"पारासेल्सस्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ८:
ग्रीक्-चिन्तकानां विश्वासपात्रेषु चतुर्षु वस्तुषु ([[वायुः]], [[जलम्|जलं]], [[मृत्तिका]], [[अग्निः]] च) अयं पारसेल्सस् अपि विश्वसिति स्म । तथैव अरब्बानां विश्वासपात्रेषु त्रिषु वस्तुषु ([[पादरसः]], गन्धकं, [[लवणम्|लवणं]] च) अपि तस्य तावानेव विश्वासः आसीत् । अयं पारसेल्सस् कश्चन अनुक्तग्राही आसीत् । १५२७ तमे वर्षे यदा सः बेसेल्-नगरे प्रमुखः वैद्यः आसीत् तदा सार्वजनिकरूपेण [[गेलेन्]], [[अविसेन्]] इत्यादीनां पुरातनानां विज्ञानिनां कृतीः अग्निसात् अकरोत् । अयं पारसेल्सस् यदा ल्याटिन्-भाषायाः स्थाने जर्मन्-भाषया एव वदामि इति अघोषयत् तदा जनाः तं बेसेल्-नगरात् एव बहिष्कृतवन्तः । ’मानसिकरोगिणः भूतैः पिशाचैः वा पीडिताः न, शारीरिकरोगाः इव ते अपि रोगाः एव । [[मस्तिष्कम्|मस्तिष्के]] जायमानस्य व्रणस्य (अपघातस्य) पार्श्ववायुरोगस्य च सम्बन्धः अस्ति ।’ इति स्पष्टतया निरूपितवान् आसीत् अयं पारसेल्सस् । यद्यपि तस्य पूर्वजाः मिश्रलोहाणां, [[कांस्यम्|कांस्यस्य]] च उपयोगं जानन्ति स्म तथापि जिङ्कलोहस्य संशोधनं कृतवान् अयं पारसेल्सस् एव । १५४१ तम् वर्षे सप्टेम्बरमासस्य २४ तमे दिनाङ्के सः मरणम् अवाप्नोत् ।
 
[[वर्गः:विज्ञानेतिहासः]]
[[वर्गः:पुरातनाः रसायनशास्त्रज्ञाः]]
[[वर्गः:वैज्ञानिकाः]]
 
"https://sa.wikipedia.org/wiki/पारासेल्सस्" इत्यस्माद् प्रतिप्राप्तम्