"एलिजबेत् ब्ल्याक्वेल्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
[[चित्रम्:Elizabeth Blackwell.jpg|thumb|right|200px]]
(कालः - १८२१ तः १९१०)
[[चित्रम्:Elizabeth blackwell stamp.JPG|thumb|left|200px|अमेरिकादेशस्य मूल्याङ्के एलिजबेत् ब्ल्याक्वेल् चित्रम्]]
 
(कालःकाल: - १८२१ तः १९१०)
 
इयं एलिजबेत् ब्ल्याक्-वेल् (Elizabeth Blackwell) अमेरिकादेशस्य प्रथमा महिला वैद्या । एषा १८२१ तमे वर्षे [[अमेरिका]]देशे जन्म प्राप्नोत् । वैद्यकीयक्षेत्रे महिलानाम् अपि स्थानं भवेत् इति धिया एव एषा एलिजबेत् ब्ल्याक्-वेल् वैद्यकीयक्षेत्रम् अचिनोत् । परन्तु २९ विश्वविद्यालयेषु महिला इति एकेन एव कारणेन सा तिरस्कृता । अन्ते [[न्यूयार्क्]]-नगरस्य जिनीवा–विश्वविद्यालये सा प्रवेशं प्राप्नोत् । तत्र अपि तस्य विश्वविद्यालयस्य निर्वहणसमितिः तत्रत्यान् सर्वान् अपि पुरुषविद्यार्थीन् पृष्ट्वा एव तस्यै प्रवेशम् अयच्छत् । यदा सा पिलिडेल्फिया–विश्वविद्यालये अध्ययनं कुर्वती आसीत् तदा अपि तस्याः एलिजबेत् ब्ल्याक्-वेल्याः कष्टं न्यूनं न आसीत् । तत्र यदा सा रोगिणां प्रकोष्ठं प्रविशति स्म तदा अन्ये सर्वे वैद्यविद्यार्थिनः बहिः गच्छन्ति स्म । तया एलिजबेत् ब्ल्याक्-वेल् एकया एव रोगिणां परीक्षाः कृत्वा विवरणपत्रे विवरणं लेखनीतम् आसीत् । तथापि सा एलिजबेत् ब्ल्याक्-वेल् छलेन अध्ययनं समाप्य १८४९ तमे वर्षे वैद्यपदवीं प्राप्नोत् । ततः सा [[यूरोप्]]-देशम् अगच्छत् । तत्र तया उत्तमं स्वागतं प्राप्तम् । तत्रैव विभिन्नेषु वैद्यालयेषु सा एलिजबेत् ब्ल्याक्-वेल् कार्यं कुर्वती अनुभवं सम्पादितवती ।
 
 
एषा एलिजबेत् ब्ल्याक्-वेल् १८५१ तमे वर्षे पुनः न्यूयार्क्-नगरं प्रत्यागता । तत्र लघु वैद्यालयस्य उद्घाटनं तस्याः लक्ष्यम् आसीत् । किन्तु तत् सुलभसाध्यं न आसीत् । '''“शरीरस्य, वातावरणस्य,परितः विद्यमानस्य परिसरस्य च मालिन्यस्य निवारणात् एव रोगाणां निवारणं साध्यम्”''' इति तया कृतानि भाषणानि कासाञ्चन महिलानां मनः आकर्षत् । तदनन्तरं १८५३ तमे वर्षे भगिन्या एमिल्या सह मिलित्वा सा एलिजबेत् ब्ल्याक्-वेल् वैद्यालयम् उदघाटयत् । अस्याः एलिजबेत् ब्ल्याक्-वेल्याः भगिनी [[एमिली]] अपि वैद्यपदवीं प्राप्तवती आसीत् । १८५७ तमवर्षाभ्यन्तरे तया आरब्धः वैद्यालयः सम्पूर्णतया महिलानां तथा बालानां च वैद्यालयः जातः । तादृशी एलिजबेत् ब्ल्याक्-वेल् १९१० वर्षे इहलोकम् अत्यजत् ।
 
एषा एलिजबेत् ब्ल्याक्वेल् (Elizabeth Blackwell) अमेरिकादेशस्य प्रथमा महिला वैद्या ।
 
[[वर्गः:अमेरिकादेशीयाः]]
[[वर्गः:वैद्याः]]
 
 
[[zh-min-nan:Elizabeth Blackwell]]
[[bg:Елизабет Блекуел]]
[[de:Elizabeth Blackwell (Ärztin)]]
[[en:Elizabeth Blackwell]]
[[es:Elizabeth Blackwell]]
[[eo:Elizabeth Blackwell]]
[[fa:الیزابت بلکول]]
[[fr:Elizabeth Blackwell]]
[[gl:Elizabeth Blackwell]]
[[ko:엘리자베스 블랙웰]]
[[id:Elizabeth Blackwell]]
[[it:Elizabeth Blackwell]]
[[nl:Elizabeth Blackwell]]
[[ja:エリザベス・ブラックウェル]]
[[pl:Elizabeth Blackwell]]
[[pt:Elizabeth Blackwell]]
[[ro:Elizabeth Blackwell]]
[[simple:Elizabeth Blackwell]]
[[sr:Elizabet Blekvel]]
[[sv:Elizabeth Blackwell]]
[[tr:Elizabeth Blackwell]]
"https://sa.wikipedia.org/wiki/एलिजबेत्_ब्ल्याक्वेल्" इत्यस्माद् प्रतिप्राप्तम्