"पालिभाषा" इत्यस्य संस्करणे भेदः

== 'पालि'शब्दस्य का व्युत्पत्तिः ==
पालिशब्दस्य व्युत्पत्ति विषये विद्वत्सु नाना मतानि प्रचलितानि सन्ति। कश्चित् एनं पाठशब्दात् कश्चित् पायड (प्राकृत इति) शब्दात् व्युत्पन्नः मन्यते। जर्मनविद्वान् मैक्सवैलेसरः तु पालिं पाटलि इत्यस्य संक्षिप्तरूपं उक्त्वा एतन्मतं व्यक्तवान् यदेतस्य सम्बन्धः पाटलिपुत्रस्य प्राचीनभाषया सह अस्ति।
एतेभ्योऽप्यधिकं द्वयोः मतयोः विदुषामधिका नतिः। एकं तत्र पण्डितविधुशेखरभट्टाचार्यस्य मतम्, यस्मात् पालिशब्दः पङ्क्तिशब्दात् व्युत्पन्नः। एतस्य च मतस्य समर्थनं प्राचीनेन एकेन पालिकोशेन अभिधानप्पदीपिकाऽऽख्येन (12 तमशताब्दस्य) भवति। यस्मात् तत्र तन्ति (तन्त्रम्), बुद्धवचनं, पन्ति (पङ्क्तिः) इति शब्देष्वपि पालेरर्थः पङ्क्तिरित्येवास्ति। पूर्वोक्तयोश्च द्वयोः अर्थयोः पालिशब्दस्य ये प्रयोगाः लभन्ते, तेषामपि सार्थकता अनेनैव सिध्यते। बुद्धवचनानां पङ्क्ति पाठस्य वा पङ्क्ति इति रूपेण एतस्यार्थः बुद्धघोषस्य प्रयोगेषु युज्यते। तथापि ध्वनिविज्ञानानिसारेण पङ्क्तिशब्दात् पालेः व्युत्पत्तिः योक्तुं न शक्यते। तदपेक्षया पङ्क्तेरर्थे प्रयुक्तेषु देशजशब्देषु पालिशब्दस्य सम्बन्धः युज्यते, ते यथा- पालि, पाठ्ठ, पाडू इत्यादयः। पश्चाच्च पालिशब्दः संस्कृतेऽपि प्रचलितः दृश्यते। अभिधानप्पदीपिकायाञ्च यत् पालेर्व्युत्पत्तिः पालेति रक्खतीति पालि इति दर्शिता तेनापि मतस्यैतस्य समर्थनं भवति। परन्तु पालिमहाव्याकरणस्य कर्त्रा भिक्षुणा जगदीशकश्यपेन पालेः पङ्क्तिरित्यर्थे ग्रहणे काश्चित् आपत्तयः प्रदर्शिताः। तेन च तस्योत्पत्तिः मूलत्रिपिटकग्रन्थेषु प्रयुक्तात् परीयाय (पर्याय) शब्दात् दर्श्यतुंदर्शयितुं प्रयत्नं कृतम्। सम्राजोऽशोकस्य भाब्रूस्थे शिलालेखे त्रिपिटकीयस्य धर्मपरियायशब्दस्य स्थाने मागधीप्रवृत्तिमनुसृत्य धम्मपलियायशब्दस्य प्रयोगः लभ्यते, यस्यार्थः बुद्धोपदेशाः बुद्धवचनानि वा इति भवति। कश्यपस्य मतेन अस्मादेव पलियायशब्दात् पालिरिति जातः।
 
 
मूलेषु त्रिपिटकेषु भाषायाः नाम न लभ्यते। परन्तु बुद्धघोषाद्याचार्यैः बुद्धोपदेशानां भाषा मागधी इति उक्ता। विसुद्धिमग्ग इत्यस्मिन्, महावंस इत्यस्मिँश्च एषा मागधी सर्वेषां प्राणिनां मूलभाषात्वेन उक्ता। तस्य स्थाने पालिशब्दस्य प्रयोगस्तु 14 तमशताब्दात् पूर्वे न दृश्यते। आम्, बुद्धघोषेन स्वकीयासु अट्ठकथा इत्याख्यासु पालिशब्दः प्रयुक्तं नूनम्, परमेतत् न भाषायाः अर्थे, प्रत्युत बुद्धवचनार्थे अथवा मूलत्रिपिटकपाठार्थे प्रयुक्तः। तत्रापि तत् तं पाठं अट्ठकथातः पृथक्कृत्य दर्शयितुं प्रयुक्तः। एवं तेन क्वचिदुक्तं- एतस्य पालिरेवमस्ति, किन्तु अट्ठकथायाम् एवमस्ति। अथवा, न पाल्यामस्ति न अट्ठकथायामस्ति इति। बुद्धघोषात् किञ्चित्कालपूर्वे लिखिते दीपवंशे (''परीक्षितव्यम्'') ततश्च पश्चाद्रचिते महवंशेऽपि पालिशब्दस्य एतयोः द्वयोरर्थयोः प्रयोगो दृश्यते। अनेनैव च अर्थप्रयोगेन पालिशब्दः तत्साहित्यार्थे तद्भाषाऽर्थेऽपि प्रयोक्तुमारब्धः।
 
== अपि दर्शनीयम् ==
६,८२३

सम्पादन

"https://sa.wikipedia.org/wiki/विशेषः:MobileDiff/170256" इत्यस्माद् प्रतिप्राप्तम्