘ऋग्वेदिक इण्डिया’ (RigVedic India) नामके पुस्तके व्यक्ततयाऽनेन प्रतिपादितम् ।
===वेदस्थितज्यौतिषतत्त्वाधारं मतम्===
भारते षड् ऋतवो भवन्ति । अमी ऋतवः सूर्यसंक्रमणनिमित्तकाः । इदमपि प्रसिध्दं यत् प्राचीनकालादधुनापर्यन्तममी ऋतवः पश्चात्सर्पन्ति, अर्थात् पूर्व यत्र नक्षत्रे यस्यर्त्तोरुदयो जायते स्म सम्प्रति स एवर्त्तुस्ततः पूर्ववर्तिनि नक्षत्रान्तरे उदितो भवति । पुराकाले वसन्तो वर्षादिरभवत्, अत एव तस्य प्रशस्ततया भगवद्विभूतिभाव उक्तो गीतायां- ‘ऋतूनां कुसुमाकरः’ इति । सम्प्रति वसन्तसम्पातः मीनसङ्क्रान्तिकालादारभते, मीनसङ्क्रान्तिश्च पूर्वभाद्रपदनक्षत्रस्य चतुर्थचरणे भवति । सेयं स्थितिर्नक्षत्राणां क्रमशः पश्चात्सर्पणेनोत्पन्ना । पूर्वं कदाचिद् वसन्तसम्पातः उत्तरभाद्रपदरेवती-अश्विनी- भरणी –कृत्तिका- मृगशिरः प्रभृतिषु नक्षत्रेष्वासीत्, ततः पश्चात्सर्पन्नयं वसन्तसम्पातः साम्प्रतिकीं स्थितिमनुप्रपन्नः ।
 
==वेदशब्दार्थः==
विद्यन्ते धर्मादयः पुरुषार्था यैस्ते वेदाः, इति बहवृक्प्रातिशाख्यम् । सयणस्तु अपौरुषेयं वाक्यं वेद इत्याह । इष्टप्राप्त्यनिष्टपरिहारयारलौकिकमुपायं यो वेदयति स वेद इति भाष्यभूमिकायामुक्तम् । तत्र प्रमाणमपि तत्रैवोक्तम्
"https://sa.wikipedia.org/wiki/वेदः" इत्यस्माद् प्रतिप्राप्तम्